स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 57
इति श्रीस्कन्दपुराणे रेवाखण्डे मातङ्गाश्रमवर्णनो नाम षट्पञ्चाशत्तमो ऽध्यायः ॥
र्क्स् अध्याय 57
मार्कण्डेय उवाच:
आख्यानं कथयिष्यामि ख्यातं मृगवनं यथा ।
व्याध कश्चिद् दुराचारः सर्वभूतेषु निर्दयः
पाशहस्तो धनुष्पाणिर् विचरन् गिरिकन्दरे ।
आजघान मृगान् सर्वान् कुटुम्बार्थे नृपोत्तम
ज्येष्ठे मासि तु संप्राप्ते निदाघे ज्वलनप्रभे ।
भ्रमति स्म तृषार्तश् च वृक्षमूले समाश्रितः
रात्रौ स्वपिति निश्चेष्टो दुःखार्तश् च क्षुधान्वितः ।
वनसंघर्षजो वह्निर् उत्थितो गिरिकन्दरात्
प्रदग्धं च वन तेन मृगव्याघ्रसमावृतम् ।
भस्मीभूतं च तत्सर्वं रेणुभूतं च कृत्स्नशः
मेघागमोक्तकाले तु प्रवाहे नार्मदे शुभे ।
कन्याराशिगते भानौ द्वादश्यां श्रवणेन तु
नर्मदातोय संसर्गाद् यक्षा जातास् तु पन्नगाः ।
तत्क्षणाद् दिव्यदेहास् तु वैष्णवं यानमास्थिताः
स व्याधश् चाभवद् राजा तीर्थस्यास्य प्रभावतः ।
दशवर्षसहस्राणि भोगान् भुङ्क्ते मनोहरान्
ये ऽपि दग्धा मृगास् तत्र ते ऽपि गन्धर्वतां गताः ।
वैष्णवेनैव यानेन प्राप्तास् तु वैष्णवं पदम्
अवशः स्ववशो वापि यस् तु प्राणान् परित्यजेत् ।
दिव्यवर्षसहस्रं तु विष्णुलोके स मोदते
तिलोदकप्रदानेन पितॄणां परमा गतिः ।
मनोरथं नाम तीर्थम् अन्यत् परमसिद्धिदम्
त्रिषु लोकेषु विख्यातं रेवातीरसमुद्भवम् ।
यं यं प्रार्थयते कामं तं तं स्नात्वापि मानवः
सर्व च समवाप्नोति तीर्थस्यास्य प्रभावतः ।
अङ्गरावर्तसंभेदो गोसहस्रफलप्रदः
अङ्गारेश्वरदेवश् च तत्र तिष्ठति सङ्गमे ।
स्नानमात्रो नरस् तत्र गाणपत्यम् अवाप्नुयात्
अङ्गारश् च चतुर्थ्यां च यदा भवति भारत ।
हिरण्यपुरुषं कृत्वा रक्तवस्त्रेण वेष्टयेत्
घृतपूर्णं ताम्रपात्रं गुडेनापि प्रपूरितम् ।
तत्सर्वं विधिवद् दद्याच् छ्रोत्रियाय विशेषतः
दानतीर्थप्रभावेण शक्रार्द्धासनभाग् भवेत् ।
यस्मात् पापानि दुःखानि तीव्राण्य् अपि बहून्यपि
तस्मात् पापं न कर्तव्यम् आत्मपीडाकरं हि तत् ।
यस्मिन् काले च देशे च वयसा यादृशेन च
कृतं शुभाशूभं कर्म तत् तथा तेन भुज्यते ।
तस्मात् सदैव दातव्यम् अविच्छिन्न तयार्थिने
विच्छिद्यन्ते ऽन्यथा भोगा ग्रीष्मे कुसरितो यथा ।
संसेव्यते यथा देवी सप्तकल्पवहा शुभा
संसारस्य समुच्छित्त्यै ज्ञानयोगं ब्रवीमि ते ।
शिवप्रकाशकं ज्ञानं योगस् तत्रैव चिन्तितः
दुर्विज्ञेय गतिर् योगो नर्मदाशिवसन्निधौ ।
शिवाज्ञा वर्तते तत्र स्नानपूजाविधिर् यथा
स सिद्धान्ता ऽविरोधेन पुस्तकैर् न विरोधयेत् ।
धर्मज्ञानापवर्गार्थं सहितं विन्दते नरः
पूर्वोत्तरविरोधेन कुत्रार्थो ऽभिमतो भवेत् ।
दृष्ट्वाद्यमूलतस् तर्कं श्रुत्या सह विवर्जयेत्
तस्माद् आगमयुक्तेन सदात्मार्थविचारणम् ।
कर्तव्यं नानुमानेन केवलेन विपश्चिता
हीनोत्तमाद्यस्य फलं बहुधा स्वं च तत्स्मृतम् ।
तस्मात् परीक्षां कुर्वीत पुण्यं साधु महत्फलम्
पाखण्डिनो विकर्मस्थान् वैडालव्रतिकां शठान् ।
वर्जयेद् दूरतो धीमान् हैतुक्यान् तीर्थनिन्दकान्
दिगम्बरान् श्वेतपटान् ये चान्ये हेतुवादिनः ।
एतैः सह न संवादं संसर्गं न कथंचन
विपरीतं कलौ धर्मं नग्ना मुण्डा मलाशिनः ।
तस्मात् तं च परित्यज्य त्रेताधर्मं समाचरेत्
प्रमाणं सर्वधर्मेषु ब्रह्मविष्णुशिवोदितम् ।
अन्यथा कुरुते यस् तु नरके पतति ध्रुवम्
सर्वेषाम् एव शास्त्राणाम् एवं शास्त्रविनिश्चयः ।
सेव्यतां कल्पगा देवी शिवपूजारतैः सदा
पितॄणां तर्पणं कुर्याद् भिक्षां दद्याच् च भिक्षवे ।
कारुण्यं सर्वभूतेषु नर्मदाख्यानचिन्तनम्
इदं ज्ञानमशेषं च सर्वकर्मविशोधनम् ।
आदिमध्यान्तरहितः स्वभावविमलः प्रभुः
सर्वज्ञः परिपूर्णश् च शिवो ज्ञेयः शिवागमे ।
सर्वार्थसाधकं ज्ञानं तत्प्रणीतम् असंशयम्
यः सर्वज्ञः सुसम्पूर्णः स्वभावविमलः शिवः ।
सर्वदोषविनिर्मुक्तः स ब्रूयात् कथम् अन्यथा
शिवाज्ञाम् अन्तरेणापि जगत्सृष्टिः कथम् भवेत् ।
अचैतन्यात् प्रधानेन अज्ञत्वात् पुरुषस्य च
प्रधानं परमाण्वादि यावत् किंचिद् अचेतनम् ।
तन्न कर्तृ स्वयं द्रष्टृ बुद्धिमत्करणं विना
न यथा घटम् आनेन मृत्पिण्डः स्वयम् ऋच्छति ।
तथाज्ञाबुद्धिभावेन न तिष्ठेत् प्रकृतिः स्वयम्
धर्माधर्मोपदेशो न धर्माधर्मविचारणम् ।
सर्वज्ञेन विना जातु नादिसर्गे प्रसिद्ध्यति
यथानादि प्रवृत्तो ऽयं घोरः संसारसागरः ।
शिवो ऽपि हि तथानादिः संसारान् मोचकः स्मृतः
व्याधीनां भैषजं यद्वत् प्रतिपक्षं स्वभावतः ।
तद्वत्संसारघोराणां प्रतिपक्षः शिवः स्मृतः
वैद्यं विना निराक्रन्दाः क्लिश्यन्ते रोगिणो यथा ।
शिवेन तु विना सर्वं निराक्रन्दं जगत् तथा
तस्माद् अनादिः सर्वज्ञः परिपूर्णः परः शिवः ।
अस्ति नातः परित्राता पुमान् संसारसागरे
ये ऽभ्यसन्ति शिवज्ञानं हृदये शिवभाविताः ।
यदि वेदाः प्रमाणं तु तेषां ज्ञानं प्रजायते
इयं च सर्वभूतानां शरणं भुवि नर्मदा ।
अपां रूपतया देवी लोकानुग्रहकारिणी
स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम् ।
भगवत्य् उद्धरत्य् एषां पतन्तं नरके ध्रुवम्
एवंज्ञात्वा नरश्रेष्ठ शिवम् अन्वीक्ष्य कल्पगाम् ।
उच्चैर्गृहाणि दिव्यानि धनधान्यान्वितानि च
सर्वोपस्करदिव्यानि ब्राह्मणेभ्यो निवेदयेत् ।
अनाथायातिवृद्धाय विकलाय कुटुम्बिने
काष्ठमृन्मयगेहं च यो द्विजाय प्रयच्छति ।
एवं विधान् गृहान् रम्यान् सर्वतो ऽमरकण्टके
कारयेद् यः पुमान् दिव्यांस् तस्य पुण्यफलं शृणु ।
किं तस्य बहुभिर् दत्तैर् दानैर् भवति भारत
एतद् एव परं दानं सर्वकामार्थसाधकम् ।
यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0