स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 44
इति श्रीस्कन्दपुराणे रेवाखण्डे एरण्डीसङ्गममहिमानुवर्णनो नाम त्रिचत्वारिंशो ऽध्यायः ॥
र्क्स् अध्याय 44
युधिष्ठिरौवाच:
सुकन्यार्थे मुनिः शप्तश् चन्द्रवत्या महामुने ।
वल्मीकाच् च कथं मुक्तश् च्यवनः काममोहितः
परलोकं कथं प्राप्तो ब्राह्मणो ब्रह्मवित्तमः ।
कथयस्व महाबाहो परं कौतूहलं हि मे
मार्कण्डेय उवाच:
शृणु त्वं राजशार्दूल कथ्यमानं निबोध मे ।
निमिः पुत्रं च राज्ये वै सूर्यसेनं निवेश्य च
आदिदेशाथ मतिमाञ् ज्येष्ठा वै भगिनी तथा ।
च्यवनाय प्रदातव्या ब्राह्मणाय न संशयः
एरण्ड्याः सङ्गमे चेष्ट्वा हयमेधं मखोत्तमम् ।
सर्वयज्ञकृतं पुण्यं ब्राह्मणाय प्रदास्यसि
उक्त्वैवं सूर्यसेनं तु स गतः शिवमन्दिरे ।
एवम् अस्त्विति तं चोक्त्वा सूर्यसेनः प्रतापवान्
एवं संचिन्त्य मनसा सर्वसंभारसंवृतः ।
स जगाम सुरैः सार्द्धं कन्याम् आदाय भूपतिः
मण्डपांश् चैव यूपांश् च पञ्चयोजनविस्तरान् ।
स चकार ततो राजा पितुराज्ञाम् अनुस्मरन्
यज्ञस् तेन समारब्धः समाप्तवरदक्षिणः ।
रममाणा सुकन्या च कन्याभिर् नृपतिस्वसा
श्रुत्वा शब्दं च वल्मीके कर्तुं क्रीडां समाययौ ।
तत्रापश्यत् मानुषं सा चक्षुर् हीनमधोमुखम्
दृष्ट्वा सा कण्टकेनैव विव्याध च गृहं गता ।
हाहाकारो महानासीत् किम् एतद् इति भारत
दुर्मनाः सूर्यसेनस् तु ब्राह्मणैः सह सत्वरम् ।
आजुहाव ततो देवाव् अश्विनौ पाकशासनम्
यज्ञं निवर्तयामास यथावद् विधिपूर्वकम् ।
निवर्त्य च ततो यज्ञं राजा परमधार्मिकः
देवान् अभ्यर्चयामास च्यवनाय महात्मने ।
दिव्यं चक्षुर् ददध्वं हि वपुः कान्तं नवं वयः
एवम् अभ्यर्थितैर् देवैर् दत्तं चक्षुर् युधिष्ठिर ।
रूपयौ वनसंपन्नं कामदेवसमं वपुः
ततः प्रसादयित्वा ऽसौ च्यवनं वाक्यम् अब्रवीत् ।
तत्क्षमस्व महाभाग यत्कृतं ते सुकन्यया
गृहाण पाणिमस्यास् त्वं मुने कोपं परित्यज ।
एवम् अभ्यर्थितो राज्ञा मुनिरोमित्य् उवाच ह
ततश् चावभृथे युग्मं चण्डवेगासमागमे ।
संस्थाप्य विधिवद् राजा तस्मै दत्त्वा क्रतोः फलम्
चकार पाणिग्रहणं सुकन्याया मनोहरम् ।
दिव्यरूपधरौ तौ तु लक्ष्मीनारायणाव् इव
संजातौ दम्पती तत्र हर्षेणोत्फुल्ललोचनौ ।
दत्त्वा कन्यां मुनेस् तत्र सूर्यसेनः पुरं ययौ
बुभुजे विविधान् भोगान् छक्रतुल्यपराक्रमः ।
सूर्यसेनं सुकन्यां च च्यवनं शक्रम् अश्विनौ
भोजनान्ते स्मरेद् यस् तु चक्षुस् तस्य न हीयते ।
एतत् ते कथितं राजंश् चण्डैरण्डकसङ्गमम्
तत्र स्नातो दिवं याति न पुनर्गर्भम् आविशेत् ।
यजेत वाश्वमेधेन नीलं वा वृषम् उत्सृजेत्
आख्यानं कथयिष्यामि यथा दृष्टं यथाश्रुतम् ।
बभ्राम सर्वतीर्थानि दुर्वासाश् चोग्रतापसः
पितृतीर्थं समागम्य पितॄणां हितकाम्यया ।
तत्र स्नात्वार्चयित्वा च शूलपाणिं पितामहम्
जलाञ्जलिं कुशतिलां पितृपिण्डमवासृजत् ।
दत्त्वा पिण्डं मुनीन् प्राह परं विस्मयमागतः
करे गृह्णन्ति पितरः पिण्डानीह मया श्रुतम् ।
तद् अद्य भो न पश्यामि तीर्थयात्रा निरर्थिका
तम् उग्रतापसं ज्ञात्वा प्रोचुस्ते मुनयस् तदा ।
करे गृह्णन्ति पितरः पिण्डं दर्शे प्रकल्पितम्
सत्यम् एतन् मुनिश्रेष्ठ नान्यथा वेदभाषितम् ।
तद्दर्शं च प्रतीक्ष त्वं तीर्थान्तरदिदृक्षया
चुकोप वै तदा विप्र ऋषिश् चैवाब्रवीद् वचः ।
अत्र नो पातये पिण्डं स्नानं दानं करोमि न
दुर्वासास् तु ततः प्राह एरण्डं मुनिपुङ्गवम् ।
करे कमण्डलुं कृत्वा जलपूर्णं महामुनिम्
शरीरं क्लिश्यसे कस्मात् तवात्र निष्फलं तपः ।
ओंकारं कल्पगां गच्छ गृहीत्वैकं कमण्डलुम्
एकः पितामहः पूज्यो गयायां प्रभुर् अव्ययः ।
उक्त्वैवम् ऋषिभिः सार्द्धं गिरिं त्व् अमरकण्टकम्
आजगाम महातेजा गत्वा तत्र च भारत ।
ओंकारस्यार्चनं कृत्वा स्तोत्रम् एतद् उदाहरत्
नमः कालाय देवाय त्रिदेवाय त्रिमूर्तये ।
अव्यक्ताव्यक्तरूपाय अनन्तानन्तगामिने
ऋग्यजुः सामरूपाय सर्वज्ञाय नमो ऽस्तु ते ।
भवोद्भव जगन्नाथ उमाकान्त नमो ऽस्तु ते
असुरघ्नाय देवाय त्रिपुरघ्नाय ते नमः ।
सद्योजातस् तथा घोरः पुरुषेशाय ते नमः
जयकालाग्निरुद्राय संवर्ताय नमो नमः ।
हृषीकेश्वररुद्राय पुरुषेशाय ते नमः
नमः शम्भवाय मयोभवाय शङ्कराय नमो ऽस्तु ते ।
ब्रह्मविष्ण्विन्द्रवरद त्रिनेत्राय नमो ऽस्तु ते
श्रीकण्ठनीलकण्ठाय नमः सोमार्धधारिणे ।
कपालमालिने तुभ्यं नमः खट्वाङ्गधारिणे
नमः त्रिशूलहस्ताय नागाभरणभूषिणे ।
नमः पिनाकिने तुभ्यं महानाथ नमो ऽस्तु ते
शर्वाय सर्वरूपाय चराचर नमो ऽस्तु ते ।
जिह्वाचापल्यभावेन खेदितो ऽसि मया प्रभो
क्षमस्व मे सुरेशान इह लोके परत्र च ।
त्वत्समो नास्ति देवेश कश्चिद् अन्य उमापते
श्रुत्वा स्तोत्रम् इदं दिव्यं शिव ओंकाररूपधृक् ।
वरं वृणु महाभाग इति वाक्यम् उवाच ह
दुर्वासा उवाच:
यदि तुष्टो ऽसि देवेश यदि देयो वरो मम ।
पितृतीर्थसमं तीर्थम् एतद् अस्त्व् इति देहि मे
ओंकार उवाच:
एतत् सर्वं भवत्वद्य मत्प्रसादात् तपोधन ।
असाध्यम् अपि साध्यं ते त्रैलोक्ये सचराचरे
एवं लब्ध्वा वरं विप्रो गिरेर् वै पूर्वभागतः ।
उवास मुनिभिः सार्द्धं दुर्वासा उग्र तापसः
अत्रान्तरे नृपश्रेष्ठ ब्रह्माणं प्राह नारदः ।
पितृतीर्थं गया नष्टा दुर्वाससः कोपतस् ततः
आस्ते स नर्मदातीरे ओंकारे ऽमरकण्टके ।
नारदस्य वचः श्रुत्वा ब्रह्मा लोकानुकम्पया
हंसयानं समारूढो देवैः सह नृपोत्तम ।
आजगामाश्रमं तत्र दुर्वासा यत्र संस्थितः
दृष्ट्वा पितामहं देवमेरण्डो मुनिपुंगवः ।
कमण्डलुं समादाय पादमूले तु ब्रह्मणः
विनिक्षिप्य यथा न्यायम् अर्घं दत्त्वा च तस्थिवान् ।
कमण्डलुजलोद्भूतः प्रवाहो नर्मदां गतः
ततः संपूज्य विधिवद् दुर्वासास् तं पितामहम् ।
ब्रह्मोवाच:
उद्भवेद् यदि ते तीर्थममासोमसमागमे
इदानीं पितृतीर्थं तु जनैर् नेहोपदृश्यते ।
अनिवर्त्यस् तु शापस्ते तत्पूर्णं कुरु सांप्रतम्
दुर्वासा उवाच:
मया निवर्तितः शापो वचनात् ते पितामह ।
पितॄणां दर्शनं तत्र गयापितृविसर्जिनी
भविष्यति प्रसादात् ते तस्मिंस् तीर्थे पितामह ।
एवम् अस्त्व् इति तं चोक्त्वा दिवं ब्रह्मा ययौ नृप
नमस्कृत्य महेशानं सुरासुरनमस्कृतम् ।
हर्षेण महताविष्टः पूज्यमानो द्विजोत्तमैः
दुर्वासास् तु मुनिश्रेष्ठस् तत्रैवान्तरधीयत ।
तेन पुण्यतमं लोके तत्रैरण्डी समागता
एरण्डीश्वरलिङ्गं तु सुरासुरनमस्कृतम् ।
पुण्यकर्मानुपश्येद् अमासोमसमागमे
दृष्ट्वा तत्परमं लिङ्गं यमलोकं न पश्यति ।
एतत् तु कथितं राजन् मया त्वां प्रति भारत
श्रवणात् कीर्तनाद् अस्य गच्छेत् माहेश्वरं पुरम्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0