स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 45
इति श्रीस्कन्दपुराणे रेवाखण्डे दुर्वासश्चरित्रे एरण्डीतीर्थवर्णनो नाम चतुश्चत्वारिंशो ऽध्यायः
र्क्स् अध्याय 45
मार्कण्डेय उवाच:
ततो गच्छेत् महाभाग रेवाशल्याविशल्ययोः ।
तत्र स्नात्वा दिवं याति फलं यज्ञेश्वराज्ञया
तत्र यज्ञेश्वरां लिङ्गं धूपेश्वरमनुत्तमम् ।
सिद्धिदं मोक्षदं विद्धि न ते पश्यन्ति मानवाः
तिलोदकप्रदानेन चान्नदानेन भारत ।
पितरस्तृप्तिम् आयान्ति यावच् चन्द्रार्कतारकम्
पौर्णमास्यां तु सोमे वै व्यतीपाते च संक्रमे ।
दानं यत् क्रियते तत्र तस्य पुण्यफलं शृणु
भरतेन कृतस् तत्र हयमेधः पुरा यथा ।
तत् ते ऽहं कथयिष्यामि शृणु कौन्तेय साम्प्रतम्
भरतो नाम राजासीत् सूर्यवंशे विशाम्पते ।
प्रशशास महाराज कृत्स्नं वै स महीतलम्
यावत् तृणं विजानीया यावत्कीर्तिश् च भास्करः ।
तावद् वै भरतक्षेत्रं सशैलवनकाननम्
एकदा स नृपश्रेष्ठो यज्ञकर्मपरायणः ।
भृगोर् दक्षिणभागे तु कुण्डमण्डपमण्डिताम्
दशयोजनविस्तीर्णां यज्ञभूमिं चकार ह ।
गवां हि दशलक्षाणि सवत्सानां पयोमुचाम्
लक्षम् एकं हयानां च दन्तिनाम् अयुतं तथा ।
मणिमाणिक्यरत्नानि वासांसि विविधानि च
यज्ञोपस्करम् आदाय सर्वसंभारसंवृतः ।
वेदध्वनिनिनादेन दिवं भूमिं च संस्पृशन्
होमेन देवतास् तृप्ताः सप्तलोकनिवासिनः ।
एवं प्रवर्तिते यज्ञे राज्ञश् चामिततेजसः
यज्ञविध्वंसनार्थं तु राक्षसा रौद्ररूपिणः ।
माल्यवांश् च सुमाली च सुकेशी शङ्खदूषणौ
राक्षसाना सहस्राणि समायातास्तु सत्वरम् ।
भग्नानि यज्ञवस्तूनि त्रिषु लोकेषु दारुणैः
प्रणष्टा देवताः सर्वा ऋत्विजश् च निपातिताः ।
एवं विनाशिते यज्ञे रक्षोभिश् च ततो ऽनघ
कोपाज् जज्वाल राजापि हुताशन इवाहुतः ।
जघान राक्षसान् सर्वान् गिरीन् वज्रधरो यथा
प्रणष्टान् भयमीतांश् च पतितान् धरणीतले ।
राक्षसैर् निहतान् दृष्ट्वा ब्राह्मणान् ऋत्विजस् तथा
शोकाविष्टस् ततः प्राह भरतो देवमन्त्रिणम् ।
गुरुस् त्वं सर्वदेवानां त्रिकालज्ञस् त्रिवेदवित्
ब्रह्महत्यादिकं पापं ममार्थे देवकण्टकैः ।
प्रायश्चित्तं मया कार्यं किं त्वं ब्रूहि बृहस्पते
बृहस्पतिर् उवाच:
विद्यां संजीवनीं ते ऽहं ददामि नृपसत्तम ।
जीविता ब्राह्मणा देवाः शशंसुर् देवमन्त्रिणम्
ततो निवर्तितो यज्ञः समग्रवरदक्षिणः ।
यूपमूलसमुद्भूता शल्या चैव विशल्यका
प्रविवेश महाराज नर्मदां लोकपावनीम् ।
ततो देवाः समारुह्य स्वं स्वं यानं दिवं ययुः
भरतो ऽपि द्विजैः सार्द्धं प्रविवेश पुरीं ततः ।
तेन शल्या विशल्या च विख्याता भुवनत्रये
भरतेश्वरलिङ्गं च ब्रह्मयोन्यां समास्थितम् ।
एतत् ते कथितं राजन्यथादृष्टं यथाश्रुतम्
श्रवणात् कीर्तनाद् अस्य न विशेद् योनिसङ्कटे
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0