भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 59

59.1

#
इति श्रीस्कन्दपुराणे रेवाखण्डे शिवलोकवर्णनो नामाष्टपञ्चाशत्तमो ऽध्यायः ॥
र्क्स् अध्याय 59
युधिष्ठिर उवाच:
दानधर्मविधानं च श्रोतुम् इच्छामि कल्पग ।
दरिद्रा भिक्षवो वापि कथं यान्ति शिवालयम्

59.2

विधिना केन दानेन मुच्यते दुष्कृतं तथा ।
लोकानां च हितार्थाय कथयस्व महामुने

59.3

मार्कण्डेय उवाच:
शृणु राजन् यथा न्यायं कथयामि तवानघ ।
पुष्करं बिल्वपत्रं च कुशास्तोयं च नार्मदम्

59.4

स्वयम्भूर् भगवान् आह सामान्यं धर्मकारणम् ।
श्रद्धापूताः सर्वधर्माः पुराणं श्रुतयस् तथा

59.5

तस्योपदेशधर्मेण नरा यान्ति त्रिविष्टपम् ।
यस् तूलपूर्णविस्तीर्णं रक्तवस्त्रं ससूत्रकम्

59.6

व्याघ्रचर्मकृतं वापि नववस्त्रावगुण्ठितम् ।
कृष्णाजिनोपवीतं च पुण्यधूपाधिवासितम्

59.7

शिवध्यानाभियुक्ताय श्रद्धया विनिवेदयेत् ।
तत् तूलवस्त्रतन्तूनां रोमसंख्यास्ति यावती

59.8

तावद् वर्षसहस्राणि शिवलोके महीयते ।
मोदते सर्वलोकेषु भुक्त्वा भोगान् अनेकशः

59.9

पुनश् च क्षितिमासाद्य सिंहासनपतिर् भवेत् ।
तृणवल्कलपर्णानि शय्या प्रावरणादिकम्

59.10

दत्त्वा तदर्थिने भूमौ शिवलोके महीयते ।
शिवमुद्दिश्य नैवेद्यं यो दद्याच् छिवदर्शिने

59.11

शाकं मूलं फलं वापि तस्य पुण्यफलं शृणु ।
यावत् स्यात् तण्डुलादीनां संख्याफलदलेषु च

59.12

तावद् वर्षसहस्राणि शिवलोके महीयते ।
भिक्षां सव्यञ्जनां दत्त्वा शिवभक्ताय भक्तितः

59.13

वर्षलक्षं महाभाग शिवलोके महीयते ।
दधिभक्तं सुसम्पूर्णं भिक्षापात्रं सुशोभनम्

59.14

दद्याद् यः शिवभक्ताय तस्य पुण्यफलं शृणु ।
वर्षकोटिसमं दिव्यं महाभोगैः समन्वितम्

59.15

स्थित्वा शिवपुरे दिव्ये तस्यान्ते च महीपतिः ।
सुशीतलेन तोयेन शिवभक्तं सितायुजा

59.16

तर्पयित्वा शम्भुलोके वर्षलक्षं च मोदते ।
कलशं शर्करोपेतं वस्त्रपूताम्बुपूरितम्

59.17

दद्याद् यः शिवभक्ताय तस्य पुण्यफलं शृणु ।
शुद्धस्फटिकसंकाशं विमानं सर्वकामिकम्

59.18

संप्राप्य शिवलोके तु वर्षकोटिं स मोदते ।
पलाशपर्णैः पत्रैर् वा यः कुर्यात् पुटकानि तु

59.19

प्रदद्याच्छिवयोगिभ्यस् ताम्रपात्रप्रदो हि सः ।
यस् ताम्रपात्रं सुकृतं प्रदद्याच् छिवयोगिने

59.20

कोटिषट् कं स कल्पानां शिवलोके महीयते ।
शूलं वहति यः पाणौ शक्तिं पृष्ठे कमण्डलुम्

59.21

तं भोजयित्वा यत्नेन शिवलोकम् अवाप्नुयात् ।
भोजयेच् च यथा शक्त्या यः शिवव्रतचारिणम्

59.22

भोगैः स क्रीडति श्रेष्ठैः शिवलोके व्यवस्थितः ।
यः शिवाश्रमधर्मं च गृहस्थं भोजयेद् बुधः

59.23

विपुलैः स महाभोगैः शिवलोके महीयते ।
शिवाश्रमव्रतस्थं यः कन्दाद्यैर् भोजयेत् नरः

59.24

स दिव्यानाप्नुयाद् भोगान् ईश्वरस्य पुरे स्थितः ।
एवं पाशुपतं भक्तं भोजयित्वा प्रणम्य च

59.25

नानाविधैर् महाभोगैः शिवलोके महीयते ।
महाव्रतधरायैव भिक्षां यः प्रतिपादयेत्

59.26

स दिव्यैः शोभनैर् भोगैः शिवलोके महीयते ।
सयमनियम् आचारं शिवभक्तिपरं नरम्

59.27

भोजयित्वा यथाशक्त्या शिवलोके महीयते ।
ज्ञानयोगबहिःस्था ये लोकसामान्यधर्मिणः

59.28

पूजयन्ति शिवं भक्त्या शिवलोकं व्रजन्ति ते ।
अनाशिकेनापि करीषवह्णिना पयः प्रदानेन तपोभिर् उग्रैः

59.29

प्रयान्ति यज्ञैश् च न तां गतिं नरा ।
नीचो ऽपि यां याति हि रुद्रभक्तः

59.30

यथा रेवाजलस्पर्शाल् लभन्ते सद्गतिं नराः ।
न तथा यज्ञदानाद्यैर् उपायैर् भरतर्षभ

59.31

इत्य् एष शिवलोकस् तु प्रसङ्गात् समुदाहृतः ।
गोलोकः कल्पगालोकः शिवभक्तैः समन्वितः

59.32

ज्ञानयोगेन ये शान्ता जपन्ति परमं शिवम् ।
ते सर्वदुःखनिर्मुक्ता भवन्ति सुखिनः सदा

59.33

शिवलोकश् च विज्ञेयो मण्डलावरणात्मकः ।
पञ्चभूतान्यहंकारः सत्त्वं प्रकृतिरष्टमी

59.34

ईदृशानां तु नागानां कोट्यो ज्ञेयाः सहस्रशः ।
सर्वाङ्गत्वात् प्रधानस्य तिर्यगूर्ध्वमधः स्थितम्

59.35

विष्णुलोकात् परं स्थानं कुमारस्य महात्मनः ।
स्वच्छमौक्तिकसंकाशं परमा श्रीसमन्वितम्

59.36

स्कन्दलोकात् परं स्थानम् उमादेव्याः प्रकीर्तितम् ।
तप्तचामीकरप्रख्यम् अशेषगुणसंयुतम्

59.37

उमास्थानात् परं चैव हरस्थानं तदुत्तमम् ।
सूर्यकोटिप्रतीकाशं सर्वकाम् असमन्वितम्

59.38

गणैर् अध्युषितं सर्वैर् असंख्यैर् योगतत्परैः ।
हिरण्यगर्भकूर्माद्यैर् वसुरुद्रदिवाकरैः

59.39

स्तूयते भगवान् नित्यं तस्यान्ति प्रतिकाङ्क्षिभिः ।
ज्ञानध्यानपरैः शान्तैर् भिक्षाहारैर् जितेन्द्रियैः

59.40

प्राप्यं तैश् च परं स्थानं सूर्यायुतसमप्रभम् ।
तत्सत्कर्मकरैर् नित्यं ब्राह्मणैर् दग्धकल्मषैः

59.41

वसन्ति यदृतं सिद्धाशयास् तु क्लेशवर्जिताः ।
नर्मदा सेव्यमानाश् च लभन्ते तत्पदं नराः

59.42

एतत् ते कथितं पार्थ यथोद्दिष्टं तु शम्भुना ।
यन् मया कथितं दानं नर्मदातीरम् आश्रितम्

59.43

गच्छन्ति ये ऽन्यत् तीर्थं तु सहस्रांशो विशिष्यते ।
सर्वज्ञाः सर्वगाः शुद्धाः परिपूर्णा भवन्ति ते

59.44

शुद्धकर्मकरा ये तु परमैश्वर्यसंयुताः ।
सदेहाश् च विदेहाश् च भवन्ति स्वेच्छया पुनः

59.45

इति नित्यं विशुद्धं च स्थानम् आद्यम् उमापतेः ।
दिव्यं श्रीकण्ठनाथस्य जगद्भर्तुः समंस्थितम्

59.46

स्थानं नवकमित्य् एवं निर्गता यत्र कल्पगा ।
परमाष्टगुणैश्वर्यनित्यम् अक्षयम् अव्ययम्

59.47

शश्वद्गुरुप्रणीतेन ध्यानयोगेन ये नराः ।
ध्यायन्ति देवतां नित्यं ते सिद्धा यान्ति तत्पदम्

59.48

ये ऽभ्यसन्ति शिवज्ञानं नर्मदातीरम् आश्रिताः ।
कामतृष्णाविनिर्मुक्तास् ते ऽपि यान्ति च तत्पुरम्

59.49

अप्य् एकदिवसं यावच् छिवध्यानपरायणः ।
शिवधर्मपरस् तस्य धर्मस्यान्तो न विद्यते

59.50

योगधर्मसु सारत्वादभेद्यं पापमुद्गरैः ।
वज्रतण्डुलवज् ज्ञेयं तस्मात् तस्य फलं महत्

59.51

देहान्तेनैव धर्मेण स्थानमाद्यं शिवालयम् ।
यत्रास्ते विपुलैर् भोगैः क्रीडन् कल्पायुतं नरः

59.52

ततः कल्पायुतस्यान्ते स्थानं कौमारम् आप्नुयात् ।
तत्रार्धसम्मितं कालं स क्रीडन् ससुखं वसेत्

59.53

तदन्ते विष्णुलोकं च संप्राप्य वसते पुनः ।
ब्रह्मलोकं गतश् चान्ते तत्रापि वसते नरः

59.54

ब्रह्मलोकपरिभ्रष्टो वसेच् छिवपुरे सुखम् ।
तत् तस्माद् ब्रह्मविष्ण्वाद्यांल् लोकान् प्राप्नोत्य् अनुक्रमात्

59.55

इत्य् एवं सर्वलोकेषु रमित्वा क्रमशस् ततः ।
मनुष्यलोकम् आसाद्य शिवं रेवां समाश्रयेत्

59.56

मया ते कथिता ऽन्यत्र यानि दानानि भारत ।
तानि सर्वे प्रशंसन्ति पर्वते ऽमरकण्टके

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc