भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 51

51.1

इति श्रीस्कन्दपुराणे रेवाखण्डे कपिलामाहात्म्ये धुन्धुमारस्वर्गारोहणं नाम पञ्चाशत्तमो ऽध्यायः ॥
र्क्स् अध्याय 51
युधिष्ठिर उवाच:
द्वीपसंख्या भुवो मानं सागराणां च कीर्तनम् ।
पाताललोकसंख्यानं सर्वतो विदितं कुरु

51.2

नरकं स्वर्गमानं च यत्किंचिद् अन्यदीदृशम् ।
उक्तानुक्तं यत्किंचित् कर्माकर्मशुभावहम्

51.3

एतत् सर्वं समासेन स्कन्दपृष्टेन शम्भुना ।
कथितं तु पुराणं वै यथावृत्तं पुरातनम्

51.4

भविष्यभूततत्त्वज्ञस् त्रिकालज्ञस् त्रिवेदवित् ।
त्वम् एव वेत्सि सर्वं च प्रसादाद् वक्तुम् अर्हसि

51.5

मार्कण्डेय उवाच:
शृणु राजन् महाभाग कथ्यमानं निबोध मे ।
अनेकानि सहस्राणि मया दृष्टानि भारत

51.6

युगे युगे क्षत्रियाणां दानयज्ञक्रियाणि च ।
नान्यस् तु त्वादृशो राजा दृष्टस् तेषां तु मध्यतः

51.7

एतत् सर्वं समासेन स्कन्दपृष्टेन शम्भुना ।
कथितं तु पुराणं वै सर्वं ते कथयाम्य् अहम्

51.8

चन्द्रद्वीपः प्रभासे तु ताम्रपर्णिर् गभस्तिमान् ।
नागद्वीपश् च सौम्यश् च गन्धर्वो वरुणस् तथा

51.9

नवमः कुमारिकाख्यस् तु इति द्वीपाः प्रकीर्तिताः ।
नवखण्डवती चैषा कथिता ते समासतः

51.10

खण्डेष्व् एतेषु सर्वेषु प्रवाहो नार्मदः स्मृतः ।
जम्बूशाककुशक्रौञ्चशाल्मल्यश् च युधिष्ठिर

51.11

प्लक्षश् च पुष्करश्चैव सप्तद्वीपाः प्रकीर्तिताः ।
क्षारं क्षीरं दधि सर्पिस् तथैवेक्षुरसो ऽपि च

51.12

सुरोदो मधुरोदश् च समुद्राः सप्तकीर्तिताः ।
भूर्लोकश् च भुवर्लोकः स्वर्लोकश् च महस् तथा

51.13

जनलोकस् तपोलोकः सत्यलोकस् तथा परः ।
भूर्लोकादित्ययोर् विद्धि त्व् अन्तरालं युधिष्ठिर

51.14

योजनानां चतुर्लक्ष पातालं यत्प्रमाणतः ।
रुद्राश् च वसवश् चाष्टौ निवसन्त्य् अत्र भारत

51.15

कथिताश् च मया लोकाः पातालानि निबोध मे ।
अतलं वितलं चैव शर्करं च गभस्तिकम्

51.16

महातलं च सुतलं रसातलम् अतः परम् ।
सौवर्णमष्टमं विद्धि सर्वकामसमन्वितम्

51.17

वह्नेर्दाहो ह्य् अपां शैत्यं मरुतां वहनं तथा ।
काठिन्यं च तथा धात्र्या गगने शुषिरं तथा

51.18

स्वभाव एव भूतानां स्वस्वभावानुसारतः ।
प्रकृतिं यान्ति भूतानि नात्र कार्या विचारणा

51.19

लक्षाणि चतुरशीतिर्योनीनां पापकर्मणाम् ।
नरकेषु च घोरेषु दारुणा यमयातनाः

51.20

निरुद्धाः प्राणिनः सर्वे नीतास् तु यमकिङ्करैः ।
यातना विविधा रौद्रास्तत्रस्थैर् अनुभूयते

51.21

स्वकर्मफलयोगेन प्राप्नुवन्ति शुभाशूभम् ।
एतद् अर्थं तपो होमं दानं ध्यानं च पावनम्

51.22

कारुण्यं सर्वभूतेषु नर्मदाश्रयणं तथा ।
रेवायाः स्तवनं पूजा सूर्यस्य प्रभवो यथा

51.23

आख्यानं कथयिष्यामि यथावृत्तं पुरातनम् ।
मुचुकुन्दस्य संवादो दानवेन्द्रस्य भारत

51.24

कुवलयाश्वो ऽथ राजर्षिश् चक्रवर्ती महायशाः ।
आसीत् कृतयुगे राजन् अन्तरे चाक्षुषे किल

51.25

शक्रादष्टगुणं राज्यं राज्ञश् चामिततेजसः ।
अनेकानि सहस्राणि दानानि विविधानि च

51.26

दत्तानि तेन राज्ञा वै सर्वतीर्थेष्व् अनुत्तमम् ।
इष्टाश्च क्रतवश् चापि वर्जयित्वा तु कल्पगाम्

51.27

दानवो मुचुकुन्दश् च सर्वधर्मपरायणः ।
ब्रह्मण्यः शिवभक्तश् च विष्णुभक्तो जितेन्द्रियः

51.28

राहुसोमसमायोगे वैदूर्ये सिद्धपर्वते ।
ओंकारनाथसहिता यत्रास्ते कल्पगा सरित्

51.29

अन्यानि यानि लिङ्गानि लोके चैव चराचरे ।
कल्पान्ते तानि लीयन्त ओंकारे वै न संशयः

51.30

शिवेन कथितं ह्य् एतद् विष्णोश् चैव शतक्रतोः ।
पार्वत्याः षण्मुखस्यापि पुराणे स्कन्दकीर्तिते

51.31

आगतः कल्पगां देवीं कोटितीर्थे नराधिपः ।
नर्मदाकपिलायोगे सर्वसम्भारसंवृतः

51.32

लक्षमेकं तु दोग्ध्रीणां समादाय गवां नृप ।
अयुतं च हयानां च सहस्रं दन्तिनां तथा

51.33

कामिकानां तु यानानां सहस्रं हेममालिनाम् ।
धनं धान्य च वासांसि रत्नानि विविधानि च

51.34

स्नानं कृत्वा यथान्यायं ब्राह्मणेभ्यो ददौ तदा ।
मूर्तौ तु दक्षिणां चापि ओंकारस्य नराधिप

51.35

यो यं कामयते कामं तं तस्मै स प्रयच्छति ।
राजा कुवलयाश्वस् तु धर्मकर्मपरायणः

51.36

राहुसूर्यसमायोगे कुरुक्षेत्रं ययौ किल ।
सान्तःपुरपरीवारो ह्य् अयोध्याधिपतिः स्वयम्

51.37

राजपुत्रसहस्रैस् तु वृतः स्नानेप्सया किल ।
लक्षमेकं हयानान् च दन्तिनाम् अयुतं तथा

51.38

हेममाणिक्यरत्नानि वासांसि विविधानि च ।
श्रद्धया परया युक्तो ब्राह्मणेभ्यो ददौ नृप

51.39

शेषं निर्वापितं क्षेत्रे स्थाने वायनपूर्वकम् ।
कालान्तरे ततः प्राप्ते कुरुक्षेत्रप्रभावतः

51.40

नानायानसहस्रैस् तु सान्तः पुरपरिग्रहः ।
ध्रियमाणा तपत्रस् तु वीज्यमानो ऽप्सरोगणैः

51.41

शङ्खवादित्रघोषेण नानाभरणभूषितः ।
विचचार च तत्रस्थो विद्याधर इवापरः

51.42

मुचुकुन्दो ऽपि दैत्येन्द्रः सर्वकामसमन्वितः ।
कामिकैश् च महायानैर् हेमरत्नविभूषणैः

51.43

श्रुत्वा वाद्यसहस्राणि धर्मराजो विशाम्पते ।
जगाम विस्मयं घोरं किम् एतद् इति चाब्रवीत्

51.44

ततः कुवलयाश्वो ऽपि तस्मिन् अहनि तत्पुरम् ।
उभौ निवेदितौ दूतैर्धर्मराजस्य धीमतः

51.45

कुवलयाश्वो ऽथ राजर्षिर् मुचुकुन्दो महाबलः ।
लोकान्तरम् उभाव् एतौ विमानस्थौ समागतौ

51.46

तावद् उत्पतितं यानं मुचुकुन्दस्य चोपरि ।
योजनानां सहस्रेण ह्युपर्य् उपरि संस्थितम्

51.47

अयोध्याधिपतेर् यानम् अधोभागे व्यवस्थितम् ।
पप्रच्छ धर्मराजो ऽपि चित्रगुप्तं तु लेखकम्

51.48

किं तु यानं समासाद्य अर्घपाद्येन पूजये ।
सप्तर्षीन् ऋषिमुख्यांश् च धर्माधर्मविचारकान्

51.49

चित्रगुप्तो ऽब्रवीद् वाक्यं तथा सप्तर्षयो ऽब्रुवन् ।
मुचुकुन्दं समासाद्य त्वर्घपाद्येन पूजय

51.50

दानेन कापिलेनेज्यो दानवेन्द्रो न चापरः ।
अधः कुवलयाश्वश्च मुचुकुन्दस् तथोपरि

51.51

एवमुक्तो धर्मराजो दानवेन्द्रम् उपाश्रयत् ।
श्वेतवस्त्रपरीधानो ज्वलत्कुण्डलभूषणः

51.52

अञ्जलिं च ततो बद्ध्वा यानस्याग्रे व्यवस्थितः ।
कुशलं ते ऽद्य दैत्येन्द्र सर्वधर्मभृतां वर

51.53

निर्जितास्ते त्रयो लोका दानेना ऽनेन सुव्रत ।
ओंकारदक्षिणस्यान्ते मूर्तौ कापिलसङ्गमे

51.54

सप्तकल्पवहातीरे दानसंख्या न विद्यते ।
मुचुकुन्द उवाच:
धर्माधर्मे त्वम् एवाद्य स्वर्गद्वारार्गलो यतः

51.55

एवम् उक्तो यमस् तत्र दैत्येन्द्रेण महात्मना ।
पन्थानं दर्शयामास दैत्येन्द्रस्य युधिष्ठिर

51.56

ततस् तु प्रेषितस् तेन मुचुकुन्दो जगाम ह ।
मुदा परमया युक्त उमामाहेश्वरं पुरम्

51.57

संस्मारयित्वा विधिवद् दैत्येन्द्रं धर्मराट् ततः ।
आसाद्य कुवलयाश्वं धर्मराजो ऽब्रवीद् इदम्

51.58

स्वागतं ते महाराज कुशलं तव सर्वदा ।
कुवलयाश्व उवाच:
परस्परविरोधत्वं देवदानवयोः सदा

51.59

मां त्यक्त्वा दानवेन्द्रस् तु पाद्यार्घेण त्वयार्चितः ।
विपरीतं च तत्सर्वं धर्मराज कृतं कथम्

51.60

यम उवाच:
विषादं त्यज राजेन्द्र गहना कर्मणां गतिः ।
नाहं दाता च हर्ता च शुभाशुभफलस्य वै

51.61

कर्मसाक्षी च सर्वेषां देवासुरनृणां नृप ।
सरस्वत्यां कुरुक्षेत्रे दानं दत्तं त्वयानघ

51.62

द्वापरान्ते तु दानं वै रेवादानं समं नहि ।
शिवेन कथितं चासीद् ब्रह्मविष्णुमरुद्गाणान्

51.63

कलां नार्हन्ति तीर्थानि सार्द्धं कल्पगया क्वचित् ।
अनृतं न मया चोक्तं पुराणं श्रुतिसम्मतम्

51.64

एतस्मिन् अन्तरे राजन् द्वयोः संवदतोस् तयोः ।
उक्तः कुवलयाश्वस् तु तदाकाशगिरा स्वयम्

51.65

धर्मश् चेत्थं महाराज मा कृथास् त्वं कथंचन ।
कल्पगा तोयसंस्पृष्टो दैत्यः शिवम् अवाप्तवान्

51.66

स राजा विस्मयापन्नः पुनर्व्यावृत्य चागतः ।
नर्मदां स्नातुकामो ऽपि कपिलासङ्गमं प्रति

51.67

तत्र प्लुतस् ततो राजा शिवलोकं जगाम ह

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc