स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 46
इति श्रीस्कन्दपुराणे रेवाखण्डे शल्याविशल्यामाहात्म्यानुवर्णनो नाम पञ्चचत्वारिंशो ऽध्यायः ॥
र्क्स् अध्याय 46
भृगुं पतन्ति ये शूराः कां गतिं प्राप्नुवन्ति ते ।
श्रोतुमिच्छाम्यहं त्वे तत् कथयस्व महामुने
मार्कण्डेय उवाच:
अनाशकेन भो राजन् भृगुगोग्रहसङ्गरैः ।
प्राणांस् त्यजन्ति ये शूरा गतिं तेषां निबोध मे
पृथक् पृथङ् निवासांश्च तेषां कर्म्माणि भारत ।
चतुर्विंशतिकोट्यस् तु सप्तविंशतिर् एव च
उमया तु पुरा ज्ञप्ता मध्यमोत्तमकन्यकाः ।
अनेन विधिना ये तु प्राणांस् त्यक्ष्यन्ति मानवाः
तांश्च भुङ्ग्ध्वं मया दत्ता युष्माकं सुप्रसादतः ।
अमरेशे प्रमृताश्च भ्रंशितुं ये पतन्ति ते
भृगून् दृष्ट्वा नृपश्रेष्ठ मुच्यन्ते ब्रह्महत्यया ।
चतुरशीतिभृगवो जम्बूद्वीपे प्रकीर्तिताः
तथा ऽन्ये सप्तनिर्दिष्टाः स्वर्गसोपानम् उत्तमम् ।
भैरवस् तु भृगुश्रेष्ठो ज्ञेयस्त्व् अमरकण्टके
शूद्राश्च क्षत्रिया वैश्या अन्त्यजाश्चाधमास्तथा ।
एते त्यजन्ति प्राणान् वै वर्जयित्वा द्विजं नृप
पतितो ब्राह्मणस् तत्र ब्रह्महा चात्महा भवेत्
द्वाविंशतिसहस्राणि राहुसोमसमागमे ।
वर्षाणां जायते राजन् राजा वैद्याधरे पुरे
ग्रस्ते तु राहुणा सूर्ये द्विगुणं फलमश्नुते ।
अवशः स्ववशो वा ऽपि जलपूरानलाहतः
म्रियते यो भृगुं प्राप्य स विद्याधरराड् भवेत् ।
भृगुर् भैरवरूपेण विन्ध्यकैलाससन्निभः
गर्हयन्ति भृगुं ये तु ते लिङ्गब्रह्मभेदिनः ।
भैरवः क्षमते तेषां नेति स्कन्देन कीर्तितम्
मन्यासाच्च च्युतो विप्रो मातृहा पितृहा तथा ।
स्वसृगः स्वस्नुषागश्च तथा स्वज्ञातिगस्तथा
एतेषां पतनं शस्तं करीषाग्नौ प्रसाधनम् ।
मुच्यते तेन पापेन शिवलोकं सगच्छति
हरिश्चन्द्रपुरे चन्द्रे श्रीशैले त्रिपुरान्तिके ।
त्रैयम्बके धौतपापे वाराहे विन्ध्यपर्वते
कावेर्यास् तु तथा कुण्डे पतनात् स्वर्गम् आप्नुयात् ।
भृगोर् दक्षिणभागे तु लिङ्गं वै चपलेश्वरम्
क्षेत्रसंरक्षणायेह विख्यातं पापनाशनम् ।
धनुः षष्ट्यां ततः क्षेत्रं विज्ञेयं चापलेश्वरम्
आरोहति गिरिं यस् तु तम् अदृष्ट्वा तु मानवः ।
तस्य पुण्यफलं सर्वं स गृह्णाति न संशयः
आलेख्य च पटे सूर्यं पताकादण्डमण्डितम् ।
वलयं च करे कृत्वा वीज्यमानस् तु चामरैः
वीरस् तु पतितुं गच्छेद् आरोहेद् भृगुपर्वतम् ।
पदे पदे यज्ञफलं तस्य स्याच्छङ्करो ऽब्रवीत्
प्रतीक्षन्ते सर्वकाले ऽप्सरसः काममोहिताः ।
दिव्यं यानं समारूढा दिव्या भरणभूषिताः
वीरस् तु पतितस् तत्र स्वं च त्यक्त्वा कलेवरम् ।
तत्क्षणाद् दिव्यदेहस् तु शक्रतुल्यपराक्रमः
कामदं यानम् आरुह्य विवादेन परस्परम् ।
गच्छेच्छिवपुरं सार्द्धम् अप्सरोभिः समन्वितः
क्लीबस्य सत्त्वहीनस्य उत्तीर्णस्य भृगोः पुनः ।
पदे पदे ब्रह्महत्या भवेत् तस्य न सशयः
न चिरायुर् भवेत् मर्त्यः कस्मात् मृत्योर् बिभेत्यसौ ।
न को ऽपि रक्षितुं शक्तः कालमृत्युवशं गतम्
स पापिष्ठो दुराचारश्चाण्डालो लोकगर्हितः ।
सन्यासादिकम् आरुह्य च्यवते यस् तु मानवः
सन्यासात् प्रच्युतं विप्रं दृष्ट्वा स्नानार्कवीक्षणम् ।
कुर्यात् सर्वप्रयतेन स्पर्शाच्चान्द्रायणं स्मृतम्
ऋतान् ऋतं न वक्तव्यं तेन सार्द्धं कदाचन ।
स्थातव्यं चैव मौनेन नो चेत् पापम् अवाप्नुयात्
निश्चिते मरणे प्राप्ते कथं मृत्युर् उपेक्षते ।
जरामृत्युश्च रोगाश्च संसारोदधि सम्प्लवे
एवं ज्ञात्वा नृपश्रेष्ठ ह्यारोहेद् भृगुपर्वतम् ।
एतत् ते कथितं राजन् भृगोर् माहात्म्यमुत्तमम्
न ब्रूयाद् दुष्टबुद्धीनां कलौ पाखण्डकर्म्मणाम् ।
दिगम्बरश्वेतपटबौद्धादीनां विशेषतः
असंभाष्या दुराचाराः पुराणस्मृतिनिन्दकाः ।
न तैः सह प्रकर्तव्यः संवादो हि कदाचन
प्रत्येकं सर्वदेवानां स्वयम् आह वृषध्वजः ।
न मन्यन्ते तु ये मूढास् तीर्थराजं मयोदितम्
प्रयान्ति नरकं घोरं भृगोर् ये ऽवतरन्ति ते
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0