स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 52
इति श्रीस्कन्दपुराणे रेवाखण्डे मुचुकुन्दकुवलयाश्वस्वर्गारोहणं नामैकपञ्चाशत्तमो ऽध्यायः ॥
र्क्स् अध्याय 52
युधिष्ठिर उवाच:
के व्रजन्ति यमं विप्र कीदृशा नरकास् तु ते ।
एतन् मे सर्वम् आख्याहि देवलोकं व्रजन्ति के
मार्कण्डेय उवाच:
यान्ति पुष्पकयानेन पुष्परागप्रदायिनः ।
देवायतनकर्तारः शिवलोकं व्रजन्ति ते
अनाथमण्डपानां तु ते क्रीडन्ति गृहोत्तमैः ।
देवाग्निगुरुविप्राणां मातापित्रोश् च पूजकाः
पूज्यमाना नरा यान्ति कामिकैश् च यथा सुखम् ।
द्योतयन्तो दिशः सर्वा यान्ति दीपप्रदानतः
प्रतिश्रयप्रदानेन सुखं यान्ति यमालयम् ।
सर्वकामसमृद्धेन तथा गच्छति तोयदः
अन्नं पानं प्रयच्छन्ति सुखं यान्ति निराकुलाः ।
दीपमालां हि यच्छन्ति गुरुशुश्रूषणे रताः
पादाभ्यङ्गं च यः कुर्यात् सो ऽश्वपृष्ठेन गच्छति ।
हेमरत्नप्रदानेन यान्ति रत्नविभूषिताः
सर्वकामसमृद्धात्मा भूमिदानेन गच्छति ।
अन्नपानप्रदानेन पिबन् खादंश् च गच्छति
इत्य् एवम् आदिभिर् दानैः सुखं यान्ति शिवालयम् ।
स्वर्गे च विपुलान् भोगान् प्राप्नोत्य् अन्नप्रदानतः
सर्वेषाम् एव दानानामन्नदानपरं विदुः ।
सर्वप्रीतिकरं पुण्यं बलपुष्टिविवर्द्धनम्
नान्नदानसमं दानं त्रिषु लोकेषु विश्रुतम् ।
अन्नादानसमं दानं त्रिषु लोकेषु विश्रुतम् ।
अन्नाद् भवन्ति भूतानि म्रियन्ते तद् अभावतः
रक्तं मांसं मज्जशुक्रे क्रमाद् अन्नात् प्रवर्तते ।
शुक्राद् भवन्ति भूतानि तस्माद् अन्नमयं जगत्
हेमरत्नाश्वनागेन्द्रनारीस्रक् चन्दनादिभिः ।
नास्त्य् आहारसमं सौख्यं नास्ति क्रोधसमो रिपुः
अत एव महापुण्यम् अन्नदानं च भारत ।
अन्नदः प्राणदः प्रोक्तस् तस्माद् अन्नप्रदो भवेत्
तस्माद् अन्नप्रदानेन दत्तान्य् अन्यानि सर्वशः ।
त्रैलोक्ये यानि दानानि भोगस्त्रीवाहनानि च
अन्नपानादि यत्किंचिद् ऐश्वर्यं च युधिष्ठिर ।
अन्नदानस्य तत्सर्वम् इहामुत्र फलं स्मृतम्
यस्माद् अन्नेन पुष्टाङ्गः कुरुते धर्मसंचयम् ।
पवित्रममृतं दिव्यं शुद्धं सत्त्वं रसायनम्
अन्नपानाश्वगोवत्सशय्याछत्राण्य् उपानहौ ।
प्रेतलोकप्रशस्तानि दानान्यष्टौ युधिष्ठिर
एवं दानविशेषेण धर्मराजपुरे नराः ।
सुखेनैव तु गच्छन्ति तस्माद् धर्मं समाचरेत्
अन्नदानं महाराज जलं चैव तु पुष्कलम् ।
पितृभ्यः प्रयतो दद्यात् तीर्थे चैवामरेश्वरे
तीर्थानि पुण्यक्षेत्राणि यानि वै कीर्तितानि च ।
काममोक्षप्रदानीह सर्वसिद्धिकराणि च
सर्वेषाम् एव तेषां तु माता वै परिकीर्तिता ।
नर्मदा सरिता श्रेष्ठा सप्तकल्पवहा शुभा
तपसो यज्ञदानानां संख्या तीर्थेषु विद्यते ।
नर्मदायां न संख्यास्ति तेषाम् इत्य् आह शङ्करः
यथा शिवस् तथा रेवा पूजनीया प्रयत्नतः ।
एषु ये तु कुकर्माणः पापा दानविवार्जिताः
पथा घोरेण ते यान्ति दक्षिणेन यमालयम् ।
षडशीतिसहस्राणि योजनानां समन्ततः
पुरं ज्ञेयं महारौद्रं नानारूपैर् अधिष्ठितम् ।
समीपस्थम् इवाभाति नराणां क्रूरकर्मणाम्
पापिनाम् अपि दूरस्थं पथा रौद्रेण यान्ति ते ।
तीव्रकण्टकयुक्तेन शर्कराभूषितेन च
क्षुरधारावृतैस् तीक्ष्णैः पाषाणैर् निर्मितेन च ।
केचित् त्व् अनेन महता दारुदारैश् च घातकैः
लोहसूचीभिर् उग्राभिर् ग्रस्तेन च क्वचित् क्वचित् ।
लताप्रतानविषमैः पर्वतैर् वृक्षसंकुलैः
सुतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः ।
क्वचिद् विषम् अगर्ताभिस् तप्तलोष्टेष्टकैर् अपि
सुतप्तबालुकाभिश् च तथा तीक्ष्णैश् च शङ्कुभिः ।
अनेकभग्नशाखाभिर् आवृतेन क्वचित् क्वचित्
कष्टेन तमसा केचिद् गच्छन्ति हि यमालयम् ।
मार्गस्थाङ्गारकैस् तप्तैर् ग्रस्ता दावाग्निभिस् तथा
क्वचित् तप्तशिलाभिश् च पङ्केन कटिमानतः ।
क्वचिद् दुष्टाम्बुना व्याप्तं दुष्करीषाग्निना क्वचित्
क्वचिद् गृध्रैर् बकैर् व्याघ्रैर् दुष्टैः कीटैः सुदारुणैः ।
क्वचिन् महाकुलीराद्यैः क्वचित् त्वजगरैः पुनः
मक्षिकाभिश् च रौद्राभिः क्वचित् सर्पैर् विषोल्वणैः ।
मत्तमातङ्गयूथैश् च समन्ताच् च प्रमाथिभिः
पन्थानमुल्लिखद्भिश् च तीक्ष्णशृङ्गैर् महाबलैः ।
सिंहैर् विषाणमहिषैर् रौद्रैर् मत्तैश् च श्वापदैः
डाकिनीभिश् च रौद्राभिर् विकरालैश् च राक्षसैः ।
व्याधिभिश् च महाघोरैः पावकैश् च दुरासदैः
महानलविमिश्रेण महाचण्डेन वायुना ।
महापाषाणवर्षेण भिद्यमाना निराश्रयाः
क्वचित् क्वचित् प्रतप्तेन दीप्यमाना व्रजन्ति हि ।
महता व बाणवर्षेण भिद्यमानाः समन्ततः
पतद्भिर्वज्रसङ्घातैर् उल्कापातैश् च दारुणैः ।
प्रदीप्ताङ्गारवर्षेण हन्यमाना व्रजन्ति हि
महाघोररवैर् घोरैर् वित्रस्यन्तो मुहुर् मुहुः ।
निशितायुधवर्षेण पूर्यमाणाश् च सर्वशः
महाक्षराम्बुधाराभिः सिच्यमाना मुहुर्मुहुः ।
महाशीतेन रौद्रेण क्षुरधारादिभिस् तथा
अन्यैर् बहुविधाकारैः शतशो ऽथ सहस्रशः ।
इत्थं च तप्तरौद्रेण मार्गेण विषमेण च
अविश्रान्तेन महता ह्य् अविदूरेण भारत ।
अविदूरेण कष्टेन सर्वदुःखाश्रयेण च
नीयन्ते देहिनः सर्वे मूढाः पापपरायणाः ।
यमदूतैर् महाघोरैर् यमाज्ञाकारिभिर् बलात्
एकाकिनः पराधीना मित्रबन्धुविवर्जिताः ।
शोचन्तः स्वानि कर्माणि दह्यन्ते च मुहुर्मुहुः
प्रेतभूतविमिश्राश् च शुष्ककण्ठोष्ठतालुकाः ।
कृशाङ्गा भीतभीताश् च दह्यमाना हुताग्निना
बद्धाः शृङ्खलया केचित् मज्जन्तः पापिनो भृशम् ।
कृष्यन्ते दह्यमानास् तु यमदूतैर् बलोत्कटैः
उरस्यधोमुखस्थाने तथैव खलु दुःखिताः ।
केशपाशे विबद्धाश् च कृष्यन्ते पापिनस् तथा
ललाटे चाशुगैर् बिद्ध्वा कृष्यन्ते देहिनः क्वचित् ।
उत्ताना दुष्टपन्थानं नीयन्ते पापकर्मणा
पार्श्वबाहुविबद्धाश् च जठरे परिपीडिताः ।
ग्रीवापाशविकृष्याश् च के ऽपि यान्ति सुदुःखिताः
जिह्वाशङ्कुप्रदानेन समानीयकृकाटिकाः ।
अर्द्धचन्द्रेण गृह्यन्ते क्षिप्यमाणा इतस् ततः
शिश्ने च वृषणे चैव रज्ज्वा बद्धास् तथा परो ।
विच्छिन्नहस्तपादाश् च छिन्नकर्णोष्ठनासिकाः
विच्छिन्नशिश्नवृषणाश् छिन्नशीर्षाङ्गसंचयाः ।
अङ्कुशैर् भिद्यमानास् तु खाद्यमानाः सरीसृपैः
इतश् चेतश् च धावन्ति क्रन्दमाना निराश्रयाः ।
मुद्गारैर् लोहदण्डैश् च हन्यमाना मुहुर् मुहुः
कशाभिर् विविधाभिश् च घोराभिश् च समन्ततः ।
भिन्दिपालैश् च तुद्यन्ते वमन्तः शोणितं मुहुः
पात्यमानाश् च सलिले छायां वै प्रार्थयन्ति च ।
दानहीनाः प्रयान्त्य् एवं प्रायश्चित्तकृतो नराः
गृहीत्वा चैव पाथेयं सुखं याति यमालयम् ।
एवं पथा निकृष्टेन प्राप्ता यमपुरं नराः
प्राज्ञापितैस् तथा दूतैः प्रवेश्यन्ते यमाग्रतः ।
तत्र ये शुभकर्माणस् तान् वै संस्मारयेद् यमः
स्वागतासनदानेन पाद्यार्घेण प्रियेण च ।
धन्या यूयं महात्मानात्मनो हितकारिणः
यैस् तु दिव्यसुखार्थं हि भवद्भिः सुकृतं कृतम् ।
नर्मदातटमाश्रित्य पर्वते ऽमरकण्टके
दानं दत्तं तपस्तप्तं हुतं चेष्टं विधानतः ।
वाराणस्यां कुरुक्षेत्रे प्रयागे पुष्करे तथा
गयायां नैमिषारण्ये गङ्गासागरसङ्गमे ।
केदारे भरैवे चापि प्रभासे शशिभूषणे
महाकालवने रम्ये श्रीशैले त्रिपुरान्तके ।
त्रैयम्बके धौतपापे नीलकण्ठे तथैव च
गङ्गाद्वारे हिमद्वारे तथा कालञ्जरे गिरौ ।
एतेष्वन्येषु तीर्थेषु क्षेत्रेषु च यथाक्रमम्
लब्धं जन्मफलं चैव भवद्भिर् नात्र संशयः ।
इदं विमानम् आरुह्य दिव्यस्त्रीभोगभूषितम्
संगच्छध्वं शिवं स्वर्गं सर्वकामसमन्वितम् ।
तत्र भुक्त्वा महाभोगान् अनन्तान् पुण्यसंख्यया
यत्किंचिद् अन्यद् अशुभं स्वल्पं तदपि भोक्ष्यथ ।
आख्यातं तु मया तावत् कल्पगातीरवासिनः
आरोहन्ति विमानानि सर्वेषामुपरि स्थिताः ।
सर्वतीर्थेषु संख्यास्ति ह्युक्तं ब्रह्मादिभिः पुरा
तत्र यद् दीयते दानं तेन स्वर्गे महीयते ।
म्रियते तत्र यः कश्चिद् व्रतेनानशनेन च
दिव्ययानं समाश्रित्य स प्रयाति शिवालयम् ।
एतत् ते कथितं राजन् कल्पगापुण्यमुत्तमम्
पश्यन्ति पुण्यकर्माणो यमं मित्रम् इवात्मनः ।
ये पुनः क्रूरकर्माणस्ते पश्यन्ति भयानकम्
दंष्ट्रा करालवदनं भ्रुकुटीकुटिलेक्षणम् ।
ऊर्द्ध्वकेशं महाश्मश्रुं स्फुरदोष्ठाधरोत्तरम्
अष्टादशभुजं क्रूरं नीलाञ्जनचयोपमम् ।
सर्वायुधोह्यतकरं गर्जन्तं दण्डपाणिनम्
महामहिषमारूढं तप्ताग्निसमलोचनम् ।
रक्तमाल्याम्बरधरं महामेरुम् इवोत्थितम्
प्रलयाम्बुदनिर्घोषं पिबन्तम् इव वारिधीन् ।
ग्रसन्तम् इव त्रैलोक्यमुद्गिरतम् इवानलम्
मृत्युस् तस्य समीपस्थः कालानलसमप्रभः ।
कालश् चाञ्जनसंकाशः कृतान्तश् च भयानकः
विविधा व्याधयस्तीक्ष्णा नानारूपा भयानकाः ।
शक्तिशूलाङ्कुशधराः पाशचक्रासिपाणयः
वज्रदंष्ट्राधरा रौद्राः क्रूराश् चाञ्जनसन्निभाः ।
सर्वायुधोद्यतकरा यमदूताश् च घातकाः
एवं विधं यमं तत्र पश्यन्ति पापचारिणः ।
निर्भयो याति चात्यर्थं यमो वा पापकारिणम्
चित्रगुप्तश् च भगवान् धर्मं तेषां प्रबोधयन् ।
भो भो दुष्कृतकर्माणः परद्रव्यापहारकाः
गार्जिता रूपवीर्येण परदारोपमर्दकाः ।
यस् तु यत् कुरुते कर्म तेन तद् भुज्यते पुनः
तत् किम् आत्मोपघातार्थं भवद्भिर् दुष्कृतं कृतम् ।
किम् अर्थं परितप्यध्वं पीड्यमानाः स्वकर्मभिः
भुज्यन्ते स्वानि कर्माणि नास्ति दोषो ऽत्र कस्यचित् ।
एते च पृथिवीपालाः संप्राप्ताश् च महीपते
स्वकीयैः कर्मभिर् घोरैर् दुष्प्रज्ञाबलगर्विताः ।
भो भो नृपा दुराचाराः प्रजाविध्वंसकारिणः
स्वल्पकालस्य राज्यस्य किं वै तद् दुष्कृतं कृतम् ।
भवद्भी राज्यलोभेन मोहेनान्यायवृत्तिभिः
यद्गृहीतं फलं तस्य यूयं भुङ्ग्ध्वं यथातथम् ।
कुत्र राज्यं कलत्रं वा यदर्थम् अशुभं कृतम्
तत्सर्वस्वं परित्यज्य यूयम् एकाकिनस् तथा ।
त्वद् बान्धवा न पश्यन्ति येन विध्वंसिताः प्रजाः
यमदूतैः पात्यमाना अधुना कीदृशं भवेत् ।
एवं बहुविधैर् वाक्यैर् उपलब्धा यमेन ते
शोचन्ति स्वानि कर्माणि तूष्णीं भूताश् च पार्थिव ।
इति वाक्यैः समादिश्य नृपांस् तान् धर्मराट् ततः
तेषां पापविशुद्ध्यर्थं यमो दूतान् अथाब्रवीत् ।
भो भोश् चण्ड महाचण्ड गृहीत्वा नृपतीनिमान्
विशोधयध्वं पापेभ्यः क्रमेण नरकाग्निना ।
ततः शीघ्रं समास्थाय नृपान् संगृह्य पादयोः
भ्रामयित्वा तु वेगेन चिक्षिपुर्यमकिङ्कराः ।
सर्वे वेगेन महता सुप्रतप्ते महीतले
आस्फालयन्ति महति चाश्मसारमये द्रुमे ।
ततस् ते सर्व एवाशु प्रहारैर् जर्जरीकृताः
विसंज्ञाश् च तदा सन्ति निश्चेष्टाश् च युधिष्ठिर ।
ततस् ते वायुना स्पृष्टाः शनैस् तु जीविताः पुनः
तानानीय विशुद्ध्यर्थं क्षिपन्ति नरकार्णवे ।
अष्टाविंशतिर् एवाद्यास् तीव्रानरककोटयः
सप्तमस्य तलस्यान्ते घोरे तमसि संस्थिताः ।
अतिघोरा च रौद्रा च तथा घोरतमा स्थिता
अत्यन्तदुःखजननी घोररूपा च पञ्चमी ।
षष्ठी तरणताराख्या सप्तमी च भयानका
अष्टमी कालरात्रिश् च नवमी च घटोत्कटा ।
दशमी चैव चण्डा च महाचण्डा ततो ऽप्यधः
चण्डकोलाहला चैव प्रचण्डा च पराग्निका ।
जघन्या ह्यवरा लोमा भीषणी चैव नायिका
कराला विकराला च वज्रविंशतिराश्रिता ।
अस्ता च पञ्चकोणा च सुदीर्घा परिवर्तुला
सप्तभौमाष्टभौमा च दीर्घमायेतिहापरा ।
इति ता नामतः प्रोक्ता घोरा नरककोटयः
अष्टाविंशतिरेतास् तु भूतानां मानतः स्मृताः ।
तासां क्रमेण विज्ञेयाः पञ्चपञ्चैव नायका
प्रत्येकं सर्वकोटीनां नामतस् तु विशाम्पते ।
रौरवः प्रथमस् तेषां रुदन्ति यत्र देहिनः
महारौरवपीडाभिर् महान्तो ऽपि रुदन्ति हि ।
तमः शीतं तथा चोष्णं पञ्चैते नायकाः स्मृताः
अघोरः प्रथमस् तीक्ष्णः पद्मः संजीवनः शठः ।
महामायो विलोमश् च कण्टकः कटकः स्मृतः
तीव्रो वामः करालश् च किङ्करालः प्रकम्पनः ।
महाचक्रः सुपद्मश् च कालसूत्रः प्रगर्जनः
सूचीमुखः सुनेमिश् च खादकः सुप्रपीडितः ।
कुम्भीपाकः सुपाकश् च क्रकचश् च सुदारुणः
अङ्गाररात्रिः पचनः असृक्पूयभवस् तथा ।
सुतीक्ष्णाः शण्डशकुनी महासंवर्तकः क्रतुः
तप्तजन्तुः पङ्कलेषः पूतिमान् च ह्रदस्त्रपुः ।
उच्छ्वासश् च निरुच्छ्वासः सुदीर्घः क्रूरशाल्मली
उष्ट्रितस्तु महानादः प्रवाहः सुप्रवाहनः ।
वृषाश्रयो वृषाश्वश् च सिंहव्याघ्रगजाननाः
श्वशूकराजमहिषमेषमूषखराननाः ।
ग्राहकुम्भीरनक्रास्या महाघोरा भयानकाः
सर्वभक्षाः स्वभक्षाश् च सर्वकर्मा ऽश्ववायसाः ।
गृध्रोलूक उलूकश् च शार्दूलकपिकच्छुराः
गण्डकः पूतिवक्त्रश् च रक्तास्यः पूतिमूत्रिकः ।
कणधूम्रस् तुषाराग्निः कृमिमान् निरयस् तथा
आतोद्यश् च प्रतोद्यश् च रुधिरोद्यश् च भोजनम् ।
कालात्मगो ऽनुभक्षश् च सर्वभक्षः सुदारुणः
कर्कटस् तु विशालश् च विकटः कटपूतनः ।
अम्बरीषः कटाहश् च कष्टा वैतरणी नदी
सुतप्तो लोहशङ्कुश् च एकपादो ऽश्रुपूरणः ।
असिपत्रवनं घोरम् अस्थिलिङ्गं प्रतिष्ठितम्
तिलातसीक्षुयन्त्राणि कूटपापप्रमर्दनाः ।
महाचुल्ली विचुल्ली च तप्तलोहमयी शिला
पर्वतः क्षुरधाराख्यो मयो यमलपर्वतः ।
सूचीविष्ठान्धकूपाश् च पतनः पातनस् तथा
मुशली वृषली चैवाशिवा सङ्कटला तथा ।
तालपत्रासिगहनं महामोहक एव च
संमोहनो ऽस्थिभङ्गश् च तप्ताचलमयो ऽगुणः ।
बहुदुःखो महादुःखः कश्मलो यमलस् तथा
हालाहलो विरूपश् च श्वरूपश्च्युतमानसः ।
एकपादस्त्रिपादश् च तीव्रश् च विदितस् ततः
अष्टाविंशतिर् इत्य् एते क्रमशः पञ्चकाः स्मृताः
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0