स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 56
इति श्रीस्कन्दपुराणे रेवाखण्डे गोदानमहिमानुवर्णनो नाम पञ्चपञ्चाशत्तमो ऽध्यायः ॥
र्क्स् अध्याय 56
मार्कण्डेय उवाच:
माहिष्मत्याः पश्चिमे वै तीर्थं पापहरं परम् ।
अशोकवनिका नाम सर्वशोकविनाशनम्
स्नात्वा तत्रार्चयेद् गौरीं यथा विभवविस्तरैः ।
मातङ्गस्याश्रम तद्वत् सिद्धगन्धर्वसेवितम्
शुक्लकृष्णातृतीयायां गन्धधूपविलेपनैः ।
उपहारैर् अनेकैश् च दीपमालाप्रबोधनैः
तत्र या पूजयेन् नारी गौरीं भक्तिसमन्विता ।
रूपसौभाग्यसम्पन्नं लभते सत्पतिं तु सा
कार्त्तिक्यां तु गतप्राणा मोदमाना तु संयता ।
अस्य तीर्थस्य माहात्म्यात् प्राप्ता माहेश्वरं पुरम्
मातङ्गो नाम देवर्षिः पुराकल्पे युधिष्ठिर ।
नर्मदातीरमाश्रित्य तपस् तेपे सुदुष्करम्
पुरा जन्मनिषादः स जातिं स्मरति पूर्विकाम् ।
अघमर्षणदेशस्थः सर्वधर्म बुबोध च
महर्षीणां प्रसङ्गेन नर्मदादर्शनेन च ।
पापबुद्धिं परित्यज्य धर्मबुद्धिं चकार सः
निर्विण्णो ऽहं च भिक्षुश् चाधुना श्वपचयोनिषु ।
एवम् उक्त्वा ततो राजन्न् अशोकवनिकां गतः
जटावल्कलधारी च कन्दमूलफलाशनः ।
दिव्यं वर्षसहस्रं तु शिवाराधनतत्परः
शिवध्यानपरः सो ऽभूद् उग्रे तपसि संस्थितः ।
दिव्यं वर्षसहस्रं हि तथा तस्य तपस्यतः
एकाशीतिसहस्राणि जटाग्रेभ्यो विनिःस्मृताः ।
स्वयं पतन्ति विविधा नर्मदातोयम् अध्यतः
तत्क्षणाद् यक्षिणीरूपा अनन्ताश् चाप्रमाणिकाः ।
श्यामवर्णाः सुतेजः काः सर्वाभरणभूषिताः
यक्षलोकं व्रजन्त्य् आशु तीर्थस्यास्य प्रभावतः ।
मन्त्रयन्त्रविहीनो ऽपि शिवभक्तिपरायणः
षडक्षरम् इमं मन्त्रं हृदि चक्रे दिवानिशम् ।
ओंनमः शिवाय इति सर्वमन्त्रोत्तमोत्तमम्
तस्य भक्तिं परां ज्ञात्वा देवदेव उमापतिः ।
प्रत्यक्षरूपो भगवान् छूलपाणिः समागतः
उवाच वचनं देवो मातङ्गं प्रति भारत ।
वरं वृणीष्व भद्रं ते ध्यानेनानेन सुव्रत
मातङ्ग उवाच:
यदि तुष्टो ऽसि देवेश वरं दातुम् इहेच्छसि ।
मातङ्गनाम्ना विख्यातिं तीर्थम् एतत् प्रयातु वै
चाण्डालाः श्वपचाश् चैव पापयोनिगता ऽपि ।
जपादि रहिताश् चापि मुच्यन्ते ऽत्रापि किल्बिषात्
मातङ्गनामलिङ्गं तु नर्मदातीरम् आश्रितम् ।
स्नात्वा यो ऽत्रार्चयेत् तस्य भवेद् बन्धविमोक्षणम्
इदं वरम् अहं मन्ये त्वत्प्रसादात् महेश्वर ।
तस्य तद् वचनं श्रुत्वा प्रत्य् उवाच शिवापतिः
एवम् भवतु तत्सर्वं मत्प्रसादान् न संशय ।
एवम् उक्त्वा ययौ देव कैलासं पर्वतोत्तमम्
वरं सम्प्राप्य मातङ्ग उमामाहेश्वरं पुरम् ।
कामिकं यानम् आरूढः सर्वाभरणभूषित
जगामाशु चिरं भोक्तुं भोगान् स्नानप्रभावतः ।
या चैत्रमासे ऽमावास्या कृष्णपक्षे चतुर्दशी
तस्यां तत्र हुतं दत्तम् अनन्तफलम् अश्नुते ।
तिलोदकप्रदानेन पापयोनिगता ऽपि
सक्त्वाढ्यगुडपिण्डेन पितॄन् मोदयते तु यः ।
पितरस्तस्य तृप्यन्ति यावदिन्द्राश् चतुर्दश
तिलतण्डुलमिश्रं यः कुर्याल् लिङ्गस्य पूजनम् ।
सो ऽपि वर्षसहस्राणि शिवलोके महीयते
अशोकवनिका नाम मातङ्गं तीर्थम् उच्यते ।
रेवाया उत्तरे कूले कथितं तव भारत
अथान्यत् कथयिष्यामि याम्यभागे व्यवस्थितम् ।
तीर्थं मृगवनं नाम सर्वपापप्रणाशनम्
तत्र स्नात्वा ऽर्चयेद् विष्णुं शङ्खचक्रगदाधरम् ।
एकादश्यां महाराज निराहारो निशां नयेत्
हरिं मृगवने तत्र गन्धपुष्पैश् च पूजयेत् ।
एकस्मिन् भोजिते विप्रे लक्षं भवतु भोजितम्
तिलोदकप्रदानेन पितॄणां वैष्णवं पदम् ।
तत्रैव सन्निविष्टं तु वाराहं तीर्थमुत्तमम्
यत्र वाराहरूपेण धरा चैव समुद्धृता ।
विश्वरूपं तथा चान्यद्धरिणामिततेजसा
पतिव्रता च नारी वै तथा मासोपवासिनी ।
तत्र स्नात्वा विधानेन लोकं प्राप्नोति वैष्णवम्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0