भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 55

55.1

इति श्रीस्कन्दपुराणे रेवाखण्डे कर्मगतियमवाक्यं नाम चतुष्पञ्चाशत्तमो ऽध्यायः ॥
र्क्स् अध्याय 55
युधिष्ठिर उवाच:
धेनुः कतिविधा प्रोक्ता कस्मिन् काले च दीयते ।
सर्वोपस्करसंयुक्ता त्वत्त इच्छामि वेदितुम्

55.2

मार्कण्डेय उवाच:
शृणु राजन् महाबाहो कथ्यमानं निबोध मे ।
कथयामि तवाख्यानम् आदिकल्पे कृते युगे

55.3

चक्रवर्ती शशाङ्को ऽभूत् सर्वधर्मभृतां वरः ।
न च वर्णयितुं शक्यः सत्यधर्मव्रते स्थितः

55.4

बुभुजे स महीमेतामेकच्छत्रां समाहितः ।
नवखण्डां सप्तद्वीपा यथा शक्रो ऽमरावतीम्

55.5

हरिश्चन्द्रस्य तस्यापि संवादश् चक्रवर्तिनः ।
हरिश्चन्द्रः कुरुक्षेत्रे गवाम् अयुतम् उत्तमम्

55.6

हेमभारमलङ्कारसर्वरत्नविभूषितम् ।
ब्रह्मर्षिर् मुद्गलो नाम स्वयं ब्रह्म प्रतिष्ठितः

55.7

मुद्गलाश् च द्विजाः सर्वे सत्यधर्मपरायणाः ।
शतमष्टोत्तरं साग्रं ब्राह्मणा ब्रह्मवादिनः

55.8

हरिश्चन्द्रो ददौ तेभ्यो राहुसूर्यसमागमे ।
द्विजान् सम्पूज्य विधिच्छ्रद्धया परया युतः

55.9

अर्चयित्वा महेशानं स्थानं परमसिद्धिदम् ।
चक्रपाणिं हृषीकेशं मुदा परमया युतः

55.10

सरस्वत्यां नृपश्रेष्ठ तिलदर्भान्वितस्य तु ।
दानस्यास्य प्रभावेण लोकास्तेनाखिला जिताः

55.11

अन्तरिक्षे पुरी प्राप्ता सर्वलोकमनोहरा ।
हरिश्चन्द्रपुरी ख्याता सा ऽस्मिल् लोके चराचरे

55.12

सत्यदानसर्वत्यागैर् इत्यादिभिर् अलंकृतः ।
हरिश्चन्द्रसमो राजा न भूतो न भविष्यति

55.13

एवं गाथा पुरा गीता शक्राद्यैः सुरसत्तमैः ।
शशाङ्को ऽप्यकरोत् सर्वं नर्मदातीरमाश्रितः

55.14

दानं यज्ञ तपः सत्यं पर्वते ऽमरकण्टके ।
ददौ चार्धप्रसूतां ब्राह्मणाय महात्मने

55.15

दानस्यास्य प्रभावेण हरिश्चन्द्राधिको ऽभवत् ।
अनेकभाविकं पापं दग्ध्वा तूलौघवच्छिखी

55.16

यावद् वत्सस्य पादौ द्वौ मुखं योनौ प्रदृश्यते ।
तावद् गौः पृथिवी ज्ञेया सशैलवनकानना

55.17

स्वर्णशृङ्गी रौप्यखुरी सवत्सा कांस्यदोहना ।
नर्मदास्नानयुक्ता तु सकुशा तिलसंयुता

55.18

ओंकारामरयोर् मध्ये कोटितीर्थे नराधिपः ।
एताः सहस्रसख्याता ब्राह्मणेभ्यो न्यवेदयत्

55.19

एतस्मिन्न् अन्तरे नेदुर्देवदुन्दुभयो दिवि ।
तत्क्षणाद् यानम् आरूढो ज्वलन् मणिगणैर् इव

55.20

स्तूयमानः समीपस्थैर् असंख्यातैर् विमानिभिः ।
धृतस्वर्णातपत्रस् तु वीज्यमानस् तु चामरैः

55.21

योजनानां सहस्रेण हरिश्चन्द्रो ऽप्य् अधः स्थितः ।
तद् दृष्ट्वा तादृशं कर्म शशाङ्कस्य विशाम्पतेः

55.22

स विनिन्द्य कुरुक्षेत्रं विस्मयाविष्टचेतनः ।
महानद्यां शशाङ्केन राहुसोमसमागमे

55.23

दत्तं दानं न सामान्यं भवेद् इति समासतः ।
विषण्णवदनो भूत्वा हरिश्चन्द्रो नृपोत्तमः

55.24

ब्रह्मलोकं गतः क्षिप्रं यत्र लोकेश्वरः प्रभुः ।
अभिवाद्य यथा न्यायं पप्रच्छ स पितामहम्

55.25

दानेन निर्जिता देवाः शशाङ्केन महात्मना ।
किं च पुण्यमिदं ब्रह्मन् कुरुक्षेत्राद् विशिष्यते

55.26

अमरेश्वरतीर्थं तु नाम रेवासमुद्भवम् ।
केनापि न समं भूतम् उपर्युपरि दीप्यते

55.27

इति श्रुत्वा वचस् तस्य हरिश्चन्द्रस्य धीमतः ।
उवाच वचनं ब्रह्मा हरिश्चन्द्रं नृपोत्तमम्

55.28

विषादं त्यज राजेन्द्र गहना कर्मणां गतिः ।
शशाङ्कसदृशो राजा न दृष्टो न श्रुतो मया

55.29

एवं वक्तुं न योग्यो ऽहं न देवापि सवासवाः ।
अनेकानि सहस्राणि पुरा वै चक्रवर्तिना

55.30

इष्टानि च विधानेन पर्वते ऽमरकण्टके ।
राहुसूर्यसमायोगे तीर्थलक्षाणि भारत

55.31

सरस्वतीं कुरुक्षेत्रं पुष्करं नैमिषं तथा ।
तीर्थान्य् एतानि चान्यानि स्नानं कर्तुं समाययुः

55.32

मेकलायां हरिश्चन्द्र कोटितीर्थे नराधिप ।
तीर्थानां त्यज राजेन्द्र साम्यं मेकलया सह

55.33

वाराणस्या कुरुक्षेत्रं तोलितं च मया पुरा ।
तीर्थानि न समं यान्ति तीर्थस्यास्य प्रभावतः

55.34

ख्यातमात्रं कुरुक्षेत्रं लोकयात्राप्रवर्तकम् ।
पुराणं न श्रुतं यैस् तु मिथ्याज्ञानसमन्वितैः

55.35

सेव्यतां कल्पगा देवी यदीच्छेत् परमं पदम् ।
नमस्कृत्य विधातारम् अयोध्याधिपतिस् तदा

55.36

मुदा परमया युक्तः स ययाव् अमरेश्वरम् ।
एतत् सर्वं समाख्यातं यथावत् तव सुव्रत

55.37

यः शृणोति नरो राजन् गोसहस्रफलं लभेत्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc