स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 49
इति श्रीस्कन्दपुराणे रेवाखण्डे पञ्चब्रह्मात्मकस्तवो नामाष्टचत्वारिंशो ऽध्यायः ॥
र्क्स् अध्याय 49
मार्कण्डेय उवाच:
ततो गच्छेत् महाभाग रेवाकपिलसङ्गमम् ।
तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः
तिलोदकप्रदानेन पितॄणां परमा गतिः ।
दिनानि नवसार्धानि राहुग्रस्ते निशाकरे
वृद्धिं याति महाराज पुण्यवृद्ध्या न संशयः ।
ग्रस्ते तु राहुणा सूर्ये दिनानि च दशैव तु
वर्धते कपिलाभेदस् तद्वद् एव विशाम्पते ।
रेवायाः कपिलायोगे वाराणस्याः समागमे
समानं फलां उद्दिष्टं तिलोदकेनापि विद्यते ।
वाराणसीसमा रेवा कपिलायाश् च सङ्गमे
स्वायम्भुवे ऽन्तरे प्राप्ते ब्रह्मलब्धवरोद्भवाः ।
रुद्रावर्तं ब्रह्मावर्तं सूर्यावर्तं तथा ऽपरम्
कपिलानर्मदायोगे ज्ञेयम् एतत् त्रयं पुनः ।
नर्मदाभेदनं यत्र चतुर्हस्तप्रमाणतः
रेवाकपिलयो राजंस् तत्रावर्तद्वयं स्मृतम् ।
पिप्पलावाहिनी तत्र सप्तपातालवासिनी
तत्रैव कपिलावर्तं पिप्पलावर्तम् एव च ।
कामयन्ति हि तीर्थं च पितरस्तृप्तिदायकम्
तस्मात् पुत्रः प्रयत्नेन पितृभ्यश् च यथाविधि ।
जलाञ्जलिं तिलैर्मिश्रं दद्यात् पिण्डं च यत्नतः
पितॄन् समुद्धरेद् घोराच् छ्राद्धं कृत्वा तु मानवः ।
रेवाकपिलयोर् योगे शुचिः स्नात्वा तु मानवः
यः पश्येद् अमरं तत्र फलं तस्याश्वमेधिकम् ।
चन्द्रसूर्योपरागे तु पर्वकाले विशेषतः
गन्धं धूपं च नैवेद्यं दीपमालां च कारयेत् ।
तिलतण्डुलमिश्रैर् यः कुर्याल् लिङ्गस्य चार्चनम्
कुङ्कुमेन समालिप्य रक्तवस्त्रैः प्रवेष्टयेत् ।
पुष्पमालार्चनं कृत्वा हेमरत्नादिभिस् तथा
यावच् चन्द्रश् च सूर्यश् च हिमवांश् च महोदधिः ।
तावद् युगसहस्त्राणि रुद्रलोके महीयते
कौशेयं पट्टसूत्रं च कार्पासं रक्ततान्तवम् ।
वैजयन्तीवितानं च कलशोपरि वर्धयेत्
पञ्चरत्नसमायुक्तं किङ्किणीरवसंयुतम् ।
तत्तन्तुसंख्यया यावन् मुहूर्तम् इह भारत
तावत्कालं वसेत् स्वर्ग उमामाहेश्वरे पुरे ।
ईशानम् अपरं चैव सामान्यात् कथितं पुरा
कपिलापूर्वभागे तु नातिदूरे व्यवस्थितम् ।
अर्चनात् तस्य लिङ्गस्य गाणपत्यम् अवाप्नुयात्
शुक्लाष्टम् यां कार्त्तिके तु फलं शतगणोत्तरम् ।
संक्रमे च व्यतीपाते तस्य संख्या न विद्यते
उपहारप्रदानेन कपिलेश्वरपूजनात् ।
वर्षाणामयुतं सार्द्धं लोके क्रीडति भास्करे
मृतवत्सा तथा बन्ध्या गर्भस्रावा च या भवेत् ।
रक्तवस्त्रैः पञ्चरत्नैः स्नानं सा च समाचरेत्
चतुर्दश्यां तथाष्टम्यां कपिलायां युधिष्ठिर ।
सुभगा जीवपुत्रा च सत्यमेतच् छिवोदितम्
उमया च वरो दत्तो नारीभ्यश् च प्रसादतः ।
कपिला निर्गता यस्मात् नर्मदायां प्रसर्पति
तीर्थानाम् अष्टसाहस्रं कामभोगफलप्रदम् ।
आस्ते तत्र महाराज शिवेन कथितं पुरा
कपिला च ततो देया सर्वाभरणभूषिता ।
ब्राह्मणान् भोजयेत् तत्र यथा विभवविस्तरैः
उपवासपरो नित्यं तार्पिताः पितृदेवताः ।
हेमजालेश्वरं नाम लिङ्गं तत्रैव सिद्धिदम्
अर्चनात् तस्य देवस्य यमलोकं न पश्यति ।
वसुदानो धुन्धुमारश् चक्रवर्ती पुरा ऽभवत्
अस्य तीर्थस्य माहात्म्याद् दिवि देवत्वमाप्तवान् ।
अनेकानि सहस्राणि संसिद्धिं परमां गताः
क्षत्रियाणां नृपश्रेष्ठ कोटितीर्थप्रभावतः ।
उलूकैः पातितान् यत्र कोटितीर्थे शिरांस्यथ
काकानां जलमध्ये तु शतशो ऽथ सहस्रशः ।
तत्क्षणाद् दिव्यदेहास् तु ते काका यानमाश्रिताः
विद्याधराणां राजानो मया दृष्टाः पुरानघ ।
वृन्दाश् च जम्बुकानां तु व्याघ्राणां च भयेन वै
तथा मेघावृते काले नर्मदाजलम् आविशन् ।
यक्षलोकं तु ते प्राप्ताः सर्वकामफलोदयम्
जम्बुकेश्वरम् इत्येवं तिर्यग्योनिविमोक्षणम् ।
पृथिव्यां नैमिषं तीर्थम् अन्तरिक्षे च पुष्करम्
वाराणसीप्रयागं च त्रैलोक्ये त्व् अमरेश्वरम् ।
त्रयस्त्रिंशत्कोटिभिस् तु सुरासुरनमस्कृतम्
तत्र स्नातश् च राजेन्द्र हयमेधफलं लभेत् ।
सिद्धा सरस्वती तत्र तीर्थस्यास्य प्रभावतः
यः कश्चित् कुरुते श्राद्धं पितॄणां प्रीतिवर्द्धनम् ।
स याति परमं स्थानं पितृभिः सह मानवः
लिङ्गं सारस्वतं नाम ब्रह्महत्याव्यापोहनम् ।
आख्यानं कथयिष्यामि इतिहासं पुरातनम्
स्वायम्भुवे ऽन्तरे प्राप्ते आदिकल्पे कृते युगे ।
अयोध्याधिपतिः श्रीमाञ्छक्रतुल्यपराक्रमः
धुन्धुमार इति ख्यातः सत्यवादी जितेन्द्रियः ।
यज्ञयाजी दानशीलो देवतातिथिपूजकः
निरवद्याः प्रजास् तस्य भयदारिद्र्यवर्जिताः ।
सपादलक्षवर्षाणि प्रजा जीवन्ति भारत
यज्ञोत्सवविवाहैश् च वेदमङ्गलनिःस्वनैः ।
स्वयं कामदुघा धेनुः पृथिवी सस्यशालिनी
चतुर्वर्षसहस्राणि प्राकृता इतरे जनाः ।
कौशेयपट्टं वृक्षेषु बद्धं सर्वत्र भारत
यज्ञहोमसहस्रैस् तु सदा दोहमयीं नृप ।
एवं शशास पृथिवीं यथा शक्रस्त्रिविष्टपम्
एकस्मिन् समये राजा प्रतीहारम् उवाच ह ।
आदेशय नृपान् सर्वान् नानादेशसमुद्भवान्
प्रतीहारसमादिष्टाः समायातास् ततो नृपाः ।
मृगयां तु स तैः सर्वैः कर्तुं विन्ध्यं जगाम ह
वेदध्वनितनिर्घोषैर् द्विजानाम् अग्निहोत्रिणाम् ।
नादिता त्रिषु लोकेषु विख्याता सप्तकल्पगा
तत्रोपशोभितं रम्यं विचित्रं वनमण्डलम् ।
हत्वा जीवसहस्राणि क्षत्रियैः सह भारत
विवेश च वनं सर्वं ततः परमदारुणम् ।
भीमरूपं महाघोरं दुष्प्रेक्ष्यं च सुदुःसहम्
मेघनादेन गर्जन्तं सुतरां लोमहर्षणम् ।
वाराहं श्वेतवर्णं च दंष्ट्रायुगलभीषणम्
तं दृष्ट्वा तादृशं तत्र वाराहं नृपसत्तमः ।
उवाच क्षत्रियान् सर्वान् न दृष्टं न मया श्रुतम्
एतादृशं वराहस्य रूपं वै लोमहर्षणम् ।
इत्युक्त्वा पाशम् आदाय यावद्धन्तुं समुद्यतः
तावद् वायुवपुर् भूत्वा निर्यातः प्राणपीडितः ।
विवेश जलमध्ये च कोटितीर्थे नराधिप
पृष्ठतो ऽनुजगाम ऽथ स राजा हयवाहनः ।
प्रविष्टमात्रः पयसि वराहस् तु विशाम्पते
तत्क्षणाद् दिव्यदेहस् तु कामिकं यानमास्थितः ।
किमिदं प्राह तं राजा वाराहं देवरूपणम्
हृदि विस्मयमापन्नो सत्यम् एतच् च ब्रूहि मे ।
तस्य तद्वचनं श्रुत्वा वाराहो देवरूपधृक्
प्रहसन्न् अब्रवीद् वाक्यं शृणु राजन् महामते ।
अङ्गदं नाम तु गणं विद्धि मां शङ्करस्य तु
गणैश् च देवमुख्यैश् च उमया च महेश्वरः ।
क्रीडन् नास्ते कदाचित् तु तस्याग्रे नृपसत्तम
तत्र गीतं मया गीतं रम्यं दण्डकलक्षणम् ।
दृष्ट्वोर्वशीं तथा रम्भामभूवं काममोहितः
व्याहरं छूकरीं वाणीं विस्वरो विकृताननः ।
विह्वलेन मया तत्र ह्य् अप्सरोभिस् तु क्रीडितम्
तादृशं मां तुदृष्ट्वावैकामक्रीडावशगतम् ।
शशाप नन्दी कोपात्मा शुकरो ऽमेध्यभुग् भव
दशवर्षसहस्राणि भ्रमिष्यसि महीतले ।
ब्रह्मापि नैव शक्नोति शिवस्य तु प्रकीर्तितम्
त्वं तु गामटमानो ऽपि किङ्करस्यापि किङ्करः ।
कुपितं नन्दिनं ज्ञात्वा भयभीतान्तरात्मना
प्रसादितो मया नन्दी शापान्तं वरमादिशत् ।
दर्शनाद् धुन्धुमारस्यकोटितीर्थप्रभावतः
त्यक्त्वा तु शूकरीं योनिं पुनः प्रत्यागमिष्यसि ।
एतत् ते कथितं राजन्वाराहीं योनिमाश्रितः
यथा हि किल्विषात् मुक्तस् तीर्थस्यास्य प्रभावतः ।
ओंकारदर्शनाद् राजन् रेवातोयपरिष्कृतः
प्राप्तो गन्धर्वयोनिं तु दर्शनात् तव सुव्रत ।
विषादं त्यज राजेन्द्र गहना कर्मणां गतिः
धर्मे बुद्धिं समाधाय सर्वभूतहितो भव ।
जन्मतो मरणं राजन् मरणाज् जन्मसम्भवः
ज्ञात्वा शुभाशुभं कर्म त्वम् आत्मानं समुद्धर ।
स्वयम् एवार्जितं कर्म स्वयम् एवोपभुज्यते
स्वयं कर्ता च भोक्ता च शुभस्याप्य् अशुभस्य च ।
स्वस्ति वो ऽस्ति गमिष्यामि एवम् उक्त्वा जगाम ह
ध्रियमाणातपत्रस् तु वीज्यमानो ऽप्सरोगणैः ।
शिवध्यानपरो भूत्वा कैलासे न्यवसत् सुखम्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0