स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 58
इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये सप्तपञ्चाशत्तमो ऽध्यायः ॥
र्क्स् अध्याय 58
युधिष्ठिर उवाच:
श्रुत्वैतत् परमं गुह्यं गवां देवसम् उद्भवम् ।
ब्रह्मकूर्चस्य माहात्म्यं श्रोतुम् इच्छामि तत्त्वतः
आख्याहि भगवन् सर्वं गोलोकः कीदृशः स्मृतः ।
प्राप्यते कर्मणा केन के तस्मिन्न् अनिशं स्थिताः
मार्कण्डेय उवाच:
श्रूयताम् अभिधास्यामि नमस्कृत्य महेश्वरम् ।
गोमातृलोकं परमं सर्वकाम् असमन्वितम्
यथावत् सर्वलोकानाम् उपर्युपरि संस्थितम् ।
पातालानि ततः सप्त पातालं च ततस् तथा
यावत् प्रमाणं परितः परिच्छिन्नं महीतलम् ।
तावत् प्रमाणं तस्याः समुद्रास् तानि चैव तु
तेषां प्रत्येकम् उत्सेधप्रमाणं परिकीर्तितम् ।
योजनानां सहस्राणि दशार्धानि ततस् ततः
सहस्रयोजनोत्सेधस् तस्याभ्यन्तरतस् तथा ।
विवराणां समस्तानां सहस्राणि नव स्मृतम्
तेषां रुचिरमाहात्म्यं नामतस् तु महीतले ।
दिव्यदिव्योपसम्पन्नः श्रीमच्चामीकरद्युतिः
नागराजः सदैवास्ते तस्मिन् कृतनिकेतनः ।
अनन्तो ऽनन्तधामा च मुकुन्दो नृपशैवलः
ततो रसातलं नाम शिवसन्तोषभूमिकम् ।
वासुकेर् नागराजस्य तत्र चारु महापुरम्
पुर च सुरलोम्नस् तु दानवाधिपतेर् महत् ।
सुपर्णस्य च दैत्यानाम् अशेषाणां महात्मनाम्
ततः सुतलनामास्ति शर्कराञ्चितभूमिकम् ।
नागादीनां स्वस्तिकानां तत्रैव वसतिः सदा
दानवाधिपतीनां च तत्रैव निलयः परः ।
वैरोचनहिरण्याख्यप्रभृतीनां महात्मनाम्
ततश्चातलम् इत्युक्तं पातालानां तस्य तु वै ।
तेषाम् ऊर्ध्ववस्तुसर्वेषां मृन्मयं च तलं क्षितेः
असुराधिपतेस् तावत् कालनेमेर्महापुरम् ।
चारुचामीकराभासं वैनतेयस्य चापरम्
ततश् च वितलं नाम पातालं रक्तभूतलम् ।
तस्मिन् महान्तको नाम दानवेन्द्रकृतालयः
तालको ऽग्निमुखस् तस्मिन् नलह्रादश् च दानवाः ।
निवसन्ति कृतागारास् तथा प्रह्लादवर्चसः
पातालं वितलं नाम शुक्लं क्षितितलं ततः ।
कम्बलाश्वतरौ नागौ सहितौ तत्र तिष्ठतः
महाजम्भहयग्रीवप्रभृतीनां महात्मनाम् ।
वाराणस्यसुरेन्द्राणां निवासस् तत्रकल्पितः
कृष्णं क्षितितलं तस्मात् पातालतलसंज्ञकम् ।
शङ्कुकर्णमहानादनमुचीनां निकेतनम्
पातालात् सप्तमाद् ऊर्ध्वं सप्तद्वीपा मही स्थिता ।
समुद्रैः सप्तभिर् युक्ता पर्वतैः समलंकृता
जम्बूद्वीपश् च तन् मध्ये प्लक्षद्वीपस् ततः परः
क्रौञ्चद्वीपश् च परतः शाकद्वीपश् च तद्बहिः ।
परतः पुष्करद्वीपः सप्तमः परिकीर्तितः
क्षारोदकश् चेक्षुरसः सुरोदश् च घृतोदधिः ।
दधितोयः क्षीरपूर्णः स्वादूदः सप्तमः स्मृतः
सप्तद्वीपसमुद्राणां द्विगुणद्विगुणान्तरः ।
प्रमाणविस्तरो ज्ञेयो नियुतः प्रथमः स्मृतः
हिमवान् हेमकूटश् च निषधश् चेति दक्षिणे ।
नीलश् च श्वेतः शृङ्गश् च मेरोरुत्तरतः स्मृताः
मेरुर् अस्ति स्थितो मध्ये जम्बूद्वीपस्य भारत ।
माल्यवान् पूर्वतो ज्ञेयः पश्चिमे गन्धमादनः
एते पर्वतराजानो जम्बूद्वीपे नव स्मृताः ।
प्लक्षद्वीपादिषु ज्ञेयाः सप्तसप्तैव पर्वताः
पुष्करद्वीपमध्ये तु पर्वतो वलयाकृतिः ।
एकः स्मृतः समन्ताच् च नामतो मानसः स्मृतः
विन्ध्यो नाम महाभागो जम्बूद्वीपे व्यवस्थितः ।
यत्रैषा नर्मदादेवी प्लवन्ती लोकतारिणी
विन्ध्यस्य चानुजो भ्राता सह्यो दक्षिणतः स्मृतः ।
उर्वी कूर्मतलाकारा काञ्चनी परिमण्डला
अणुरेव तथा सा तु निर्दिष्टातिविदः क्षितिः ।
तस्याः प्रमाणं निर्दिष्टं दशयोजनकोटयः
लोकालोक इति ख्यातस् तस्याः प्रान्ते समन्ततः ।
स्फीतो हेममयः श्रीमान् सरलः परिमण्डलः
योजनानां सहस्राणि चार्धमस्य व्यवस्थितम् ।
तावदेव च विस्तीर्णं तदर्धे भानुराहितः
प्रकाशयति स ज्योतिः परभागे निहन्यते ।
लोकालोक इति प्रोक्तस् ततो ऽसावचलो महान्
लोकालोकावसानो ऽयं भूर्लोकः परिकीर्तितः ।
गन्धर्वयक्षरक्षोभिः पिशाचैश् च निषेवितः
मानुषैः पशुभिश् चैव मृगपक्षिसरीसृपैः ।
स्थावरैर्विविधाकारैर् भूतैर् एतैश् च षड्विधैः
भूर्लोकश् च भुवर्लोको यावद् आदित्यमण्डलम् ।
वसन्ति सततं रुद्रास् सततं वक्त्रभास्कराः
आदित्यमण्डलादूर्ध्वं स्मृता स्वर्लोकसंस्थितिः ।
विमानकोटयस् तस्मिन्न् अष्टाविंशतिराशयः
मेढीभूतो विमानानां सर्वेषाम् उपरि ध्रुवः ।
नियुता अनिलस्कन्धाः सप्तास्मिन्न् अन्तरे स्थिताः
पृथिव्याः प्रथमः स्कन्धः स्थितश् चामेघमण्डलम् ।
आहवो नाम वै वातो व्यूहानां व्यूहकृत् तथा
द्वितीयः प्रवहो नाम निबद्धः सूर्यमण्डले ।
तृतीयः संवहो माम सुस्कन्धो ऽसौ प्रतिष्ठितः
चतुर्थः सोद्वहः स्कन्धः स्थितो नक्षत्रमण्डले ।
ततो द्वयोर् विनिर्दिष्टा विमानोद्वहनक्रिया
योजनानां ध्रुवः कोटिर् महर्लोकः समुच्छ्रितः ।
स्कन्धः परिवहो नाम निबद्धः सप्तमो ध्रुवे
अन्नादीनि करोत्य् एष पर्वणाम् उपरि स्थितः ।
विनिर्वृत्तं विकाराणाम् अधिवासो महात्मनाम्
तत्राधिकारिदेवानाम् अष्टाविंशति कोटयः ।
जनात् स्वर्लोकम् आगत्य नियोगात् पद्मजन्मनः
स्थिता मन्वन्तरं तत्र स्वव्यापारावसायिनः ।
आरुह्य च महर्लोकम् आगच्छन्ति ततः पुनः
ब्रह्मणो दिवसैकेन देवाः स्वर्गे चतुर्दश ।
क्रमेण कृत्वा कर्माणि महर्लोके वसन्ति ते
कोटिद्वयं महर्लोकाज् जनलोकः समुच्छ्रितः ।
साध्यानाम् असुरास् तत्र वसन्ति सुखिनः सदा
योजनानां चतुःकोट्यः जनाद् अप्य् उच्छ्रितं तपः ।
प्रजानां पतयस् तत्र स्थितास् तु ब्रह्मणः सुताः
सत्यलोकस् तपोलोकात् कोटिषट्कं समुच्छ्रितम् ।
आस्ते परिवृतस् तत्र देवासुरगणैर् विराट्
ब्रह्मलोकाद् विष्णुलोको द्विगुणेन समुच्छ्रितः ।
विस्तरेण तदूर्ध्वे च दिव्यलोकः समन्वितः
विष्णुलोकाच् च परतः श्रीमच् छिवपुरं महत् ।
द्वाविंशत् कोटिविस्तीर्णं तदूर्ध्वे समुपस्थितम्
सूर्यायुतप्रतीकाशं सर्वकामसमन्वितम् ।
अनेकारण्यविन्यासं स्वर्गनद्युपशोभितम्
सर्वरत्नान्वितैर् दिव्यैस् तप्तजाम्बूनदप्रभैः ।
सहस्रखण्डभौमैश् च सर्वशोभासमन्वितैः
विमानैः सर्वतो व्याप्तं चन्द्रैर् इवनभस्तलम् ।
अप्सरोगणसंकीर्णं सर्वविद्याधरान्वितम्
नृत्यगीतरवोपेतैर् अप्रमेयगुणान्वितैः ।
मनोजवैर् असंख्यातैः परिवारसमन्वितैः
क्वचिद् दोलागृहैर् रम्यैः किङ्किणीर् अवकान्वितैः ।
उद्गतैर् अर्धचन्द्रैश् च घण्टाभरणभूषितैः
मणिमुक्तावितानैश् च मणिरत्नचयैः शुभैः ।
सर्वरत्नार्चितैर् द्रव्यैर् मुक्तादामसुशोभनैः
महासिंहासनैर् दिव्यैः सर्वरत्नविभूषितैः ।
क्वचित् पुण्यगृहैर् व्याप्तम् असंख्यगुणान्वितैः
सदा पुष्पफलैर् वृक्षैः क्वचिद् व्याप्तं मनोरमैः ।
पुष्पोद्यानैर् महारम्यैः शतशो ऽथ सहस्रशः
सप्तकल्पवहा पुण्या तत्रैवास्ते सरिद्वरा ।
तत्कलायाः सहस्रांशो जम्बूद्वीपे प्रदृश्यते
अवतीर्णा महीपृष्ठे लोकानुग्रहकाम्यया ।
सर्वात्मना ऽवतारश् च गङ्गादिसरिताम् इह
अमृतस्यन्दिनीभिश् च नदीभिर् उपशोभितम् ।
हेमरत्नाञ्चिता वाप्यः सोपानैः स्फाटिकैर् युताः
सितरक्तासितैः पीतैः सरोजैर्याः सुगन्धिभिः ।
पञ्चवर्णैश् च गुरुभिः शोभिताः काञ्चनाकुलैः
महाविकाशि संस्निग्धैः श्रीमद्भिः पञ्चहस्तकैः ।
दश द्वादशहस्तैश् च तथा विंशतिहस्तकैः
नालैर् मरकतप्रख्यैर् मनोहरदलान्वितैः ।
पूर्णनीलोत्पलैश् चान्यैर् दीर्घिकाश् च क्वचित् क्वचित्
सिंहव्याघ्रमुखैर् दिव्यैर् गजवाजिमृगाननैः ।
गोमुखैश् छागवदनैः कपिपक्षिमुखैस् तथा
एकवक्त्रैर् महावक्त्रैर् बहुवक्त्रैर् अवक्त्रकैः ।
एकपादैस् त्रिपादैश् च बहुपादैर् अपादकैः
वामनैर् जटिलैर् मुण्डैर् दीर्घग्रीवैर् महोदरैः ।
महाकायैर् महानासैर् महाकर्णैर् अकर्णकैः
नानारूपाकृतिधरैर् नानाभरणभूषितैः ।
नानावेषधरैर् दिव्यैः कामरूपैर् महाबलैः
नानाप्रभावसंयुक्तैर् नानाशास्त्रविशारदैः ।
असंख्या जातयश् चान्या निवसन्ति तथा विधाः
कुब्जावामनकादीर्घा वरदेहा वराननाः ।
मुण्डाश् च विकटा नीचा ह्रस्वदीर्घश् च तादृशाः
लम्बोदरा ह्रस्वभुजा विनता ह्रस्वजानुकाः ।
मृगेन्द्रवदनाश् चान्या गजवाजिमुखास् तथा
ह्रस्वकुञ्चितकेशाश् च सुन्दरप्रियदर्शनाः ।
पञ्चाशत्कोटयस् तत्र शिवस्य परिचारिकाः
मणिमाणिक्यगेहेषु रमन्ते ता बहिः क्वचित् ।
तत्र गेहेषु यद् द्वारिसहस्रशतभूमिषु
विचित्रभूमयस् तत्र वज्रवैदूर्यभूषिताः ।
इति सर्वगुणोपेतैः स्त्रीसहस्रैर् वराननैः
असंख्यातैः पुरं व्याप्तम् ईश्वरस्य समन्ततः ।
तन् मध्ये सर्वतोभद्रं दिव्यमायतनं महत्
शुद्धस्फटिकसंकाशं स्थानम् आद्यम् उमापतेः ।
तत्रास्ते भगवान् सोमः पूज्यमानो गणेश्वरैः
सिद्धैः स्वस्थानसंप्राप्तैर् ब्रह्मविष्ण्वादिभिस् तथा ।
धर्मस् तत्र स्थितः श्रीमानीश्वरायतने ऽनघ
यत्र वीरवृषः तत्र नित्यं गोमातरः स्थिताः ।
तत्र सा नर्मदादेवी पूज्यमाना सुरासुरैः
तेनोदकेन तृप्यन्ति गोवत्साः सर्वदेवताः ।
ब्रह्माविष्णुः सुरेशान उमया सहितो ऽनघ
सुराश् च ऋषयो भूताः पितरो मातरस् तथा ।
स लोकः शिवलोको ऽत्र नर्मदालोक एव च
ये गुणा रुद्रलोकस्य गोलोकस्य तथैव च ।
नन्दा भद्रा सुभद्रा च सुशीला सुरभिस् तथा
इति गोमातरः पञ्च शिवलोकविनिर्गताः ।
षष्ठी तु नर्मदादेवी लोकानुग्रहकाम्यया
एताः सर्वा जगत्सर्वं सर्वलोकस्य मातरः ।
तर्पयन्ति महाराज नित्यम् अत्रात्मिकैर् गुणैः
कारणाच् च शिवस्थानाद् ईश्वरेच्छावशा ऽनुगा ।
ओंकारात् सर्वलोकानाम् इमं लोकं समाश्रिताः
तृणानि खादन्ति चरन्त्य् अरण्ये पिबन्ति तोयानि सुनिर्मलानि ।
दुग्धं प्रयच्छन्ति पुनन्ति देहं गावो यतो जीवति जीवलोकः
कुतस् तेषां हि पापानि येषां गृहमलंकृतम् ।
सततं बालवत्साभिर् गोभिः स्त्रीभिरिव स्वयम्
ये स्मरन्ति सदोंकारं नर्मदां च शिवात्मना ।
न तेषां पुनरावृत्तिर्घोरे संसारसागरे
ये कुर्वन्ति परां भक्तिं तृणतोयप्रदानतः ।
प्रसादात् तु गवां तासां शिवलोकं व्रजन्ति ते
एताः सदानुकूलेन मातरः सर्वकामदाः ।
ये रक्षन्ति शुभा गाश् च शिवलोकं व्रजन्ति ते
ये ऽर्चयन्ति शिवं भक्त्या सद्विधानैः समाहिताः ।
ते विन्दन्ति महाभोगान् पुरं यान्ति शिवस्य वै
ये शिवाश्रयतीर्थानि श्रद्धया यान्ति मानवाः ।
कल्पगां च विशेषेण शैलं चामरकण्टकम्
ते क्रीडन्ति महाभोगैर् ब्रह्मविष्णुशिवालये ।
पयो ऽमृतं घृतं क्षीरं मधुदध्यादिकं तु यत्
न पश्यति महाभाग कल्पगायां विमोहितः ।
एतत्ते कथितं राजन् रेवावतरणं शुभम्
अस्याख्यानेन भगवान् ।#
प्रीयतां मे शिवः स्वयम्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0