स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 50
इति श्रीस्कन्दपुराणे रेवाखण्डे वाराहस्वर्गारोहणं नामैकोनपञ्चाशत्तमो ऽध्यायः ॥
र्क्स् अध्याय 50
मार्कण्डेय उवाच:
स तस्मिन् नृपति श्रेष्ठस्तृषितः श्रान्तवाहनः ।
हयं मुमोच राजा वै सर्वोपस्करम् एव च
स्मरन् ऊर्ध्वगतिं तावद् उपविष्टः शिलातले ।
रेणुध्वस्तस् ततो ऽश्वो वै प्रविष्टः सप्तकल्पगाम्
पानस्नानादिकं कृत्वा ह्यन्तरिक्षस्थितो हयः ।
ब्रह्मतेजः स्थितो भूत्वा ब्रह्मयानं समाश्रयत्
अत्यद्भुतं तु तं दृष्ट्वा परं विस्मयम् आगत ।
उवाच वचनं राजा तुरङ्गं तं द्विजर्षभम्
किम् एतत् कारणं ब्रह्मञ्च् छंस मे ऽद्ययथोचितम् ।
उवाच तद्वचः श्रुत्वा हयरूपो द्विजोत्तमः
ब्रह्मर्षिर् गालवश् चाहं कुरुक्षेत्रे पुरा स्थितः ।
अश्वप्रतिग्रहाद् दग्धस् त्व् अश्वयोनिं समाश्रित
दावाग्निना च यद् दग्धम् उदकात् तत्प्ररोहति ।
दुष्टप्रतिग्रहाद् दग्धो न प्ररोहेत् कदाचन
द्रुमसेनः पुरा चासीद् राजा परमधार्मिक ।
अयोध्याधिपतिश् चासौ चक्रवर्ती महाबलः
राहुसूर्यसमायोगे कुरुक्षेत्रं जगाम ह ।
गजानश्वान् समादाय हिरण्यं गास् तथैव च
माणिक्यवज्रवैदूर्यवासांसि विविधानि च ।
ब्राह्मणार्थे नृपश्रेष्ठ मुदा परमया युतः
गृहाणि साप्तभौमानि धूपितानि तु काञ्चनैः ।
सर्वकामसम् ऋद्धानि ब्राह्मणेभ्यो यथाविधि
दत्त्वा स याचयामास सक्तुप्रस्थव्रते स्थितम् ।
राजोत्तमकुलं विप्रमुञ्छवृत्तिं समाश्रितम्
श्राद्धकालः पितॄणां मे भोजनं क्रियताम् इति ।
ऋषिर् उवाच:
राज्ञो हि दर्शनं घोरं मेधामथनमक्षमम्
दृष्ट्वा चैव महीपालमादित्यं चावलोकयेत् ।
द्विजात् परतरो नास्ति प्रतिग्रहपराङ्मुखात्
असत् प्रतिग्रहं गृह्णन् नरकं याति वै ध्रुवम् ।
भार्याप्रतिग्रहग्राही याचस्वा ऽन्यं द्विजोत्तमम्
ऋषे राजा वचः श्रुत्वा प्रतीहारं तथाब्रवीत् ।
घोषणा क्रियतां शीघ्रं स्थानेश्वरनिवासिनाम्
प्रतिग्रहाय यः कश्चित् स चायातु इह सत्वरम् ।
कृते तु घोषणे कश्चित् नासीत् नृपप्रतिग्रही
ततस् तु कुपितो राजा स्थानं तच् च निनिन्द च ।
अब्रह्मण्यम् इदं स्थानं न वेदो न च याजनम्
जुगुप्सित्वा तु तान् सर्वांस् तूष्णीं चैव बभूव ह ।
तस्य वाक्यं तु तच्छ्रुत्वा राजानं चेदम् अब्रुवम्
गालवो ऽहं द्विजश्रेष्ठश् चतुर्वेदी महातपाः ।
यज्ञयाजी तपस्वी च सर्वभूतहिते रतः
अनुग्रहम् इमं विद्धि उद्धरिष्ये भवार्णवात् ।
राजोवाच:
ददामि ते न सन्देहः त्वम् एको मुनिसत्तमः
मुद्गलाद्यैर् द्विजैः सर्वैर् वार्यमाणो ऽपि चानघ ।
गृहीतो ऽश्वरथस् तत्र मयाभरणभूषितः
ततः स मां नमस्कृत्य द्रुमसेनो ययौ नृप ।
मयापि चाग्निहोत्रादिकर्म त्यक्त्वा यथासुखम्
नानाविधानि दिव्यानि स्त्रीभिः सार्द्धं सुखानि तु ।
क्रीडतो ऽपि तदर्थं वै यावत् मे च क्षयं गतम्
एवम् उक्त्वा ययौ विप्रो ब्रह्मलोकं सनातनम् ।
एकाकी च ततो राजा चिन्तयामास भारत
एकाकी यदि यास्यामि गताश्वश् चरणेन तु ।
राजानो मां हसिष्यन्ति वचनैः स्वैः परस्परम्
दस्युभिर् निहतश्चास्य हय इत्य् एवम् आदिभिः ।
अश्वोपस्करम् आदाय शिरसा च कथं मया
प्रवेष्टव्यं पुरं चैतत् महालज्जाकरं मम ।
अद्य यावत् मया तावद् ब्राह्मणारोहणं कृतम्
पापस्यास्य विशुद्ध्यर्थं प्रवेक्ष्यामि हुताशनम् ।
एवं विचिन्तयाभास राजा तत्रैव सत्वरम्
दक्षिणां दिशम् आश्रित्य शुष्ककाष्ठानि चाहरत् ।
ततः प्रज्वाल्य काष्ठानि कृत्वा च त्रिःप्रदक्षिणम्
नमस्कृत्य हुताशं च विवेश स्वगृहं यथा ।
निर्जित्य तेजसा तेजः पावकस्य तदा नृपः
चतुर्भुजा त्रिनेत्रा तु मुक्ताभरणभूषिता ।
तं गृहीत्वा करेणैव इदं वचनम् अब्रवीत्
अप्राप्तं मरणं राजन् कालो विहितस् तव ।
अकस्मात् साहसं देव युक्तं न प्रतिभाति मे
कालप्राप्तं पुमांसं तु न रक्षेद् ईश्वरः स्वयम् ।
राजोवाच:
का ऽसि त्वं च वरारोहे ह्युमा गङ्गा ऽथवा रमा
कथयस्व महाभागे मम त्वं भक्तिदायिनी ।
स्त्र्युवाच:
नाहं गङ्गा न वाणी वा कपिलां विद्धि मां नृप
एनां रुद्राद् विनिष्क्रान्तां नर्मदातलवाहिनीम् ।
वसुदानस्य यज्ञे तु रेवाकपिलसङ्गमः
उमा कात्यायनी गङ्गा यमुना गौतमी तथा ।
सरस्वती तथा शिप्रा वरणा च शुभापगा
शतद्रूश् चन्द्रभागा च सिन्धू रेवामला तथा ।
वितस्ता चर्मणा देवी सोमावभृथमध्यतः
ब्रह्मविष्णुमहेशानां स्नानार्थं हृतवारिभिः ।
तिलोदकैर् मुनीनां तु प्रणीतः कलशोदकैः
तथा सोमरसैश् चैव घृतखण्डादिमिश्रितैः ।
बभूवातिप्रवाहो वै इज्याजन्यो महान् पुरा
एतद् भूतं महत् पुण्यम् उदयाचलम् आश्रितम् ।
रुद्रावर्तपदं चात्र विद्यते नृपसत्तम
एवम् उक्तो ययौ राजा देवी चान्तरधीयत ।
हृष्टस् तुष्टश् चक्रवर्ती मार्कण्डेयाश्रमं ययौ
गत्वा प्रणम्य तम् ऋषिम् उपविष्टस् तथाग्रतः ।
मार्कण्डेय उवाच:
कुशलं ते नृपश्रेष्ठ धर्माचारविदां वर
सन्त्यज्य च कथं सैन्यम् एकाकी त्वम् इहागतः ।
राजोवाच:
अद्य मे सफलं जन्म त्वत्पादाम्बुजदर्शनात्
धुन्धुमारस् तथा राजा कथयामास पूर्वकम् ।
मार्कण्डेयस् ततः श्रुत्वा वृत्तान्तं पृथिवीपतेः
रेवाकपिलयोर् योगे स्नात्वा स्तोत्रं चकार ह ।
तत्र स्नाता दिवं यान्ति रेवाकपिलसङ्गमे
उमा कात्यायनी गङ्गा यमुना गौतमी तथा ।
सरस्वती तथा शिप्रा वरणा च शुभापगा
शतद्रूश्चन्द्रभागा च सिन्धू रेवामला तथा ।
वितस्ता चर्मणादेवी बाहुदा वारुणी तथा
सरयूर् गण्डकी चैव घर्घरा बदरी तथा ।
गोमती वेणुकी चैव पारा वेत्रवती शुभा
विपाशा च तथा वाहा शङ्खिनी च पयोष्णिका ।
गोदावरी च कावेरी भीमा कृष्णा तथा शुभा
सुभद्रा च तथा भद्रा करतोयाथ मालिनी ।
एताः सर्वास् त्वमेवासि सर्वगे त्वां नमाम्य् अहम्
लोकत्रयं त्वया व्याप्तम् अपां रूपेण सुव्रते ।
प्रसीद त्वं महाभागे लोकत्रितयपावनी
श्रुत्वा स्तोत्रम् इदं देवी मार्कण्डेयात् तपोधनात् ।
पुष्पकं यानमारुह्य सर्वाभरणभूषिता
चतुर्भुजा त्रिनेत्रा च चन्द्रबिम्बनिभानना ।
उवाच वचनं देवी मार्कण्डेयं महामुनिम्
स्तोत्रेणानेन तुष्टाहं वरं वृणु यथेप्सितम् ।
मार्कण्डेय उवाच:
परितुष्टासि देवेशि वरं दातुं त्वम् इच्छसि
कलुषं हर कल्याणि लोकानां हरसंभवे ।
स्नानं कृत्वा स्तुवन् तोये लोकानापुः शिवाज्ञया
वरं ददस्व देवि त्वं धुन्धुमाराय सांप्रतम् ।
राज्यं कृत्वा दिवं यातु सान्तःपुरपरिच्छदः
यं यं चिन्तयते कामं तं तं प्राप्नोति सुव्रते ।
एवं भवतु विप्रेन्द्र मत्तो यद्वाञ्छितं त्वया
एवम् उक्त्वा ययौ देवी कपिला लोकपावनी ।
मार्कण्डेयं मुनिं राजा मुनिभिः परिवारितम्
प्रणिपत्य यथा न्यायं गतश् च स्वपुरं तदा ।
ततः कालेन महताराजा धर्मपरायणः
राज्यं कृत्वा क्रतूनिष्ट्वा धुन्धुमारो दिवं गतः ।
एतत् ते कथितं सर्वं मया दृष्टं पुरानघ
श्रवणात् कीर्तनाद् अस्य मुच्यते भवबन्धनात्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0