भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 4

4.1

इति श्रीस्कन्दपुराणे रेवाखण्डे रेवाद्वितीया ऽवतारकथनं नाम तृतीयो ऽध्यायः ॥
र्क्स् अध्याय 4
युधिष्ठिर उवाच:
हिरण्यतेजसा पूर्व राज्ञा वै नर्मदा कथं ।
मर्त्ये ऽवतारिता देवी तत् सर्वं वक्तुम् अर्हसि

4.2

मार्कण्डेय उवाच:
हिरण्यतेजा राजर्षिः सोमवंशे महीपते ।
सर्वधर्मभृतां श्रेष्ठः प्रजापतिसमो ऽभवत्

4.3

एकछत्रां शशासोर्वीं सशैलवनकाननाम् ।
ख्याता चन्द्रपुरी तस्य शक्रस्येवामरावती

4.4

निराबाधाः प्रजास् तत्र भयदारिद्र्यवर्जिताः ।
चिरायुषो नरास् तत्र समालक्षं तु जीविनः

4.5

स्वयं कामदुघा धेनुर् धरणी सस्यशालिनी ।
कौशेयपट्टवस्त्राश् च वृक्षे वृक्षे समुद्भवा

4.6

एतस्मिन्न् अन्तरे प्राप्ते ह्य् अमावास्यां रविग्रहे ।
सत्कारो ऽत्रास्ति देवानां पितॄणां च विशेषतः

4.7

वापीकूपसरो दिव्यं जम्बूद्वीपः प्रकीर्तितः ।
स्रवन्ती निम्नगा काचित् तस्मिन् द्वीपे न विद्यते

4.8

गवां शतसहस्राणि हेमरत्नं मणींस् तथा ।
कोशं हयान् असंख्यातान् मत्तांश् च वरदन्तिनः

4.9

ग्रस्ते च राहुणा सूर्ये ब्राह्मणान् प्रददौ नृपः ।
पुरो धर्मसहस्राणि हेमरत्नमणींस् तथा

4.10

अतर्पयत् पितॄंश् चापि हव्यकव्येन भारत ।
कश्मलं जलपानं चापश्यत् पितृजुगुप्सितम्

4.11

क्षुत्क्षामकण्ठताल्वोष्ठान् कश्मलांश्च मृदम्भसा ।
नग्नान् मलिनवस्त्रांश् च शतशो ऽथ सहस्रशः

4.12

हिरण्यतेजा राजर्षिः पश्यति स्म तदा पितॄन् ।
हिरण्यतेजा उवाच:
के यूयं विकृताकाराः प्रेतभूता बुभुक्षिताः

4.13

मज्जन्ते नरके घोरे रौरवे लोमहर्षणे ।
कथयध्वं यथान्यायं कर्म्मणा केन पाविताः

4.14

पितर ऊचुः:
शृणु राजन् महाभाग कथ्यमानं निबोध च ।
सरिद् धीनम् इदं द्वीपं धर्मकर्मविनाशितम्

4.15

न देवास्तृप्तिम् आयान्ति पितरो वा कथञ्चन ।
पितॄन् मोचयितुम् शक्ता दुराराध्या सुरैर् अपि

4.16

आगमिष्यति द्वीपे ऽस्मिन् रेवा मुक्तिर् भविष्यति ।
एतत् ते कथित राजन् यथेष्टं कर्तुम् अर्हसि

4.17

हिरण्यतेजा उवाच:
पितॄणां मोक्षणं कार्यं यथा यान्ति पराङ्गतिम् ।
मया राज्येन किं कार्यं जीवितश् च निरर्थकम्

4.18

एवम् उक्त्वा ययौ राजा ह्युदयं सिद्धिपर्वतम् ।
कन्दमूलफलाहारः शिवध्यानपरायणः

4.19

दिव्यं वर्षसहस्रं तु उग्रे तपसि संस्थित ।
राज्ञस् तु परमां भक्तिं ज्ञात्वा वै तत्र त्र्यम्बकः

4.20

वृषारूढस् त्रिनेत्रश् च देवदेवो महेश्वर ।
प्रत्यक्ष तस्य राज्ञश् च तद् आत्मानम् अदर्शयत्

4.21

स दृष्ट्वा तादृशं रूपं देवदेवस्य भारत ।
त्रिः प्रदक्षिणमावृत्य साष्टाङ्गं प्रणिपत्य च

4.22

स्तोत्रं चकार देवस्य शम्भोर् अमिततेजसः ।
नमस्ते ऽस्तु सुरेशान शूलपाणे नमो ऽस्तु ते

4.23

पृथिव्यापश् च तेजश् च वायुर् आकाशम् एव च ।
शब्दं स्पर्शश् च रूपश् च रसो गन्धश् च पञ्चमः

4.24

बुद्धिर् मनस् त्व् अहङ्कारः प्रकृतिश् च गणास्त्रयः ।
सर्वाक्षः सर्वगो देवसकलो निष्कलो ऽव्यय

4.25

जिह्वाचापल्यभावेन क्लेशितो ऽसि मया प्रभो ।
ब्रह्मविष्ण्वादि देवैश् च तवाद्यन्त न लभ्यते

4.26

कथं तु मानुषा पापाः स्तोतुं शक्ता उमाधवम् ।
हिरण्यतेजसः स्तोत्रं श्रुत्वा देवो जगत्पतिः

4.27

वरं वृणु महाभाग यत् ते मनसि रोचते ।
उवाच वचनं राजा शूलपाणिं महेश्वरम्

4.28

यदि तुष्टो ऽसि देवेश वरं दातुं ममेच्छसि ।
सप्तकल्पवहां देवीं नर्मदाम् अवतारय

4.29

पितॄणां मज्जतां घोरे नरके दारुणे भृशम् ।
मुच्यन्ते ते यथा प्रेतास् तृप्ता यान्ति पराङ्गातिम्

4.30

एवं वरम् अहं मन्ये त्वत् प्रसादाद् उमापते ।
ईश्वर उवाच:
अयाच्यं याचितं तात ब्रह्मविष्णुसुरासुरैः

4.31

नावतारयितुं शक्या तथान्यैर् अल्पजीविभिः ।
अन्यं याचस्व भद्रं ते वरं दास्ये ऽधुना तव

4.32

राजोवाच:
ततो राजा महाभागः प्रोवाच शशिभूषणम् ।
त्वयि तुष्टे महादेवे लोकनाथे जगद्गुरौ

4.33

साध्यासाध्यं न वक्तव्यं त्रिषु लोकेषु किंचन ।
जन्मान्तरसहस्रेण वर नान्य वृणोम्यहम्

4.34

त्यक्त्वा चैव सरिच्छ्रेष्ठां नर्मदां सप्तकल्पगाम् ।
दीयतां मम देवेश भृत्यभृत्यो ऽस्मि शाधि माम्

4.35

हिरण्यतेजसो ज्ञात्वा निश्चयं मानसं तदा ।
आहूता च ततो देवी नर्मदा लोकपावनी

4.36

मकरासनमारूढा दिव्याभरणभूषिता ।
श्यामवर्णा महातेजा शिवस्याग्रे व्यवस्थिता

4.37

उमामहेश्वरौ नत्वा पादग्रहणपूर्वकम् ।
उवाच वचनं देवीं किम् अर्थं देव संस्मृता

4.38

आदेशं देव मे देहि त्वद् आदेशे स्थिता ह्य् अहम् ।
ईश्वर उवाच:
हिरण्यतेजा नृपतिस् त्यक्त्वा राज्य च नर्मदे

4.39

चतुर्दशं तपस् तेपे घोररूपं सुदारुणम् ।
दिव्यं वर्षसहस्रं तु उग्रे तपसि संस्थितः

4.40

कन्दमूलफलाहारः शिवध्यानपरायणः ।
जम्बूद्वीपे ऽवतारं त्वं कुरुष्व धरणीतले

4.41

क्षिप्रं याहि वरारोहे संसारार्णवतारिणि ।
प्रेतरूपान् पितॄन् सर्वान् नरकस्थान् समुद्धर

4.42

मुच्यन्ते येन चाघौघाद् धूतपापा यथेप्सितम् ।
नर्मदोवाचा:
महेश्वरं शूलपाणिम् एवम् अस्त्विति चाब्रवीत्

4.43

निराधारा कथं देव जम्बूद्वीपे समाश्रये ।
आहूतास् ते ततस् तत्र पर्वताश् च कुलाकुलाः

4.44

क्षणमात्रं तु तिष्ठध्वं येन याति सरिद्वरा ।
ऊचुश् च पर्वतास्तं च अशक्ता धारणे वयम्

4.45

नर्मदोवाचा:
अशक्तान् धारणे चैनान् प्रपश्यामि जगत्पते ।
मम तोयौघपातेन कल्लोलप्रवणावृताः

4.46

शतधा भेदम् आयान्ति गिरयो वज्रदारिताः ।
तेषां मध्ये समुत्थाय प्राब्रवीद् उदयाचलः

4.47

शिवप्रसादसम्पन्नो ह्य् अहं धारयितुं क्षमः ।
ततः प्रचलिता देवी दत्त्वा पादं नगोपरि

4.48

गगनात् प्रच्युता देवी पपात धरणीतले ।
वायुवेगा पुनर् भूत्वा वारुणीं दिशम् आश्रिता

4.49

अकालपीडिते लोके जम्बूद्वीपे चराचरे ।
हाहाकारो महानासीत् त्रिषु लोकेषु भारत

4.50

श्रुत्वा च कल्कलाशब्दं भीषणं लोमहर्षणम् ।
पातालाद् उत्थितं लिङ्गं ज्वलितं दीप्ततेजसम्

4.51

हुङ्कारेणैव तद् भद्रे नर्मदाम् अब्रवीद् वच ।
सर्वपापहरे देवि मर्यादां वह सुव्रते

4.52

त्वद् धारणार्थम् ईशेन निसृष्टाः पर्वतास्त्रयः ।
विन्ध्यश् चतुर्थकस् तत्र श्रेष्ठः सर्वमहीभृताम्

4.53

मेरुश्च हिमवांस् तत्र कैलासश् च तृतीयकः ।
तदा भित्त्वा त्रिशूलेन कीलिता वसुधातले

4.54

द्वात्रिंशत् तु सहस्राणि प्रवाह पूर्वपश्चिमे ।
सहस्रार्द्धश् च विस्तारं दक्षिणोत्तरमानतः

4.55

नृत्यन्ति देवतास् सर्वाः शङ्खवादित्रनिस्वनैः ।
सिद्धा विद्याधरा यक्षा गन्धर्वा किन्नरा नराः

4.56

आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।
स्तुवन्ति परया भक्त्या नर्मदां सप्तकल्पगाम्

4.57

हिरण्यतेजा राजर्षिर् नर्मदां चेदम् अब्रवीत् ।
अनुग्रहः कृतो देवि पितॄणां तारणाय मे

4.58

उवाच कल्पगा राजंस् त्वत्तो ऽन्यः को नु वै भुवि ।
प्रभाव ईदृशो यस्य राज्ञश् चामिततेजसः

4.59

तपस्तप्त्वा महेशस्य ममार्थं त्वं यतो ऽनघ ।
मातृकाः पैतृका ये ये सान्तः पुरपरिग्रहाः

4.60

मम प्रभावात् नृपते उमामाहेश्वरं पुरम् ।
नमस्कृत्य सुरश्रेष्ठां पुत्रो ऽहं ते वरानने

4.61

स्नानं कृत्वा च विधिवत् पितॄन्देवांश् च तर्पयन् ।
श्राद्धं पिण्डप्रदानं च तत्र सर्वमकल्पयत्

4.62

नरकादुद्धृतास् सर्वे देवयानपथे स्थिताः ।
कृमिकीटपतङ्गाश् च पक्षिणश्चाण्डजाश् च ये

4.63

भूतग्रामः समग्रश् च रेजे विद्याधरे पुरे ।
एतत् ते कथितं राजन्न् आदिसर्गावकल्पनम्

4.64

कीर्तितानि मया रेवावताराणि विशाम्पते ।
आगता येन मार्गेण लोकानुग्रहकाम्यया

4.65

एषो ऽवतारः प्रथम आदिकल्पे कृते युगे ।
द्वितीयस् तु तथा स्कन्ददक्षसावर्णिके ऽन्तरे

4.66

तृतीयः पुरूरवसा तथा वैष्णवके ऽन्तरे ।
एतत् ते कथितं राजन् यथा दृष्टं पुरातनम्

4.67

स्नानावगाहनात् पानात् स्मरणात् कीर्तनाद् अपि ।
अनेकभाविकं घोरमघं नश्यति तत्क्षणात्

4.68

युधिष्ठिर उवाच:
कैलासो हिमवान् मेरुः केन कार्य्येण सुव्रत ।
नर्मदातीरम् आसाद्य निक्षिप्ताः पर्वतास्त्रयः

4.69

मार्कण्डेय उवाच:
उन्मार्गगामिनीं रेवां विन्ध्यो वै धर्तुम् अक्षमः ।
आपगा तोयपूरेण प्लावितं जगतीतलम्

4.70

कृत्वा व्रजन्तीं दृष्ट्वा वै शङ्करो लोकशङ्करः ।
भित्त्वा भूमि त्रिशूलेन कीलिताः पर्वतास्त्रयः

4.71

अत्रान्तरे च वैदूर्य्यगिरौ वै पर्यकल्पत ।
एतत् सर्वं समासेन शंसितं च मयानघ

4.72

कथयिष्ये तथैवान्यद् यद् यद् इच्छसि भारत

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc