भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 48

48.1

इति श्रीस्कन्दपुराणे रेवाखण्डे ओंकारमहिमानुवर्णनो नाम सप्तचत्वारिंशो ऽध्यायः ॥
र्क्स् अध्याय 48
मार्कण्डेय उवाच:
ब्रह्मणे कथितो मन्त्र ओंकारेण ततो ऽनघ ।
ब्रह्मापि तद्वचः श्रुत्वा स्तोत्रमेतद् उदाहरत्

48.2

ओं व्योमसंख्यायिते व्योमहराय सर्वव्यापिने ।
अनन्ताय अनाथाय अमृताय ध्रुवाय च

48.3

शम्भवाय शाश्वताय योगपीठसंस्थिताय ।
नित्यं योगयोगिने व्योमहराय

48.4

ओं नमः शिवाय सर्वप्रभवाय शिवाय ईशानाय

48.5

मूर्धाय तत्पुरुषाय वक्त्राय अघोराय हृदयाय वासुदेवाय गुह्याय सद्योजाताय मूर्तये ओंकाराय नमो नमः

48.7

कलातीतो ऽव्ययो बुद्धो वज्रदेहोपमर्दनः ॥ र्क्स्_48.6
अध्यक्षश् च विधुः शास्ता पिनाकी त्रिदशाधिपः ।
अग्नी रुद्रो हुताशश् च पिङ्गलः पावनो हर

48.8

ज्वलनो दहनो वस्तुर् भस्मान्तश् च क्षमान्तकः ।
अपमृत्युहरो धाता विधाता कर्तृसंज्ञकः

48.9

कालो धर्मपतिः शास्ता वियोक्ता नवमः प्रियः ।
निर्मित्तो वारुणो हन्ता क्रूरदृष्टिर् भयावहः

48.10

ऊर्ध्वदृष्टिर् विरूपाक्षो दंष्ट्रावान् धूम्रलोचनः ।
वालो ह्यतिबलश्चैव पाशहस्तो महाबलः

48.11

श्वेतो विरूपो रुद्रश् च दीर्घबाहुर्जडान्तकः ।
शीघ्रो लघुर्वायुवेगो भीमश् च वडवामुखः

48.12

पञ्चशीर्षा कपर्दी च सूक्ष्मस्तीक्ष्णः क्षपान्तकः ।
निधीशो रौद्रवान् धन्वी सौम्यदेहः प्रमर्दनः

48.13

अनन्तपालको धारः पातालेशो वृषध्वजः ।
सधूम्रः शाश्वतः शर्वः सर्वपिङ्गः करालवान्

48.14

विष्णुर् ईशो महात्मा च सुखो मृत्युविवार्जितः ।
शम्भुर् विभुर् गणाध्यक्षस् त्र्यक्षश्चैव दिवस्पतिः

48.15

संवादश् च विवादश् च प्रभविष्णुर् विवर्धनः ।
शतमेकोत्तरं यावद् रुद्राणां संख्यया स्मृतम्

48.16

शतमेकोत्तरं सर्वम् ओंकारे च प्रतिष्ठितम् ।
स्तोत्रं कृत्वा तथा ब्रह्मा देवदेवं महेश्वरम्

48.17

भूमौ प्रणम्य साष्टाङ्गं कृत्वा चैव प्रदक्षिणम् ।
मनसा संस्मरन् देवं तस्थौ लोकपितामहः

48.18

स्तोत्रं श्रुत्वा भगवतो ब्रह्मणो लोमहर्षणम् ।
देवदेवो ऽब्रवीद् वाक्यं ब्रह्माणं प्रति भारत

48.19

स्तोत्रेणानेन दिव्येन तुष्टो ऽहं ते वरं वृणु ।
ददामि ते न सन्देहो दुष्प्राप्यं त्रिदशैर् अपि

48.20

ब्रह्मोवाच:
यदि तुष्टो ऽसि देवेश यदि देयो वरो मम ।
पञ्चवक्त्रेषु यजनं ब्रह्म नाम भवत्व् इह

48.21

हर उवाच:
एवम् भवतु वै ब्रह्मन् सत्यम् एतत् तवोदितम् ।
ब्रह्मणो धर्मपूजा वै तदा प्रभृति भारत

48.22

ब्रह्मोवाच:
पठिष्यन्ति स्तवं रौद्रम् ओंकारस्य तवाग्रतः ।
ब्राह्मणाः क्षत्रिया वैश्याः सदा तद्गतमानसाः

48.23

सर्वकामम् अवाप्स्यन्ति चेह लोके परत्र च ।
यं यं कामयते कामं तं तं प्राप्नोति मानवः

48.24

शतमेकोत्तरं नित्यं पठित्वा च दिवं व्रजेत् ।
एवम् उक्त्वा तदा ब्रह्मा नमस्कृत्य महेश्वरम्

48.25

दिव्ययानसमारूढो ब्रह्मलोकं मुदा ययौ ।
चतुर्युगसहस्रेण ब्रह्मणो ऽहः प्रकीर्तितम्

48.26

अनेनैव तु मानेन शतं ब्रह्मा हि जीवति ।
पितामहशतं यावद् विष्णोर् मानं विधीयते

48.27

ओंकारनिमिषार्धेन सहस्राणि चतुर्दश ।
विनश्यन्ति परं विष्णोरसंख्याताः पितामहाः

48.28

एवं ब्रह्मगतिं ज्ञात्वा शिवम् अन्तः सदार्चयेत् ।
शिवाज्ञा वर्तते लिङ्गे तस्माल् लिङ्गं सदार्चयेत्

48.29

द्वेष्टि लिङ्गं तु यो मोहात् सर्वदेवनमस्कृतम् ।
स याति नरकं घोरं शिवस्य वचनं यथा

48.30

बौद्धक्षपणपाखण्डा मिथ्यातत्त्वविचक्षणाः ।
नष्टास् तु नाशिता ये वै शिवाराधनवार्जिताः

48.31

जन्मजन्मान्तराभ्यासात् ते प्रयान्ति रसातलम् ।
पुराणेषु तथा युद्ध्वा शिवोक्तं धर्मम् आचरेत्

48.32

सदुष्टः पापबुद्धिस् तु यो ऽन्यं धर्मं समाचरेत् ।
एतत् ते कथितं राजन् पुराणं स्कन्दकीर्तितम्

48.33

श्रवणात् कीर्तनाद् अस्य शिवलोके महीयते

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc