भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 53

53.1

इति श्रीस्कन्दपुराणे रेवाखण्डे नरकवर्णनं नाम द्विपञ्चाशत्तमो ऽध्यायः ॥
र्क्स् अध्याय 53
मार्कण्डेय उवाच:
कोटी नामनुरूपाश् च पञ्चपञ्चैव नायकाः ।
रौरवाद्यं मरीच्यन्तं नरकानां शतं स्मृतम्

53.2

चत्वारिंशत् समधिकं महानरकमण्डलम् ।
एकक्रमात् प्रभुज्यन्ते नरैः कर्मानुरूपतः

53.3

कामनाभिर् विरूपाभिर् अकर्मप्रचयाद् द्रुतम् ।
सुगूढया ततो ध्वान्ते तप्तशृङ्खलया नराः

53.4

महावृक्षस्य शाखायां लम्ब्यन्ते यमकिङ्करैः ।
ततस् तान् सर्वतश् चैव दोलयन्ति हि किङ्कराः

53.5

दोलिताश् चातिवेगेन निःसंज्ञां यान्ति पापिनः ।
अन्तरिक्षे स्थितानां च लोहभारशतं तदा

53.6

पादयोर् बध्यते तेषां यमदूतैर् बलोत्कटैः ।
तेन भारेण महता भृशं सन्तापिता नराः

53.7

ध्यायन्ति स्वानि कर्माणि तूष्णीं तिष्ठन्ति निश्चलाः ।
ततः क्रमाद् अग्निवर्णैर् लोहदण्डैः सकण्टकैः

53.8

निहन्यन्ते प्रयत्नेन यमदूतैश् च मस्तके ।
विष्ठापूर्णे ततः कूपे कृमीणां निलये ततः

53.9

समन्तात् किङ्करैर् घोरैः पच्यन्ते पापकारिणः ।
ततः क्षारेण नीरेण वह्णावपि विशेषतः

53.10

वार्ताकवत् प्रपच्यन्ते तप्ते लोहकटाहके ।
अमेध्यकूपे प्रक्षिप्य जलजन्तु समाकुले

53.11

मेदोसृक्पूयपूर्णायां वाप्यां क्षिप्तास् तु ते ततः ।
भक्षन्ते कृमिभिस् तीक्ष्णैर् लोहतुण्डैश् च वायसैः

53.12

पच्यन्ते मांसवच् चापि प्रदीप्ताङ्गारराशिषु ।
प्रोताः शूलेषु तीक्ष्णेषु नराः पापसमन्विताः

53.13

पच्यन्ते पापिनस् ते वै यमदूतैर् अनेकधा ।
तैलपूर्णकटाहेषु सुतप्तेषु ततः पुनः

53.14

तेषां चोत्पाट्यते जिह्वा असत्या प्रियवादिनाम् ।
सुदृढेन सुतप्तेन प्रपीड्योरसि पादतः

53.15

मिथ्यागमप्रयुक्तस्य द्विजस्यापि तथैवच ।
यज्ञार्थकोशविस्तीर्णं भल्लैस् तीक्ष्णैः प्रतोद्यते

53.16

निर्भत्सयन्ति ये मूढा मातरं पितरं तेषां ।
तेषां वक्त्रं बालुकाभिर् मुहुर् आपूर्य सिच्यते

53.17

ततः क्षारेण दीप्तेन पयसा तु पुनः पुनः ।
द्रुतं सम्पूर्यते ऽत्यर्थं तप्ततैलेन तन्मुखम्

53.18

विष्ठाभिः कृमिपूर्णाभिः श्वानवच् चरणैर् भटैः ।
परिपीड्य विषाणेन प्रविष्टा लोहशाल्मलीम्

53.19

हन्यन्ते पृष्ठदेहेषु पुनर् भीमैर् महाबलैः ।
दन्तुरेणातिकुण्ठेन क्रकचेन बलीयसा

53.20

शिरः प्रभृति पाट्यन्ते घोरैः कर्मभिर् आत्मजैः ।
खादयन्ति स्वमांसानि पाययन्ति स्वशोणितम्

53.21

अन्नं पानं न दत्तं यैर् मूढैर् नाप्य् अनुमोदितम् ।
इक्षुवत्ते प्रपीड्यन्ते जर्जरीकृत्य मुद्गरैः

53.22

असितालवने घोरे छिद्यन्ते खण्डखण्डशः ।
सूचीभिर् भिन्नसर्वाङ्गास् ततः शूले प्ररोपिताः

53.23

चाचल्यमानाः कृष्यन्ते न म्रियन्ते तथापि च ।
देहाद् उत्पाट्यते मांसं तेषाम् अस्थीनि मुद्गरैः

53.24

बहुशः कृष्यते तूर्णं यमदूतैर् बलोत्कटैः ।
ते ऽनुच्छ्वासेनानुछ्वासास् तिष्ठन्ति नरके चिरम्

53.25

उच्छ्वासे च सदोच्छ्वासा बालुकावदनावृताः ।
रौरवेषु तु दन्ते वै पीड्यन्ते विविधैश् चरैः

53.26

महारौरवपीडाभिर् महान्तो ऽपि रुदन्ति हि ।
उपस्थास्ये गुदे पार्श्वे पादे चोरसि मस्तके

53.27

निहन्यन्ते भटैस् तीक्ष्णैः सुतप्तैर् लोहमुद्गरैः ।
निन्दन्ति ये स्वरूपेण परदारान् हसन्ति च

53.28

आलिङ्गन्ति पतीन् अन्यान् न विन्दन्ति स्वकान् स्त्रियः ।
किमु धावसि वेगेन न स्मरेर् अतिशाश्वतीम्

53.29

वञ्चितश् च त्वया भर्ता पापान्धश् च यथा सुखम् ।
लोहकुम्भे विनिक्षिप्ताः चिताश् च शनैः शनैः

53.30

समृद्धाग्नौ प्रपाच्यन्ते प्रवेश्यन्ते शिलासु च ।
क्षिप्यन्ते चान्धकूपेषु दश्यन्ते ऽजगरैर् भृशम्

53.31

ये निन्दन्ति महात्मानम् आचार्यं धर्मर्दर्शिनम् ।
शिवभक्तं च विप्रं च शिवधर्मं च शाश्वतम्

53.32

तेषाम् उरसि कण्ठे च जिह्वायां देहसन्धिषु ।
कीलकैरोष्ठपुटके कील्यन्ते यमकिङ्करैः

53.33

एवम् आदिमहाघोरा यातनाः पापकर्मिणाम् ।
एकैक नरके ज्ञेयाः शतशो ऽथ सहस्रशः

53.34

यातना गहना राजन् सर्वेषां पापकर्मिणाम् ।
इत्येव यातनानन्ताः सर्वेषु नरकेषु च

53.35

कस्ता वर्षशतेनापि वक्तुं शक्नोति मानवः ।
इत्य् एवं विविधैर् घोरैः पात्यमानाः स्वकर्मभिः

53.36

क्रमात् सर्वेषु पच्यन्ते नरकेषु न संशयः ।
महापातकिनश् चापि सर्वेषु नरकेषु च

53.37

आचन्द्रतारकं यावत् पीड्यन्ते विविधैश् चरैः ।
तथा पातकिनः सर्वे निरयेष्व् एषु सर्वदा

53.38

चतुर्दिक्षु सुपच्यन्ते नरकेषु न संशयः ।
उपपातकिनश् चापि तदर्द्धं यान्ति मानवाः

53.39

मृत्युर् न ज्ञायते तात कदा कस्य भविष्यति ।
प्राप्ते चाकस्मिके मृत्यौ वर्षं विन्दति को नरः

53.40

परित्यज्य यतः सर्वम् एकाकी यास्यसि ध्रुवम् ।
तस्मात् सर्वप्रयत्नेन सत्यधर्मपरो भव

53.41

एतत् ते सर्वमाख्यातं नरकाणा तु लक्षणम्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc