स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 42
इति श्रीस्कन्दपुराणे रेवाखण्डे कावेरीमाहात्म्यं नामैकचत्वारिंशो ऽध्यायः ॥
र्क्स् अध्याय 42
मार्कण्डेय उवाच:
रेवा भित्त्वा चण्डवेगा महाभागा विनिःसृता ।
तत्र स्नात्वा नरव्याघ्र ब्रह्महत्यां व्यपोहति
तिलोदकं तत्र तीर्थे हविषा पिण्डदानतः ।
पितॄन् समुद्धरेद् घोरात् नरकान् नात्र संशयः
पापमृत्युमृता ये तु चण्डकर्मकृतो नराः ।
मुच्यन्ते तेन पापेन चण्डवेगासमागमे
चण्डेश्वरं तत्र लिङ्गं सर्वदेवमयं शुभम् ।
दर्शनात् पूजनाद् अस्य पुष्पगन्धादिदानतः
ब्रह्महत्या सहस्रैर् हि तत्क्षणाद् एव मुच्यते ।
चन्द्रसेनः पुरा चासीद् दुरात्मा पापकर्मकृत्
परदाररतश्चौरो ब्रह्मघ्नो गुरुतल्पगः ।
रघुवंशी च पापात्मा ऋषिपत्नीं च ब्राह्मणीम्
अन्याश् च या वै सुभगाः पतिं हत्वा समाहरत् ।
नैमिषारण्यवासी च शाण्डिल्यो ब्रह्मवित्तमः
सौदामिनी तस्य भार्या धर्मपत्नी यशस्विनी ।
रूपयौवनसम्पन्ना चन्द्रकान्तिसमप्रभा
कामिनी वल्कलधरा पीनोन्नतपयोधरा ।
आख्यानं कथयिष्यामि तस्यास् तस्य पुरातनम्
हयारूढश् चन्द्रसेनो नैमिषारण्यवासिनः ।
शाण्डिल्यस्याश्रमं प्राप्तो वने स मृगयन् मृगान्
दष्टा सौदामिनी तेन शाण्डिल्यस्य प्रिया तदा ।
उवाच वचनं तां वै त्वं मे राज्ञी भवेद् इति
वल्कलाजिनधारी च कुशकाशपवित्रकः ।
कन्दमूलफलाशी च ब्राह्मणश् च पतिस् तव
किं करिष्यसि तत् तेन मम भोगांश् च पुष्कलान् ।
सर्वदा मत्प्रसादेन भुङ्क्ष्व त्वं वरवर्णिनि
तस्य तद् वचनं श्रुत्वा नृपतेः पापकर्मणः ।
आह सौदामिनी वाक्यं चन्द्रसेनं नृपाधमम्
याचस्व मे पतिं राजंस् तस्याहं वशवार्तिनी ।
शाण्डिल्यम् अब्रवीद् राजा ततो ऽमूं वरयामि ते
कन्याम् इमां च पत्नी ते चेद् अद्य त्वं ददस्व मे ।
मौल्ये ददामि ते द्रव्यमस्याः शतसहस्रशः
शाण्डिल्य उवाच:
सर्वाः स्त्रियः कैतवबद्धमूलास् तासां प्रियो नास्ति मनुष्यलोके ।
यथेष्टचेष्टो भव भूमिपाल किं मां द्विजं पृच्छसि दुर्बलं च
कामान्धस् तु ततो राजा करे जग्राह तां तदा ।
सा निरीक्ष्या हतं पापं ज्वलन्ती तीव्रकोपतः ।
रजस्वला ऽहं मां स्पृष्ट्वा चाण्डालस् त्वं भविष्यसि
तां दृष्ट्वा तादृशीं नग्नां भयार्तां प्राणवल्लभाम् ।
चाण्डालस् तत् क्षणाज् जातः सर्वभूतभयावहः
हाहाकारं ततश् चक्रुः सर्वे देवाः समानुषाः ।
अश्वम् आरुह्य राजा ऽसाव् अयोध्याम् आविशत् पुरीम्
दृष्ट्वा चाण्डालरूपं तं ब्राह्मणाः पुरवासिनः ।
राजपुत्रा महीपालस्यान्तःपुरनिवासिनः
बभूवुर् भयभीताश् च गर्हयन्तो महीपतिम् ।
वशिष्ठं शरणं प्राप्तः शोचित्वा चात्मनस् तनुम्
राजा विषण्णवदन उवाच स्वपुरोहितम् ।
जगामाहं समुद्देशं नैमिषारण्यवासिनम्
शाण्डिल्यं च नमस्कृत्य साष्टाङ्गं प्रणिपत्य च ।
अब्रवं देहि भार्यां स्वां वित्तेन बहुलेन मे
शाण्डिल्यस्य तु पत्न्या वै तया शप्तो ऽहम् अन्तिके ।
श्रुत्वा तस्य चरित्रं च पापस्य भो नराधिप
वशिष्ठो ऽप्य् अब्रवीद् वाक्यं चन्द्रसेनं नराधिपम् ।
शाण्डिल्यं गच्छ राजेन्द्र तापसं ऋतुगामिनम्
सौदामिनीम् ऋषेर् भार्यां ज्वलन्तीम् इव तेजसा ।
एवम् अस्त्व् इति चोक्त्वा तं नमस्कृत्य पुरोधसम्
स जगाम तम् उद्देशं नैमिषारण्यवासिनम् ।
शाण्डिल्यं तु नमस्कृत्य साष्टाङ्गं च पुनः पुनः
अब्रवीत् तं मुनिश्रेष्ठं भयत्रस्तो नराधिपः ।
क्षमस्व मे मुनिश्रेष्ठ त्वद्भार्यां प्रति कामिनः
त्वं माता मे पिता चासि रघुवंशं समुद्धर ।
मया त्व् अपकृतं ते ऽद्य तस्य प्राप्तं फलं हि वै
उवाच ब्राह्मणः प्रीतो भार्या चैव पतिव्रता ।
मार्कण्डेयः पिता राजन् छिष्यो ऽहं तस्य धीमतः
भार्यार्थम् इह संप्राप्तो नैमिषारण्यवासिनः ।
त्वं तु गच्छ नृपश्रेष्ठ चण्डवेगासमागमम्
चण्डेश्वरं तमभ्यर्च्य तत्र स्नात्वा नृपोत्तम ।
अवाप्स्यसि परं स्थानं मुक्तश् चास्माच् च किल्बिषात्
तस्य तद् वचनं श्रुत्वा शाण्डिल्यस्य महात्मनः ।
शाण्डिल्यं च नमस्कृत्य तथा सौदामिनीं नृपः
स्वस्ति वो ऽस्तु गमिष्यामि चण्डवेगासमागमम् ।
एवमुक्त्वा गतस् तत्र समागत्य क्षमापतिः
चण्डेश्वरं समभ्यर्च्य तत्र स्नात्वा विधानतः ।
दिव्ययानसमारूढः स्तूयमानो ऽप्सरोगणैः
सर्वपापविनिर्मुक्तस् तीर्थस्यास्य प्रभावतः ।
क्षणाच् छिवपुरं प्राप्तश् चन्द्रसेनो महीपतिः
स्वारोचिषे ऽन्तरे प्राप्ते आदिकल्पे कृते युगे ।
भूतानां च सहस्राणि संसिद्धिं तत्र चान्वयुः
एतत् ते कथितं राजंश् चण्डवेगासमागमम् ।
श्रवणात् कीर्तनाद् वापि भ्रूणहत्या प्रणश्यति
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0