भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 47

47.1

इति श्रीस्कन्दपुराणे रेवाखण्डे भृगुपर्वतमहिमा ऽनुवर्णनो नाम षट्चत्वारिंशो ऽध्यायः ॥
र्क्स् अध्याय 47
युधिष्ठिर उवाच:
ओंकारकीर्तनं विप्रदानं यज्ञस् तपस् तथा ।
सम्भवं पञ्चवक्त्राणां लिङ्गानां संभवं तथा

47.2

युगसंख्यां कलां चैव चरितं च महामुने ।
कथयस्व प्रसादेन यथोद्दिष्टं तु शंभुना

47.3

मार्कण्डेय उवाच:
श्रूयतां राजराजेन्द्र पुराणं स्कन्दकीर्तितम् ।
द्वात्रिंशतिसहस्राणि लक्षाण्यष्टादशैव च

47.4

एषा कृतयुगे संख्या सन्ध्यासन्ध्यांशमानतः ।
लक्ष्याण्य् अष्टौ तथा चाष्टौ सहस्राणि युधिष्ठिर

47.5

द्वापरे भानम् इच्छन्ति सन्ध्यासन्ध्यांशमानत ।
सहस्राणि च चत्वारि तथा लक्षचतुष्टयम्

47.6

मानं कलियुगस्यैतत् सन्ध्यासन्ध्यांशमानतः ।
अल्पक्षीरप्रदा गावो ह्य् अल्पसस्या च मेदिनी

47.7

अल्पोदकास् तथा मेघाः स्वल्पविद्यास् तथा द्विजाः ।
पूर्णे तु षोडशे वर्षे नराः पलितयौवनाः

47.8

दशमे द्वादशे वर्षे नारी गर्भधरा भवेत् ।
शूद्रा धर्मपरा नित्यं कलौ काले दिगम्बराः

47.9

एकवर्णाः प्रजाः सर्वा राजा म्लेच्छो भविष्यति ।
कलौ युगे तथा प्राप्ते कलिरूपे च माधवे

47.10

नाग्निहोत्रं न वेदाश् च न धर्मो न च याजनम् ।
न सत्यं न तपो दानं न सत्त्वं न च देवताः

47.11

वेदविक्रयिणो विप्रा अन्त्यजानां गृहे गृहे ।
वेदादेशं करिष्यन्ति वेदविप्लवकारकाः

47.12

कन्याविक्रयिणः पापास् तथा कन्योपजीविनः ।
सहस्रांशो न धर्मस्य कला चैका प्रवर्तिता

47.13

यत्र सिद्धस् तत्र तीर्थं जले स्नास्यन्ति मानवाः ।
शूद्रा पत्नी द्विजानां तु भविष्यति गृहे गृहे

47.14

अधरोत्तरभावेन भविष्यन्ति कलौ नराः ।
बौद्धाः क्षपणकाः पापा नग्ना मलिनकश्मलाः

47.15

विडम्बयन्ति बालानां मोहिताः पापकर्मणाम् ।
न गुरुं मन्यते शिष्यः पुत्रश् च पितरं तथा

47.16

स्ववंशद्रव्यहर्तारः प्रव्रज्यावेषधारिणः ।
लिङ्गोपजीविनः पापास् तथा भस्मोपजीविनः

47.17

वैवस्वते ऽन्तरे प्राप्ते कलौ सर्वं भविष्यति ।
एतत् ते कथितं राजन् कलौ यद्यद् भविष्यति

47.18

ओंकारस्यैव चोत्पत्तिं विधानं विधिपूर्वकम् ।
कथयामि समासेन यत् पृष्टो ऽहं त्वया ऽनघ

47.19

कीर्तनाद् अस्य देवस्य मुच्यते भवबन्धनात् ।
ओं मित्येकाक्षर राजन् व्याहरन् समनुस्मरन्

47.20

यः प्रयाति त्यजन् देहं स याति परमां गतिम् ।
वेदमाता च गायत्री ओंकारप्रभवा तथा

47.21

ओंमित्येकाक्षरे तत्त्वे ब्रह्मविष्णुमहेश्वराः ।
ओंकारो वेदमूलं तु श्रुतिशाखः प्रतिष्ठितः

47.22

फलं चैव तु पुष्पं च पर्णानि स्मृतिर् आगमः ।
यथादौ सर्वविद्यानाम् ओंकारः परिपठ्यते

47.23

तथादौ सर्वदेवानाम् आदिदेवो महेश्वरः ।
सन्ध्यात्रयं त्रिकालादि ओंकारे परिकीर्तितम्

47.24

अग्नित्रयं त्रयो लोकास् त्रिवर्गश् च प्रतिष्ठितः ।
अष्टषष्टिं च तीर्थानां ब्रह्मणे शिवकीर्तितम्

47.25

एकेन च शतं पूर्णं रुद्राणां परिकीर्तितम् ।
केदारे शतमेकं ओंकारैकोत्तरं शतम्

47.26

पञ्चब्रह्म पञ्चवक्त्रम् ओंकारं लिङ्गमुत्तमम् ।
पृथिव्यां यानि लिङ्गानि आसमुद्रान्तगोचरे

47.27

न तेषां पञ्चवक्त्राणि त्यक्त्वोंकारं युधिष्ठिर ।
स्वायम्भुवे ऽन्तरे प्राप्ते आदिकल्पे कृते युगे

47.28

दानवैर् निर्जिता देवा नर्मदातीरमाश्रिताः ।
अवद्रुताः कङ्कोलैस् तु कालिकेयैश् च कालकैः

47.29

ते देवा ब्रह्मसहिता ईश्वरं शरणं गताः ।
बृहस्पतिस् ततः प्राह ब्रह्माणं प्रति भारत

47.30

इष्टिं कुरु महारौद्रीं दानवानां क्षयंकरीम् ।
उवाच वचनं ब्रह्मा तदा तं देवमन्त्रिणम्

47.31

ममैव विस्मृता मन्त्रा दानवानां भयेन च ।
एतस्मिन्न् अन्तरे भित्त्वा पातालानि च सप्त च

47.32

ओंकारपूर्वकं राजन् भूर्भुवःस्वश् च कीर्तयन् ।
पर्वताद् उत्थितं लिङ्गं ज्वलत्कालानलप्रभम्

47.33

सूर्यकोटिसमप्रख्यं ज्वालामालासमाश्रितम् ।
आदिमध्यान्तहीनं च न दृष्टं परमं क्वचित्

47.34

चतुर्वर्गैश् चतुर्वेदैर् वेदाङ्गनिगमैः स्वयम् ।
उवाच वचनं शम्भुर्ब्रह्माणं लोकभावनम्

47.35

सौम्यां चैव तु भो ब्रह्मंल् लोकानां शान्तिकारिणीम् ।
मया समार्पिता वेदा इष्टिं कुरु यथेप्सया

47.36

ततो ब्रह्मा चकारेष्टिं रौद्रीं दैत्यक्षयंकरीम् ।
इष्टिं चैव तत सौम्यां लोकानां शान्तिकारिणीम्

47.37

ततो ऽसुरा महाराज दृष्ट्वा चेष्टिं भयंकरीम् ।
ब्रह्मशापभयोद्विग्ना गतास् ते तु दिशो दश

47.38

ओंकारस्य प्रभावेण सर्वे देवास् तु निर्भयाः ।
ततो ऽभ्यर्च्य सुरेशानं देवास् ते त्रिदिवं ययुः

47.39

कल्पान्तगं महालिङ्गं सुरासुरनमस्कृतम् ।
कामदं मोक्षदं चैव ओंकारं विद्धि पार्थिव

47.40

तस्मिंल् लिङ्गे तु लीयन्ते कल्पान्ते सर्वदेवताः ।
अमरं ब्रह्म वेत्याहुर् हरिं सिद्धेश्वरं तथा

47.41

पिङ्गलेश्वरम् आदित्यं सोमं पित्रीश्वरं तथा ।
यत्र सिद्धास् त्रयो वेदाः सषडङ्गपदक्रमाः

47.42

तेन सिद्धेश्वरं विद्धि सर्वसिद्धिप्रदायकम् ।
कथितं पर्वतस्याग्रे लिङ्गकोटिसमन्वितम्

47.43

अर्चनात् तस्य लिङ्गस्य विष्णुलोके महीयते ।
कल्पे कल्पे महाराज क्षीयन्ते सर्वदेवताः

47.44

मुक्त्वा तु पञ्चलिङ्गानि मार्कण्डं नार्मदं नृप ।
अविमुक्तं च केदारम् ओंकारम् अमरेश्वरम्

47.45

तथैव च महाकालम् एवं लिङ्गं तु भारत ।
पुण्यानि पञ्चलिङ्गानि प्रातर् उत्थाय यः पठेत्

47.46

सर्वतीर्थफलं प्राप्य शिवलोके महीयते ।
एका काली महाकाले वसेद् वै व्यापिनी सदा

47.47

सपादकोटिस्तीर्थानां महाकाले वसेत् नृप ।
शिवलोकेन कावेरी शिवक्षेत्रे स्थिता नृप

47.48

चतुः क्रोशाभ्यन्तरतो ब्रह्महत्या न सर्पति ।
आग्नेयं सिद्धलिङ्गं च तस्यास् तीरे समाश्रितम्

47.49

शिवख्यातम् इति ख्यातं तीर्थे तु कुरुनन्दन ।
स्नातमात्रो नरस् तत्र स भवे न पुनर्भवेत्

47.50

कीटपक्षिपतङ्गादि तिर्यग् योनिगता नराः ।
मुच्यन्ते तत्र पापेन शिवस्य वचनं यथा

47.51

तत्र यः कुरुते श्राद्धं पितॄणां च तिलोदकम् ।
युगकोटिसहस्रं तु पितरस् ते न तर्पिताः

47.52

सर्वेषाम् एव लिङ्गानां दिव्यं वा ऽत्र प्रकीर्तितम् ।
तत्र स्नातो दिवं याति न विशेद् योनिसङ्कटे

47.53

कोटियज्ञफलं प्राप्य शिवलोके महीयते ।
अष्टकोटिस् तु तीर्थानां केदारे कथिता नृप

47.54

दर्शनाद् अर्चनात् तस्य स्पर्शात् मोक्षफलं नृणाम् ।
केदारस्योदके पीते पुनर्जन्म न विद्यते

47.55

अहोरात्रोषितो भूत्वा पयः पानं करोति यः ।
तस्योदरे भवेल् लिङ्गं षण्मासाद् ब्रह्मचारिणः

47.56

केदारदर्शनाद् एव शिवलोके महीयते ।
वाराणसी महापुण्या त्रिषु लोकेषु विश्रुता

47.57

अन्तरिक्षे पुरी सा तु मृत्युलोकस्य बाह्यतः ।
पञ्चक्रोशान्तरे यावद् ब्रह्महत्या न सर्पति

47.58

अष्टाविंशतिकोट्यस् तु लिङ्गानां तत्र भारत ।
गङ्गावरुणयोर् मध्ये स्नानं कृत्वा यथोदितम्

47.59

सर्वपापविनिर्मुक्तो देववन् मोदते दिवि ।
तत्र यस् त्यजति प्राणान् छिवं ध्यात्वा तु मानवः

47.60

सहस्रकुलमुद्धृत्य शिवलोकं स गच्छति ।
तत्र यद् दीयते दानं तस्य संख्या न विद्यते

47.61

तिलोदकप्रदानेन पितृणां प्रीतिरक्षया ।
तत्र यस् त्यजति प्राणान् अवशः स्ववशो ऽपि वा

47.62

त्रिनेत्रः शूलपाणिस् तु शिवस्यानुचरो भवेत् ।
अविमुक्तस्य लिङ्गस्य स्पर्शनात् मुक्तिर् आप्यते

47.63

कलात्रयं तु तत्रास्ते काशीपुर्यां न संशयः ।
गङ्गासागरसंभेदे चतस्रस्तु कलाः स्मृताः

47.64

गङ्गासहस्रवक्त्रेण प्रविष्टा यत्र सागरम् ।
स्नानावगाहनात् पानात् पिण्डदानाच् च तर्पणात्

47.65

गच्छेच् छिवपुरं तत्र पितृभिः सह मानवः ।
अपरं कालरुद्रं तु सप्तपातालवासिनम्

47.66

हाटकं विद्धि तं देवं न तु पश्यन्ति मानवाः ।
पूज्यते सुरदैत्यैश् च सुरसिद्धनिषेवितम्

47.67

गङ्गेश्वरद्वितीयं तु तृतीयं सागरेश्वरम् ।
चतुर्थं शूलपाणिं तु चतस्रश् च कला इति

47.68

कलापञ्चात्मकं रुद्रम् आसमुद्रान्तगोचरे ।
वर्जयित्वा महेशानम् ओंकारं कामरूपिणम्

47.69

पञ्चब्रह्मपञ्चवक्त्रं नवशक्तिसमन्वितम् ।
ओंकारं कल्पगातीरे शिवेन कथितं पुरा

47.70

तेन पुण्यात्मके लोके लोकत्रितयपूजितम् ।
शङ्खकुन्देन्दुसंकाशं सद्योवक्त्रं तु पश्चिमम्

47.71

ऋग्वेदो निर्गतो यस्माद् ब्रह्मा तत्राधिदेवता ।
उत्तरं वामदेवं तु पीताभं सुमनोहरम्

47.72

यजुर्वेदोद्भवं विद्धि विष्णुस् तत्राधिदेवता ।
अघोर मेघवर्णाभं याम्यां च दिशि चास्थितम्

47.73

सामवेदोद्भवं विद्धि सूर्यकालाग्निदैवतम् ।
पूर्वे तत्पुरुषं ज्ञेयं कुङ्कुमारुणसन्निभम्

47.74

अथर्वं निर्गतं तुर्यम् आपस् तत्राधिदेवताः ।
ईशानस्तव वक्त्रं तु पञ्चवर्णं महातनुम्

47.75

श्रुतिसिद्धान्तसङ्गीतं सोमं तत्राधिदेवता ।
षष्ठं सदाशिवं नाम निर्भागं च निरामयम्

47.76

निर्लक्षं लक्षहीनं तु ज्ञात्वा मोक्षे न संशयः ।
एतत् ते कथितं राजन्न् ओंकारस्य तु वर्णनम्

47.77

सहस्रास् यस्य नो शक्तिर् एकवक्त्रस्य का कथा ।
स्नापयित्वोदकेनैव बिल्वपत्रेण पूजयेत्

47.78

चतुर्वर्षसहस्राणि रुद्रलोके महीयते ।
ओंकारदक्षिणामूर्तौ प्राणत्याग करोति यः

47.79

वर्षकोटिसहस्राणि वसेत् माहेश्वरे पुरे ।
प्रासादं च मठं चापि सुधयेष्टकसंयुतम्

47.80

चित्रमालेख्यमूले च पताकाध्वजशोभितम् ।
वितानां किङ्किणीयुक्तं नेत्रं वंशोद्भवं शुभम्

47.81

पञ्चवर्णकशोभाढ्यम् ओंकारस्य तु कारयेत् ।
पञ्चामृतैः स्नापयित्वा चन्दनागुरुकुंकमैः

47.82

समावेष्ट्य परीधानैर् नानावस्त्रैः सुशोभनैः ।
हेममौक्तिकरत्नैश् च सघृतं गुग्गुलुं दहेत्

47.83

घण्टां च दीपकं चैव विधूमारार्तिकं च यत् ।
मृदङ्गान् पटहांश् चैव वेणुं वीणां च गीतकम्

47.84

काहली शङ्खवाद्यानि कांस्यतालाद्यम् एव च ।
व्यजनं गेडुकं छत्रं चामरं ध्वजदण्डकम्

47.85

हेम चान्नधरादीनि गृहांश् च ग्रामपत्तनम् ।
यद्वा तद्वा नृपश्रेष्ठ ओंकाराय निवेदयेत्

47.86

तस्य दानफलस्येह संख्या कर्तुं न शक्यते ।
सिद्धेश्वरौंकारयोस् तु चन्द्रसूर्यग्रहग्रहे

47.87

ध्वजमालाकुलं कुर्यात् तस्य पुण्यफलं शृणु ।
यावती तं तु संख्या ऽस्ति वायुनोद्धूयते पुनः

47.88

तावद् युगसहस्राणि शिवलोके वसेन् नृप ।
युगकोटिसहस्राणि युगकोटिशतानि च

47.89

सर्वकामसमृद्धात्मा ब्रह्मविष्णुशिवालये ।
एतत् ते कथितं राजन् ओंकारोत्पत्तिलक्षणम्

47.90

ब्रह्मणा तु कृतं तस्य स्तोत्रं त्वं शृणु साम्प्रतम्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc