स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 5
इति श्रीस्कन्दपुराणे रेवाखण्डे चतुर्थो ऽध्यायः ॥
र्क्स् अध्याय 5
युधिष्ठिर उवाच:
राज्ञा ऽवतारिता रेवा कथं वै पुरुकुत्सुना ।
तत् सर्व श्रोतुम् इच्छामि त्वत् तो ब्रह्मविदां वर
मार्कण्डेय उवाच:
शृणु राजन् कथां दिव्यां पुरा स्कन्दस्य कीर्तिताम् ।
तत् ते ऽहं कथयिष्यामि शिवेनोक्तं श्रुतं मया
क्षत्रियस्य कुलोत्पन्नः पुरुकुत्सुर् महायशाः ।
तेन वर्षसहस्रं वै पूर्वमाराधितो हरः
तपसा च भवेनोक्तं कस् त्वया प्रार्थितो वरः ।
ददामि ते वरं ह्य् एतद् येन त्वं सुखमेधसे
एवम् उक्तस् तदा राजा प्रार्थये ऽहं तवाज्ञया ।
यदि तुष्टो ऽसि मे देव कार्यं तत् कथयाम्य् अहम्
आस्ते नदी महाभागा नर्मदा नाम विश्रुता ।
अवतारयतां शम्भो कुमारीं दिव्यरूपिणीम्
तस्य तद् वचनं श्रुत्वा शम्भुर् विस्मयम् आगतः ।
सुचिरं क्लिश्यमानेन क्षत्रियेण महात्मना
अप्रार्थ्यं प्रार्थितं स्कन्द दुःसाध्यं त्रिदशैर् अपि ।
उक्ताशयः स राजर्षिः साध्यं किंचिन् निषेवय
मम वाक्यं तु तच् छ्रुत्वा क्षत्रियस् तु स विह्वलः ।
अपतत् स महाभागो मूर्छितो धरणीतले
आश्वासितो मया तत्र स्वस्थो भव विशाम्पते ।
मर्त्यलोके सरिच्छ्रेष्ठां नर्मदाम् अवतारये
तस्यास् त्व् आगमनं श्रुत्वा त्रस्ता देवाः सवासवाः ।
कः शक्नुयाद् इमं भारं सोढुं वेगश् च नार्मदम्
धरणी भारभूता च नष्टा भ्रष्टाश् च पर्वताः ।
अशक्तास् तोयवर्षस्य धारणे सरितस् तथा
अस्ति सिद्धो महापुण्यः पर्यङ्को नाम पर्वतः ।
स सहेत महाभारं वोढुं वेगश्च नार्मदम्
सर्वे देवा ऽगतास् तत्र प्रार्थितुं तं नगोत्तमम् ।
पृष्टास् तु पर्वतेन्द्रेण केन कार्य्येण चागता
देवा ऊचुः:
इक्ष्वाकुवंशसम्भूतः पुरुकुत्सुर् नराधिपः ।
तेनावतारिता पुण्या नदी नामा तु नर्मदा
तेजः शब्दम् च भारं च तस्याः पातं रयं तथा ।
असमर्था नगा वोढुं त्वामृते गिरिसत्तम
पर्यङ्क उवाच:
आगच्छतु महादेवी धारयामि न संशयः ।
आगच्छन्तीं महापुण्यां धारयामि च साम्प्रतम्
चलिता नर्मदा शीघ्रं वेगेन समुपस्थिता ।
कृत्वा तस्योत्तमाङ्गेषु पर्यङ्कस्यैव भूभृतः
राज्ञा तु सहिता देवी त्रिदशैर् अपि संयुता ।
वैन्येन तु पुरा चेष्टम् अश्वमेधेन भूभुजा
मखस्थाने च वैन्यस्य वेणस्तम्बो महानभूत् ।
यं दृष्ट्वा विस्मयं प्राप्तास् सर्वे देवास् सवासवाः
वेणोस्तस्यैव मूलात् तु निर्गता सा महानदी ।
कृताञ्जलिपुटा देवास्थिताः सर्वे ऽत्र संस्थिताः
जय शब्दं प्रकुर्वन्तस् त्रिदशा ब्रह्मवादिनः ।
गणगन्धर्वयक्षाश् च मरुतश् च तथा ऽश्विनौ
पिशाचा राक्षसा नागा ऋषयश् च तपोधनाः ।
सर्वे पाद्येन चार्ध्येण भीतास् ते किङ्करा इव
पाद्योपसंग्रहं कृत्वा नर्मदां शरणं गताः ।
अद्यः नः सफलं जन्म तपो ऽद्य सफलश् च नः
कृतार्था देवताः सर्वा देवि त्वद् दर्शनाद् इह ।
तम् एव पुरुषं मन्ये येनैषा ह्य् अवतारिता
वदन्ति देवतास् सर्वा मर्त्यलोकः परं गतः ।
ऋषिभिर् दैवतैः प्रोक्ता स्पृश हस्तेन देवताः
येन पूतत्वम् आयान्ति नर्मदे नष्टकिल्विषाः ।
नर्मदा तु वदत्येवं न स्पृशामि सुरान् गणान्
कुमारी ह्य् अहम् अद्या ऽपि मम भर्ता न विद्यते ।
अहो कष्टं तु देवाश् च चिन्तया विह्वलीकृताः
त्वतुल्यो रूपसम्पन्नः कुतः प्राप्यो वरोत्तमः ।
येन त्वं दर्शिता लोके स ते भर्ता भविष्यति
ब्रह्मणस् तु पुरा शापात् समुद्रः पुरुकुत्सुकः ।
गतो मर्त्ये महाबाहुरिक्ष्वाकुकुलनन्दनः
पुरुकुत्सुर् वरस् ते ऽस्तु क्षत्रियो देवसन्निभः ।
उद्वाहिता तदा तेन क्षत्रियेण तु नर्मदा
उवाच वचनं देवान् नर्मदा सप्तकल्पगा ।
देवत्वम् ईदृश यस्य प्रजा धर्मे व्यवस्थिताः
किम् अन्यत् तस्य वाच्यं स्यात् पुरुकुत्सोर् महात्मनः ।
स्वयम्भुवो यथा पुत्रो मानसः परिकीर्तितः
पुरुकुत्सुस् तथा चा ऽयं सर्वधर्मपरायणः ।
उवाच वचनं राजा पुरुकुत्सुश् च नर्मदाम्
नर्मदे देवकन्या त्वं प्रसादः क्रियतां मयि ।
यान्तु मे पितरः स्वर्गं मम चा ऽस्तु महद्यशः
नर्मदोवाच:
एव भवतु राजेन्द्र मत्तस्त्वं यद्यदिच्छसि ।
तत् सर्वं भवतश् चाद्य मत्प्रसादाद् भविष्यति
एवम् उक्त्वा ययौ देवी वारुणीं च दिशां तदा ।
निष्क्रान्ता पर्वतात् तस्मात् पर्यङ्कात् सरितां वरा
याति वेगात् तथा देवी धनुर् मुक्तः शरो यथा ।
विदार्य मेदिनीं सर्वा पर्वतां छिखराणि च
चूर्णयित्वा च तान् सर्वान् वज्राशनिहतान् इव ।
यत्र यत्र गता विन्ध्ये तत्र तत्रावगाह्यते
तत्र गङ्गासहस्रस्य फल स्यात् तीर्थवर्जिते ।
तदा स्तुता महादेवी नर्मदा लोकपावनी
ऋषिभिर् वैदिकैः सर्वैः सुखसन्तानकारिका ।
वेदा धर्मस्य मूलानि स्मृतिपुष्पफलानि च
भक्षयन्ति द्विजाः पुण्या अग्निहोत्रपरायणाः ।
सेवन्ते नर्मदा ते ऽपि स्वर्गसोपानपद्धतिम्
यत्र यत्र गता स्कन्द तत्र तत्रैव दुर्लभा ।
दर्शने नर्मदायास् तु अग्निष्टोमफल लभेत्
ये तु संस्नान्ति सेवन्ते नर्मदाम् अप्य् अकामतः ।
फलं बहु सुवर्णस्य ते ऽपि प्राप्स्यन्ति मानवाः
यत्र यत्र गता पुण्या शिवस्यायतने शुभे ।
गङ्गास्नानस्य लक्षेण तत्र स्नाने सम भवेत्
अग्निहोत्रेण यत्पुण्य पितृश्राद्धेन यत्फलम् ।
सर्वं सम्पद्यते तस्य नर्मदाया जलेन तु
यत्किंचिद् वैदिकं कर्म्म ब्राह्मणाः कुर्वते सदा ।
नर्मदायास् तटे शूद्धिर् नात्र कार्य्या विचारणा
नर्मदासङ्गमो यत्र शिवक्षेत्रं विनिर्दिशेत् ।
गङ्गाया लक्षमात्रेण तत्स्थानन् तु विशिष्यते
कीर्तनं नर्मदायास् तु दानं तीर्थस्य सङ्गमे ।
न तेन सदृशं राजन् सत्यम् एतद् ब्रवीम्यहम्
नर्मदां प्रातर् उत्थाय ये स्मरन्ति विचक्षणाः ।
पूर्वजन्मकृतं पापमैहिकश् च विनश्यति
नर्मदां मानवः कश्चित् तत्र यत्रावगाहते ।
शतजन्मार्जितं पापं तत्क्षणात् नश्यति ध्रुवम्
नर्मदायास् तटे चैव प्राणांस्त्यजति मानवः ।
कल्पकोटिसहस्राणि स्वर्गलोके महीयते
ये ऽप्य् अधर्मपराधीना नर्मदायां कथञ्चन ।
ते ऽपि रुद्रत्वम् आयान्ति सत्यम् एतद् ब्रवीम्य् अहम्
प्रायश्चित्तानि दीयन्ते यत्र रेवा न विद्यते ।
रेवातोये तु संप्राप्ते प्रायश्चित्तं न विद्यते
नर्मदां च महापुण्यां सप्तकल्पाधिवासिनीम् ।
सततं यः स्मरेद् भक्त्या स शिवः परिकीर्तितः
तत्र वैण्येश्वरं देवं वेणुमूले व्यवस्थितम् ।
स्वर्गदं मोक्षदं विद्धिलोकानां पापनाशनम्
विन्ध्यस्यैव तथा चाष्टौ मानसाः परिकीर्तिताः ।
पर्यङ्कः प्रथमो ज्ञेयः श्रेष्ठः सर्वमहीभृताम्
असिताङ्गो वराङ्गश् च तथा ऽन्ये चापि पर्वताः ।
पावको जातवेदाश् च कदम्बः सुरनायकः
अर्चितास् तैर् महाभागैर् धर्मकर्मपरायणैः ।
उद्गमात् निर्गमं यावद् वारुणीं दिशमास्थिताः
सार्द्धम् एकशतं तस्याः प्रवाहाः परिकीर्तिताः ।
क्रोशार्द्धस्य त्रिभागश्च विस्तारः परिकीर्तितः
शिवस्य वर्तते चात्र ब्रह्मविष्णुं विडौजसाम् ।
कोटिभिस् त्रिदशानान्तुका ऽन्या धर्तुं प्रशक्यते
आत्मानम् आत्मना सा तु बभार परमेश्वरी ।
त्रिदशानां हितार्थाय मानवानां च भारत
लक्षयोजनपर्य्यन्तं जम्बूद्वीपं प्रचक्षते ।
द्विगुणः परिवेषस् तु लवणोदस् तु भारत
सहस्रयोजनं विद्धिकन्याद्वीपञ्च भारत ।
तस्याः पञ्चशती गम्या त्वगम्या च तथा ऽपरा
शुभाशुभफलं चात्र पुण्यपापविभागयोः ।
प्रथमं मानुषो भूत्वा देवत्वमुपपद्यते
क्षीणे पुण्ये पुनर्याति मानुषत्वं पृथक् पृथक् ।
कर्म्मभूमिम् इमां विद्धि विदितं तव भारत
धर्मेण कर्म्मणा स्वर्गः स्याद् एव सुकृते कृते ।
नद्याः प्रवाहे भूभागे कल्पगाया व्यवस्थितिः
लोकानां तारणार्थाय अवतीर्णा सरिद्वरा ।
अत्र स्वर्गश् च मोक्षश् च नर्मदातीरमाश्रितौ
एतत् ते कथितं राजन् यथा वृष्टं सुरोत्तमैः
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0