स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 54
इति श्रीस्कन्दपुराणे रेवाखण्डे नरकायातनानुवर्णनो नाम त्रिपञ्चाशत्तमो ऽध्यायः ॥
र्क्स् अध्याय 54
युधिष्ठिर उवाच:
तीर्यते केन धर्मेण संसाराब्धिः सुदुस्तरः ।
मार्कण्डेय उवाच:
तेन निर्भर्त्सितैः पापैः कथ्यमानां कथां शृणु
रक्तो मूढश् च लोको ऽयम् अकार्ये संप्रवर्तते ।
न चात्मानं विजानाति न परं न च दैवतम्
न शृणोति परं श्रेयः सति चक्षुषि नेक्षते ।
समे पथि शनैर् गच्छन् प्लवते स्म पदे पदे
एवम् उक्तो धर्मराजः संक्षेपात् पापदेहिनाम् ।
विस्तरेण यदा चख्यौ तेषां तच् छृणु साम्प्रतम्
यम उवाच:
मया मुक्तो न जानाति बोध्यमानो बुधैर् अपि ।
संसारे क्लिश्यते नाना रागलोभवशात् नरः
गर्भपातेन भावेन शास्त्रम् उक्तं न बुध्यते ।
नरैर् न श्रूयते कर्म स्वर्गमोक्षप्रसाधकम्
सन्तप्यति शिवध्याने सर्वकामार्थसाधने ।
नरकाद् आत्मनः श्रेयो यदत्र महदद्भुतम्
प्रेतभूता नराः सर्वे यमलोकं समागताः ।
आख्यानं कथयिष्यामि यथोद्दिष्टं पुरातनम्
सूर्येण कथितं त्व् आसीन् नर्मदाख्यानम् उत्तमम् ।
देवतानां पितॄणां च मम पित्रानुकम्पया
सपादलक्षम् अधिकं ब्रह्मणा कथितं रवेः ।
तत्र श्रुतं मया कृत्स्नं ब्रह्मणा तु शिवाच् छ्रुतम्
शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य तु ।
जम्बूद्वीपं समासाद्य मानुषीं योनिम् आश्रितः
नाश्रयेन्नर्मदां देवीं सप्तकल्पवहां तु यः ।
स्नानावगाहनात् पानात् तथा दानक्रियादिभिः
लोके ऽस्मिन् गतिदा कान्या पापोपहतचेतसाम् ।
ये ध्यायन्ति महादेवीं नर्मदां पापहारिणीम्
अघानि तेषां नश्यन्ति तमः सूर्योदये यथा ।
नर्मदां संस्मरेद् यस् तु कीर्तयेद् यस् तु वा गिरा
परलोकं समायातो यमदूतैर् न बाध्यते ।
नर्मदां कीर्तयेद् यस् तु पापकर्मा नराधमः
नरकान् समयोद्दिष्टान् न च क्रामति कर्हिचित् ।
गङ्गाद्याः सरितस्तत्र तीर्थकोटिर् अनेकधा
रेवातेजः प्रतापेन शुद्धिं गच्छन्ति तत्क्षणात् ।
नरकस्थः स्मरेद् यस् तु मेकलां तु हरं हरिम्
मुच्यते यमदूतैः स तत्क्षणान् नात्र संशयः ।
यदि तिष्ठति वैदूर्यपर्वते ऽमरकण्टके
ओंकारः परमेशानो भुक्तिमुक्तिफलप्रदः ।
किमर्थं त्व् इह शोचन्ति पापोपहतचेतसः
सिद्धेश्वरं सिद्धलिङ्गं लोकानुग्रहकारकम् ।
यज्ञेश्वरं च मध्ये तु तत्रैव शशिभूषणम्
नर्मदा दक्षिणे भागे लिङ्गं चैव महेश्वरम् ।
चतुर्थं कपिलेशं च शिवक्षेत्रं विदुर्बुधाः
ये ऽर्चयन्ति सदा भक्त्या पुष्पधूपार्तितर्पणैः ।
शिवलोकं तु ते यान्ति नरकान् नात्र संशयः
एतत् ते सर्वम् आख्यातं यथा पृष्टं त्वयानघ ।
पापिष्ठान् नॄनधर्मस्थान् कथयामास भारत (?)
[स्तेह्त् सो दोर्त्]
गोदानं हेमदानं च तिलदानं तथैव च ।
अन्नदानं पयोदानं सर्वोपस्करम् एव च
प्रासादारामदानं च ये कुर्वन्ति नरोत्तमाः ।
यमलोकं न ते यान्ति नरकं घोररूपिणम्
मुच्यन्ते सर्वपापेभ्यः शिवस्य वचनं यथा ।
सन्मानं चापमानेन वियोगेनेष्टसङ्गमम्
यौवनं जरया ग्रस्तं कष्टात् सौख्यमुपद्रुतम् ।
वलिभिः पलितैश् चापि जर्जरीकृतविग्रहः
किं करोति नरः प्राज्ञो जरया जर्जरीकृतः ।
स्त्रीपुंसोर् यौवनं रूपं यदन्यो ऽन्यं प्रियंकरम्
तद् एव जरया ग्रस्तम् उभयोर् अपि न प्रियम् ।
अपूर्ववत् तथात्मानं शैथिल्येन समन्वितम्
यः पश्यन् न विरज्येत को ऽन्यस् तस्माद् अचेतनः ।
जराभिभूतः पुरुषः पत्नीपुत्रादिबान्धवैः
अशक्तत्वाद् दुराचारैर् भृत्यैश् च परिभूयते ।
धर्मम् अर्थं च कामं च मोक्षं न जरया युतः
शक्तः साधयितुं तस्मात् पुरा धर्मं समाचरेत् ।
वातपित्तकफादीनां वैषम्यं च युधिष्ठिर
वातादीनां समूहश् च देहजः परिकीर्तितः ।
तस्माद् व्याधिपरं ज्ञेयं शरीरम् इदम् आत्मनः
वातोत्पत्त्य् अतिरेकेण बाधितो वै ज्वरेण च ।
रोगैर् नानाविधिभवैर् बहुदुःखान्य् अनेकधा
तानि च स्वात्मवेद्यानि किम् अन्यत् कथयाम्य् अहम् ।
एकोत्तरं मृत्युशतम् अस्मिन् देहे प्रतिष्ठितम्
अत्रैकं कालरूपं च शेषास्त्वागन्तवः स्मृताः ।
ये त्व् इहागन्तवः प्रोक्तास्ते प्रशाम्यन्ति भैषजैः
जपहोमप्रदानैश् च कालमृत्युर् न शाम्यति ।
अपमृत्युश् च सर्वस्य विषम् अद्यादिसम्भवः
न चातिपुरुषस् तस्माद् अपमृत्योर् बभेति वै ।
विविधा व्याधयः कष्टाः सवैद्याः प्राणिनस् तथा
विषाणि त्व् अभिचाराश् च मृत्योर् द्वाराणि देहिनाम् ।
पीडितं रोगसर्पाद्यैर् अपि धन्वन्तरिः स्वयम्
स्वस्थं कर्तुं न शक्नोति कालप्राप्तं हि देहिनम् ।
नैषधं न तपो दानं न मित्राणि न बान्धवाः
परित्रातुं नो समर्थाः कालेन परिपीडितम् ।
नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमो रिपुः
नास्ति मृत्युसमः कालः सर्वेषाम् एव देहिनाम् ।
सद्भार्या पुत्रमित्राणि राज्यैश्वर्यसुखानि च
मृत्युश्छिनत्ति सर्वाणि विविधान्य् अपि भारत ।
इदं ते कथितं राजञ्ज्ञातिसंसारदुस्तरम्
परिणाम इति ज्ञात्वा सर्वङ्कालस्य भोजनम् ।
तस्मात् सर्वप्रयत्नेन संसेव्या सप्तकल्पगा
सर्वदुःखापहा नित्यं सर्वशोकविनाशिनी ।
यो यान् कामयते कामांस्तांस्तान् देवी प्रयच्छति
इदं ज्ञानम् इदं ध्यानं पाण्डित्यं वेद वेदनम् ।
निवासः सर्वभूतानां सेव्यते सप्तकल्पगा
यज्ञो दानं तपः सत्यं स्वाध्यायः पितृतर्पणम् ।
सफलं लभते तेषां यो रेवाम्बु निषेवते
ब्रह्मकूर्चसहस्राणि सोमपानायुतं तथा ।
नर्मदातोयपानस्य कलां नार्हन्ति षोडशीम्
संयुक्तो ऽपि महापापैर् नानाजन्मकृतैर् अपि ।
ओंकारदक्षिणे घोरं मुच्यते तत्क्षणाज् जपन्
गोदानान्न परं दानं त्रिषु लोकेषु विश्रुतम् ।
नर्मदापयसि स्नात्वा यो दद्याद् गां द्विजन्मने
संख्यां कर्तुं यथावच् च न देवैर् अपि शक्यते
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0