भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 43

43.1

इति श्रीस्कन्दपुराणे रेवाखण्डे चण्डवेगामाहात्म्यवर्णनो नाम द्विचत्वारिंशो ऽध्याय
र्क्स् अध्याय 43
मार्कण्डेय उवाच:
एरण्डीनर्मदायोगं ततो गच्छेद् युधिष्ठिर ।
तृतीया चण्डवेगा च स्वर्गसोपानपद्धतिः

43.2

तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः ।
तिलोदकप्रदानेन पिण्डपातेन भारत

43.3

अनेककालिका तृप्तिः पितॄणाम् उपजायते ।
अमासोमसमायोगे राहुग्रस्ते दिवाकरे

43.4

एरण्डीसङ्गमस्थाने पुण्यसंख्या न विद्यते ।
एरण्डीश्वरलिङ्गं तु सर्वपापप्रणाशनम्

43.5

कुङ्कुमेन समालिप्य गन्धधूपैः प्रपूजयेत् ।
दिव्यं वर्षसहस्रं तु मोदते शिवसन्निधौ

43.6

दर्शनात् तस्य लिङ्गस्य गाणपत्यम् अवाप्नुयात् ।
भद्ररुद्रेश्वरं नाम लिङ्गं परमसिद्धिदम्

43.7

भद्ररुद्रौ पुराकल्पे गन्धर्वौ भ्रातरौ तथा ।
तम् अभ्यर्च्य विधानेन गतौ वैद्याधरं पुरम्

43.8

गायन्ति पितरो गाथां तथैव च पितामहाः ।
तिलोदकप्रदानेन पिण्डपातेन भारत

43.9

वसेत् मन्वन्तराणीह रुद्रलोके चतुर्दश ।
अस्त्रेण तु हता ये वै दैवात् पापमृता नराः

43.10

चतुर्दश्यां तु श्राद्धेन वृषोत्सर्गेण भारत ।
वीरलोकम् अवाप्यैव तत्र क्रीडन्ति मानवाः

43.11

तत्र यस् त्यजति प्राणान् अवशः स्ववशो ऽपि वा ।
तीर्थस्यास्य प्रभावेण स भवे न पुनर् भवेत्

43.12

चतुर्युगसहस्राणि राजा वैद्याधरे पुरे ।
आख्यानं कथयिष्यामि यथादृष्टं पुरा ऽनघ

43.13

चाक्षुषे चान्तरे प्राप्ते आदिकल्पे कृते युगे ।
निमिर्नाम पुरा राजा चक्रवर्ती विशाम्पते

43.14

पक्षियोनौ च संप्राप्तः कोपाद् वै ब्राह्मणस्य च ।
अस्य तीर्थस्य माहात्म्याद् दर्शसोमसमागमे

43.15

स्नात्वा संत्यज्य तां योनिं राज्यं कृत्वा दिवं गतः ।
युधिष्ठिर उवाच:
कथं स राजा संप्राप्तो मानुषीं च तनुं पुनः

43.16

एतद् आश्चर्यभूतं मे कथयस्व महामते ।
मार्कण्डेय उवाच:
सुकन्यां नाम कन्यां वै ययाचे च्यवनो नृपम्

43.17

राज्ञी चन्द्रवती नाम निमेरासीत् पतिव्रता ।
सा पुत्रीं जनयामास प्राणेभ्यो ऽपि गरीयसीम्

43.18

एकदा तु नृपश्रेष्ठः सुखासीनो यदृच्छया ।
आगतं च्यवनं दृष्ट्वा अर्घपाद्यैर् अपूजयत्

43.19

अद्य मे सफलं जन्म त्वत्पादाम्बुजदर्शनात् ।
अनुग्रहम् इमं मन्ये भोजनं कर्तुम् अर्हसि

43.20

तस्य तद्वचनं श्रुत्वा प्रोवाच च्यवनो मुनिः ।
कन्यां ददासि चेत् मह्यं भार्यार्थं धर्मतत्पराम्

43.21

तदा भोक्ष्ये महीपाल नो चेत् पापम् अवाप्स्यसि ।
राजोवाच:
एका मे दुहिता ब्रह्मन् राज्ञीं याचस्व वर्णिनीम्

43.22

कन्यादाने न शक्तो ऽहं सत्यम् एतत् तवोदितम् ।
ततः श्रुत्वा वचो राज्ञीं मुनिर् वचनम् अब्रवीत्

43.23

कन्यां देहि च मे राज्ञि गृहिणः पुत्रकारणात् ।
प्रहस्य चाब्रवीद् राज्ञी न ते योग्या द्विजोत्तम

43.24

अन्यदाचक्ष्व ब्रह्मर्षे तद् ददामि न संशयः ।
ततः कोपाच्छशापैनां पक्षियोनिं तु गच्छसि

43.25

शापं श्रुत्वा ततो राज्ञी शशापाथ महामुनिम् ।
यदि मे विद्यते सत्यं भर्तृभक्तिश् च निश्चला

43.26

शप्ता निरपराधाहं नेत्रहीनो भविष्यसि ।
परस्परं च तौ शप्तौ नर्मदातीरमागतौ

43.27

चचार च्यवनश् चोग्रमेरण्डीसङ्गमे तपः ।
दिव्यं वर्षसहस्रं तु वल्मीकेन तु पूरितः

43.28

गिरेर् वै पूर्वभागे तु मध्यारण्यम् इति स्मृतम् ।
कदम्बवृक्षम् आसाद्य वने तस्मिंश् च दम्पती

43.29

पुष्पिते फलिते रम्ये संजातौ पक्षिरूपिणौ ।
अन्ये ऽपि पक्षिणस् तत्र समुद्भूताः सहस्रशः

43.30

जातिस्मरा व्याहरन्तो मानुषीं गिरमुत्तमाम् ।
सारङ्गाः पक्षिणस् ते तु सर्वदा हृष्टमानसाः

43.31

ज्येष्ठे मासे तु संप्राप्ते दावाग्निर् अदहद् वनम् ।
प्रणष्टाश् चाण्डजाः सर्वे ज्वालामालाकुलीकृताः

43.32

कोटरे तु समालम्ब्य पुत्रैः सह यथा सुखम् ।
एकदा गर्भिणी जाता पक्षिणी तत्र भारत

43.33

भर्तारं पक्षिणी प्राह किं त्वं तिष्ठसि निर्भयम् ।
गताश् च पक्षिणः सर्वे किं त्वं संहारयिष्यसि

43.34

तस्यास् तद् वचनं श्रुत्वा खेचरो वाक्यम् अब्रवीत् ।
भार्यां त्यक्त्वा सुतांश् चैव याम्येकाकी कथं प्रिये

43.35

इति लोके न वेदे च दृष्टं केनापि कुत्रचित् ।
पाणिग्रहेण या भार्या सुशीला धर्मचारिणी

43.36

त्यक्त्वा गच्छति तां मोहाद् भ्रूणघ्नः स तु कीर्तितः ।
पक्षिण्य् उवाच:
आत्मानं रक्ष जीवेश मूलभूतं कुलस्य तु

43.37

भूयो ऽन्यास्ते भविष्यन्ति भार्याः शतसहस्रशः ।
जीवमाने तु या पत्यावन्यं कामयते वरम्

43.38

सा पापिष्ठा दुराचारा विष्ठायां जायते कृमिः ।
विधवा भर्तृहीना या ऽनुगता न स्वकं पतिम्

43.39

जीवेद् वर्षशतं यावत् सा पापिष्ठा प्रकीर्तिता ।
पत्यौ जीवति या नारी म्रियते भर्तुरग्रतः

43.40

भर्तृदत्तोदकश्राद्धैः सा याति परमां गतिम् ।
प्रसादाद् यस्य लभ्येत पुत्रालङ्कारकीर्तयः

43.41

को ऽन्यः प्रियतरस् तस्माद् इह लोके परत्र च ।
स्वयं प्राप्तस् तु दावाग्निः शीघ्रं गच्छ कथं सुतान्

43.42

त्यक्त्वा गच्छामि जीवेश संहारो वर्तते ऽधुना ।
हस्तौ पादौ न विद्येते पावको नैव शाम्यति

43.43

अशक्ता नीयमाने तु पक्षिणश्चाण्डजीविनः ।
सुतांस् त्यक्त्वा तु या माता भयार्ता याति गर्हिता

43.44

सा सप्तजन्मपर्यन्तं सर्पिणी जायते ध्रुवम् ।
एवम् उक्त्वा तु तत्रैव पुत्राणां च परस्परम्

43.45

सा संगृह्य प्रयत्नेन युग्मं युग्मं दम्पती ।
संस्थाप्यैरण्डिकायोगे भर्ता भार्याम् उवाच ह

43.46

दंष्ट्रिभ्यश् च प्रयत्नेन रक्षणीयाः सुता मम ।
गच्छामि च सुतान् अन्यान् आनेतुं सांप्रतं प्रिये

43.47

एवमुक्त्वा गतः पक्षी कदम्बाश्रितमन्दिरम् ।
सो ऽपश्यत् तदा तत्र मन्दिरं वह्निसंकुलम्

43.48

स्नेहात् प्रविष्टः पुत्रार्थी ज्वालामालावृतं गृहम् ।
तं ददाह तदा वह्णिः ससुतं स महीरुहम्

43.49

दग्धस् तु वह्णिना तेन वह्निपुञ्ज इवाभवत् ।
भस्मीभूते वने तस्मिन् प्रावट् कालः समागतः

43.50

एरण्ड्यन्तर्जले तत्र सर्वं तत्प्लावितं नृप ।
अमासोमसमायोगे पक्षिणस् तस्य चास्थि वै

43.51

एरण्ड्याः सङ्गमे प्राप्तं दैवाद् वै नृपसत्तम ।
तत्क्षणाद् दिव्यदेहस् तु दिव्ययानं समाश्रितः

43.52

ध्रियमाणातपत्रस् तु वीज्यमानो ऽप्सरोगणैः ।
दिव्यवस्त्रपरीधानो दिव्यालङ्कारभूषितः

43.53

उपरिव्याहरन् भार्यां स जगामात्मनः पुरीम् ।
आगच्छ सुभगे शीघ्रं भार्या त्वं मे भविष्यसि

43.54

सिद्धविद्याधरैर् यक्षैः साधुवादेन पूजितः ।
पुष्पवृष्टिः पपातोच्चैर्देवराजोपकल्पिता

43.55

एतस्मिन्न् अन्तरे राजन् पत्नीं भूयो ऽपि चाब्रवीत् ।
कन्यार्थं त्वं सुशप्तासि च्यवनेन महात्मना

43.56

मुञ्चात्मानम् अवाप्य त्वं भवनं धर्मचारिणाम् ।
स्मारिताकाशवचसा नृपेणैवं पुरं गता

43.57

सुतान् प्रगृह्य चागत्य भर्तारम् इदम् अब्रवीत् ।
या गतिर् मम भर्तुः स्यात् सा मे नित्यं भविष्यति

43.58

उवाच वचनं भर्ता शीघ्रं विश हुताशनम् ।
अमासोमसमायोगे एरण्डीतीर्थसङ्गमे

43.59

तत्र यत् पतितं चास्थि पापात् त्वां तारयिष्यति ।
एवम् अस्त्विति तं चोक्त्वा पक्षिणी सत्वरं तदा

43.60

आहृत्य तृणकाष्ठानि सम्प्रदीप्य हुताशनम् ।
ततो यानं समारूढा भर्तुः सा च सुतैः सह

43.61

उमामहेश्वरं यद्वच् छ्रीपतिं च यथा रमा ।
तद्वच्चावाप भर्तारं तीर्थस्यास्य प्रभावतः

43.62

एवं यानं समारुह्य सभार्यस् तु तदा नृपः ।
चन्द्रसेनो देवसेनो यज्ञसेनस् तथापरः

43.63

त्रिभिः पुत्रैः परिवृतो धर्मवृत्तिपरायणः ।
विवेश नगरीं रम्याम् अयोध्यां देवनिर्मिताम्

43.64

मुदा परमया युक्तः सान्तः पुरपरिच्छदः ।
राज्यं कृत्वा वर्षलक्षं ततः प्राप्तः शिवालयम्

43.65

एरण्डीश्वरम् अभ्यर्च्य एरण्ड्याः सङ्गमे नृप ।
पञ्चाशीतिसहस्राणि क्षत्रियाणां महात्मनाम्

43.66

गतानि तत्र राजेन्द्र सत्यं वै शाम्भवं पुरम् ।
एतत् ते कथितं राजन्न् आख्यानं वै पुरातनम्

43.67

श्रवणात् कीर्तनाद् वा ऽपि गोसहस्रफलं लभेत्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc