भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 41

41.1

इति श्रीस्कन्दपुराणे रेवाखण्डे सूत्रयागवर्णनो नाम चत्वारिंशो ऽध्यायः ॥
र्क्स् अध्याय 41
युधिष्ठिर उवाच:
कीर्तनं कोटितीर्थस्य मानसंख्याप्रमाणतः ।
तीर्थानि चोत्तरे याम्ये प्राकारे संस्थितानि च

41.2

कथयस्व प्रसादेन तानि मे मुनिसत्तम ।
तेषां तु दर्शनाद् एव पापं दुष्कृतकर्मिणाम्

41.3

प्रणश्येत् तत्क्षणाद् एव तमः सूर्योदये यथा ।
मार्कण्डेय उवाच:
उत्तरे यानि तीर्थानि यानि तीर्थानि दक्षिणे

41.4

लीयन्ते कोटितीर्थे तु साक्षाच् छिवपदे नृप ।
पृथिव्यां यानि तीर्थानि आसमुद्रान्तगोचरे

41.5

तानि साक्षात् कोटितीर्थे लीयन्ते परमे पदे ।
कपिला ऽमरयोर् मध्ये नर्मदोंकारमध्यतः

41.6

अत्रान्तरे नृपश्रेष्ठ कोटितीर्थं व्यवस्थितम् ।
दशायुतानि तीर्थानां पातालतलवासिनाम्

41.7

कपिलानर्मदामध्ये शिवेन स्थापितानि च ।
अत्रान्तरे महाराज रुद्रावर्तजलेन तु

41.8

स्नात्वा विधानतस् ते वै गच्छन्ति शिवमन्दिरम् ।
ये वसन्त्य् उत्तरे कूले रुद्रलोके वसन्ति ते

41.9

वसन्ति वामभागे वै ते लोकं यान्ति वैष्णवम् ।
ये पूर्वपश्चिमे भागे वसन्त्य् अमरकण्टके

41.10

रुद्रस्य ब्रह्मणो लोकं ते प्रयान्ति च वैष्णवम् ।
जले चैकादशाग्नौ तु पतने षोडशैव तु

41.11

सहस्राणि तथाशीतिर् मरणाद् गोगृहे तथा ।
अनशने ब्रह्मलोकः सार्द्धं लक्षमुदाहृतः

41.12

कपिलानर्मदातोये जलाग्नी साधयन्ति ये ।
चतुर्युगसहस्राणि रुद्रलोके वसन्ति ते

41.13

अवशः स्ववशो वा ऽपि मृगपक्षिसरीसृपाः ।
तिर्यग्योनिगताः पापा म्रियन्ते ये युधिष्ठिर

41.14

राजानस् ते प्रजायन्ते शुभे वैद्याधरे पुरे ।
राहुसोमसमायोगे कोटितीर्थे नराधिप

41.15

पुण्यं यत् कीर्तितं पुंसां तस्य संख्या न विद्यते ।
गयायां च कुरुक्षेत्रे पुष्करे ऽमरकण्टके

41.16

तुल्यं फलमवाप्नोति राहुग्रस्ते दिवाकरे ।
प्राची सरस्वती यत्र स्थाणुः सारस्वतं जलम्

41.17

सार्द्धं द्वादश लक्षं तु दत्तं तत्र प्रवर्तते ।
तत् तुल्यं तु भवेत् सर्वं कोटितीर्थे न संशयः

41.18

न्यायोपार्जितवित्तस्य राहुग्रस्ते दिवाकरे ।
नानाविधं तु पुण्यं च मतं वै परिकीर्तितम्

41.19

ब्रह्मविष्णुशिवोक्तं च प्रमाण सर्वसम्मतम् ।
अल्पसत्त्वा नरा राजन् काले मायाविमोहिताः

41.20

ओंकारं ये न पश्यन्ति तथा वै सप्तकल्पगाम् ।
गोछागयोर् महाराज हेमरूप्ये यद् अन्तरम्

41.21

शूद्रब्राह्मणयोर् यद्वद् यथा वद्दधितक्रयोः ।
अमरेश्वरतीर्थं हि ज्ञेयं तीर्थान्तरैः सह

41.22

दीयते कोटितीर्थे यद्गुञ्जामात्रं हिरण्यकम् ।
तस्य संख्या न विद्यते यावद् आहूत संप्लवम्

41.23

चतुर्हस्तप्रमाणं तु कोटितीर्थं न संशयः ।
हस्तमात्रं तथा चान्ये वितस्तिं च तथा ऽपरे

41.24

चतुरङ्गुलमयं के ऽपि केचिद् अङ्गुलमानतः ।
अर्द्धाङ्गुलं यवमात्रं ब्रह्मसूत्रप्रमाणतः

41.25

चतुर्विंशे द्वादशाब्दे कुरुक्षेत्रात् सरस्वती ।
कोटितीर्थे तथा स्नातुं राहुग्रस्ते दिवाकरे

41.26

करिणीरूपमास्थाय आयात् स्वपुण्यकक्षयात् ।
स्नानं कृत्वा पुनर्याति कुरुक्षेत्रं न संशयः

41.27

कावेरीसङ्गमं यावद् आरभ्यो दधिसङ्गमम् ।
अत्रान्तरे महाराज तीर्थकोट्यो दश स्मृताः

41.28

कोटितीर्थं समारभ्य नीलगङ्गावसानतः ।
अष्टलक्षाणि तीर्थानां ब्रह्मसूत्रप्रमाणतः

41.29

कावेर्याः पूर्वभागे च यावत् पर्यङ्कपर्वतः ।
दश लक्षाणि तीर्थानां संख्या च कथिता तव

41.30

नर्मदायां समासाद्य जमदग्नेर् महाश्रमम् ।
श्रीकण्ठं नीलकण्ठं च लिङ्गं पापप्रणाशनम्

41.31

कन्यातीर्थं महापुण्यं कपिलेश्वरम् उत्तमम् ।
कपिलावर्तसंज्ञं तु तीर्थं पापहरं परम्

41.32

तत्र पूषा च सूर्यस् तु शिवध्यानपरायणः ।
दिव्यं वर्षसहस्रं तु तपस् तेपे सुदुष्करम्

41.33

ततस् तुष्टः सुरेशानस् तम् उवाच तदा नृप ।
वरं वृणीष्व भद्रं ते यत् ते मनसि वर्तते

41.34

पूषोवाच:
यदि तुष्टो ऽसि देवेश वरं दातुं त्वम् इच्छसि ।
सूर्यपिङ्गलसंज्ञं तु लिङ्गं परमसिद्धिदम्

41.35

आकाशे प्रतपद्रश्मिसहस्रांशु समप्रभम् ।
मासे मासे ऽन्यमित्रस् तु संक्रमश् चान्यराशिषु

41.36

इमं वरम् अहं मन्ये जगद् द्योतनकारकम् ।
ईश्वर उवाच:
सर्वसम्पत्समृद्धिस् ते मत्प्रसादाद् भविष्यति

41.37

कृते युगे महाराज मयैतद् दृष्टम् एव च ।
चतुर्दश्यां तथा ऽष्टम्यां पिङ्गलेश्वरपूजनात्

41.38

कोटियज्ञफलं प्राप्य शिवलोके महीयते ।
रेवातीरेषु ये देवाः क्रोशमात्रं स्वयंभुवः

41.39

सर्वे ते सिद्धिदा ज्ञेयाः कामभोगफलप्रदाः ।
केचित् कूष्माण्डमात्रा वै केचिद्वै पुष्पमात्रकाः

41.40

एरण्डफलमात्राश् च वज्रमौक्तिकमानतः ।
कृते मणिमयाः प्रोक्तास् त्रेतायां तु हिरण्मयाः

41.41

द्वापरे रौप्यताम्राश् च कलौ चाश्ममयाः स्मृताः ।
ब्राह्मं कृतयुगं प्राहुस् त्रेतां वै क्षत्रियं तथा

41.42

द्वापरं वैश्यम् इत्य् एवं कलिं शूद्रं तथैव च ।
नापुण्यालिङ्गमासाद्य म्रियते ऽमरकण्टके

41.43

को न मुच्येत कौन्तेय सप्तजन्मजकिल्बिषात् ।
यादृशो ऽयं गिरिः पुण्यः सर्वतो ऽमरकण्टकः

41.44

तादृशं नानुपश्यामि त्रिषु लोकेषु भारत ।
पर्वतस्य समन्तात् तु तीर्थकोटिर् व्यवस्थिता

41.45

स्वर्गसोपानमासाद्य प्रात्यक्षं शिवदर्शनम् ।
सुपुण्यं कोटितीर्थं वै तथा चामरकण्टकम्

41.46

स्वर्गदं मोक्षदं विद्धि सर्वसिद्धिप्रदायकम् ।
वैदूर्यपर्वते सिद्धो मान्धाता च कृते युगे

41.47

कथितो नृपशार्दूल तथान्यत् कथयामि ते ।
कावेरीसङ्गमः पुण्यः सर्वलोकेषु विश्रुतः

41.48

तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः ।
कावेर्यां भूतजाभौमे व्यतीपातो यदा भवेत्

41.49

सहस्रगुणितं पुण्यं भवेत् तस्यास् तु सङ्गमे ।
शस्त्रेण निहता ये वै तिलमिश्राम्बुदानतः

41.50

ते चैकोद्दिष्टश्राद्धेन स्वर्गलोकम् अवाप्नुयुः ।
चाण्डालाद् गुहकात् सर्पाद् विद्युतो ब्राह्मणाद् अपि

41.51

दंष्ट्रिभ्यश् च पशुभ्यश् च मरणं पापकर्मिणाम् ।
सर्वे ते नृपशार्दूल कावेरीसङ्गमे शुभे

41.52

श्राद्धस्य करणात् सत्यं तृप्ता यान्ति परां गतिम् ।
कुबेरेण तपस् तप्तं दिव्यं वर्षसहस्रकम्

41.53

आराधितः पूजितश् च लोकनाथ उमापतिः ।
शिवप्रसादसम्पन्नो लोकपालत्वमाप्तवान्

41.54

तत्र यस् त्यजति प्राणांस् तस्य पुण्यफलं शृणु ।
षष्टिवर्षसहस्राणि देवराज्यम् अवाप्नुयात्

41.55

अवशः स्ववशो वा ऽपि प्राणत्यागं करोति यः ।
दशवर्षसहस्राणि राजा वैद्याधरे पुरे

41.56

रेवाकावेरिकैस् तोयैस् तिलैर् आरण्यकैस् तथा ।
पितरस् तर्पितास् तत्र तृप्ता यान्ति परां गतिम्

41.57

नानामुखसहस्रैस् तु कावेरी प्रथिता भुवि ।
चराचरं यथा व्याप्तं वायुना सूर्यरश्मिभिः

41.58

तथा तोयेन कावेर्या व्याप्तं च वसुधातलम् ।
नर्मदादक्षिणे कूले वाराहे विन्ध्यपर्वते

41.59

प्रत्यक्षा सर्वदेवानां पयोष्णी निर्गता यतः ।
सोमस्य दुहिता चासीत् हिमगर्भेन्दुशीतला

41.60

हरेणाराधिता पूर्वम् उमामूर्तिः पयस्विनी ।
लोकानां तारणार्थाय सोमगङ्गेति गीयते

41.61

विनिष्क्रान्ता शरीराच् च वाराहस्य यशस्विनः ।
तत्र स्नात्वा नरो राजन् भवे वै न पुनर् भवेत्

41.62

तिलोदकप्रदानेन पितरस् तस्य भारत ।
दशायुतसहस्राणि लोके क्रीडन्ति शाङ्करे

41.63

कार्त्तिक्यां यत्फलं तस्य वाराहे विन्ध्यपर्वते ।
संख्या न शक्यते स्नानाद् अत्र वर्षशतैर् अपि

41.64

शिवेन कथितं पूर्वं पुराणे स्कन्दकीर्तिते ।
तत्र यद् दीयते दानं तस्य संख्या न विद्यते

41.65

ये चार्चयन्ति वाराहं न ते प्राकृतमानुषाः ।
प्राणत्यागे कृते तत्र शिवलोकम् अवाप्नुयुः

41.66

राहुसोमसमायोगे वाराहे विन्ध्यपर्वते ।
कुरुक्षेत्रसमं पुण्यं पुरा वै शङ्करो ऽब्रवीत्

41.67

गिरेर् आरभ्य वाराहात् पयोष्ण्याः सङ्गमावधि ।
अत्रान्तरे नृपश्रेष्ठ तीर्थकोटिर् उदाहृता

41.68

पयोष्णीसङ्गमे तत्र सोमावर्तः स उच्यते ।
स देशः सर्वतः पुण्यः सत्यम् एतत् तवोदितम्

41.69

पयोष्णीसङ्गमे पापहरे लिङ्गस्य दर्शनात् ।
तत्र स्नानस्य दानस्य संख्या कर्तुं न शक्यते

41.70

तापीपयोष्णीसंभेदश् चन्द्रसूर्यग्रहे नृप ।
कुरुक्षेत्राच्छतगुणः शिवेन परिकीर्तितः

41.71

चतुर्भुजो हरिर् यत्र श्रीपतिः पुरुषोत्तमः ।
विष्णुक्षेत्रं तु विज्ञेयं क्रोशमात्रं तु तन्नृप

41.72

आश्विनस्य तु मासस्य कृष्णपक्षे चतुर्दशी ।
अमावास्या सिनीवाली पर्वाण्य् एतान्य् अनुक्रमात्

41.73

चतुर्दश्यां चतुर्योगे पीयूषं वहते नृप ।
पितरस् तृप्तिम् आयान्ति दिने तस्मिन् न संशयः

41.74

सुर्यग्रहे कुरुक्षेत्रे यत्फलं परिकीर्तितम् ।
तापीपयोष्णीसम्पर्के तत्फलं परिकीर्तितम्

41.75

दीपोत्सर्गे तु कौमुद्यां फलं संख्या न विद्यते ।
पुरुषश् चक्रवर्ती स्याद् दीपं तत्र चकार यः

41.76

कार्त्तिक्याम् आश्विने मासि पक्षयोर् उभयोर् अपि ।
मासम् एकं न भुञ्जीत तस्य पुण्यफलं शृणु

41.77

यावच् चन्द्रश् च सूर्यश् च हिमवांश् च महोदधिः ।
तावत् कालं वसेत् स्वर्गे विष्णुलोके च भारत

41.78

नर्मदादक्षिणे भित्त्वा पातालात् तु समुत्थितम् ।
कावेरी कुण्डम् इत्य् एवं त्रिषु लोकेषु विश्रुतम्

41.79

स्नातमात्रो नरस् तत्र गाणपत्यम् अवाप्नुयात् ।
कुण्डेश्वरं सिद्धलिङ्गं सुरसिद्धनिषेवितम्

41.80

प्रमादात् कुरुते यस् तु पूतलिङ्गस्य पूजनम् ।
न तत्पुण्यस्य संख्यास्ति यावच् चन्द्रार्कतारकम्

41.81

तिलोदकप्रदानेन पिण्डपातेन भारत ।
असंख्यकालिका तृप्तिः पितॄणां नास्ति संशयः

41.82

कावेर्यास् तु प्रभावेण नर्मदासङ्गमात् पुनः ।
यज्ञावर्तो ऽभवद् देशः सत्यम् एतच्छिवोदितम्

41.83

स्वयम्भुवानि लिङ्गानि स्वर्गमोक्षप्रदानि तु ।
यत्र तत्र नरः स्नात्वा कावेर्या नृपसत्तम

41.84

अश्वमेधफलं प्राप्य विष्णुलोके महीयते ।
त्यक्त्वा प्राणांस् तु कौवेर्यां कौबेरं लोकम् आप्नुयात्

41.85

कौबेरेश्वरलिङ्गं तु सर्वसिद्धिप्रदायकम् ।
कावेरीनर्मदामध्ये न तत्पश्यन्ति मानवाः

41.86

पूज्यते सुरदैत्यैस् तु नागकन्याभिर् अर्च्यते ।
अर्चनात् तस्य देवस्य द्वादशादित्यसन्निभः

41.87

सर्वपापविनिर्मुक्तः शिवलोके महीयते ।
कावेरीनर्मदाभेदे बाणलिङ्गं प्रतिष्ठितम्

41.88

कुबेरेण पुरा दृष्टं सङ्गमेश्वरनामतः ।
अर्चनात् तस्य देवस्य लोकपुरे वसेत्

41.89

गङ्गायमुनसंभेदे यत्फलं परिकीर्तितम् ।
भौमे तु भूतजायोगे व्यतीपाते च संक्रमे

41.90

राहुसोमसमायोगे तद् एवाष्टगुणं स्मृतम् ।
अशीतिश् च गुणाः प्रोक्ता गङ्गायमुनसङ्गमे

41.91

कावेरीनर्मदायोगे बाणा अष्टगुणाः स्मृताः ।
गङ्गाषष्टिसहस्रैस् तु क्षेत्रपालैः प्रपूज्यते

41.92

तदर्धैरन्यतीर्थानि रक्षन्ते नात्र संशयः ।
अमरेश्वरयाम्ये तु लिङ्गं चैव जलेश्वरम्

41.93

दर्शनात् तस्य लिङ्गस्य गाणपत्यमवाप्नुयात् ।
लक्षैश् च रक्षिता देवैर् नर्मदा सप्तकल्पगा

41.94

धन्विभिः षष्टिपुरुषैः सहस्रैश् च युधिष्ठिर ।
ओंकारं शतसाहस्र्या पर्वतो लिङ्गम् एव च

41.95

अन्यदेशे कृतं पापं पुण्यक्षेत्रे विनश्यति ।
पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति

41.96

क्षणमात्रेण दुःखेन अत्यन्तसुखमश्नुते

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc