भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 40

40.1

इति श्रीस्कन्दपुराणे रेवाखण्डे विमलेश्वरवर्णनो नामैकोनचत्वारिंशो ऽध्यायः ॥
र्क्स् अध्याय 40
युधिष्ठिर उवाच:
मनसा चिन्तितं यच्च तद् एव समुपस्थितम् ।
लक्षणं सूत्रयागस्य पर्वतस्य तु वेष्टनम्

40.2

कस्मिन् काले प्रकर्तव्यं विधानां विधिपूर्वकम् ।
त्वम् एव वेत्सि सर्वं वै विदितं कुरु साम्प्रतम्

40.3

येन देवाः सगन्धर्वा मानुषाः पापयोनयः ।
तत्र यागप्रभावेण दिवि देवत्वम् आगताः

40.4

मार्कण्डेय उवाच:
श्रूयतां राजशार्दूल सूत्रयागस्य लक्षणम् ।
चन्द्रसूर्योपरागे तु षडशीतिमुखे तथा

40.5

युगादौ विषुवे चैव व्यतीपाते च संक्रमे ।
कार्त्तिक्यां च तथा माघ्यां वैशाख्यां चैव भारत

40.6

सूर्योपरागतुल्यायां षष्ठ्यां हि कपिलस्य तु

40.7

वैशाखमासस्य तु या तृतीया नवम्यथोर्जस्य च शुक्लपक्षे ।
माघे त्वमा चैव नभस्यकृष्णा त्रयोदशी चेति युगादयस् तथा

40.8

पर्वस्वेतेषु कौन्तेय सूत्रयागं तु कारयेत् ।
अनन्तफलसंयुक्तं शिवेन कथितं पुरा

40.9

सूत्रेण वेष्टयेद् यस् तु पर्वतं शिवसन्निभम् ।
उमया सहितं देवं गणेशेन तथैव च

40.10

तावद् युगसहस्राणि स्वर्गलोके महीयते ।
पुत्रिणी भर्तृसंयुक्ता नारी तद्वेष्टिनी भवेत्

40.11

कौशेयं पट्टसूत्रं च कार्पासं च महीपते ।
नवतन्तुं च यः कुर्याद् दश द्वादशतन्तुकम्

40.12

अष्टादश महाराज चतुर्विंशति वा क्रमात् ।
क्षालयेत् कोटितीर्थे तु गन्धधूपेन वासयेत्

40.13

बध्नीयात् पुष्पमालां च दीपमालां च बोधयेत् ।
रात्रौ जागरणं कृत्वा ओंकारे विधिपूर्वकम्

40.14

शिवध्यानपरो भूत्वा निराहारो निशां नयेत् ।
प्रभाते चोत्सवं कुर्याद् ओंकाराभ्यर्चनं तथा

40.15

न्यग्रोधे बन्धयेत् सूत्रं समाधिस्थो नरेश्वर ।
कोटितीर्थं ततो गच्छेत् सर्वतीर्थमयं शुभम्

40.16

ऋणमोक्षं पापनाशं नरकेश्वरम् उत्तमम् ।
गन्धर्वेश्वरलिङ्गं तु गच्छेत् परमशोभनम्

40.17

अदृश्यं सर्वभूतानां नागकन्याभिरर्च्यते ।
तत्र स्नात्वा नरो राजन् गान्धर्वं लोकमाप्नुयात्

40.18

ततो गच्छेन् नृपश्रेष्ठ अङ्गारेश्वरम् उत्तमम् ।
दर्शनात् तस्य लिङ्गस्य गाणपत्यम् अवाप्यते

40.19

अङ्गारेण तपस्तप्तं दिव्यं वर्षशतं तथा ।
ग्रहत्वमगमत् सो ऽपि तीर्थस्य ऽस्य प्रभावतः

40.20

ब्रह्मावर्तं ततो गच्छेत् सर्वतीर्थम् अयं शुभम् ।
तत्र स्नात्वा नरो राजन् छिवलोकम् अवाप्नुयात्

40.21

तिलोदकप्रदानेन पितॄणां परमा गतिः ।
दिव्यं वर्षसहस्रं तु तपस् तेपे सुदुष्करम्

40.22

ब्रह्मा चैव पुराकल्पे लोकानुग्रहकारकः ।
लिङ्गं मध्येश्वरं नाम जलमध्ये व्यवस्थितम्

40.23

पूज्यते नागकन्याभिर् न तत् पश्यन्ति मानवाः ।
दारुकेश्वरलिङ्गं तु सर्वपापप्रणाशनम्

40.24

अर्चनात् तस्य देवस्य नरो विद्याधरो भवेत् ।
भृगुलिङ्गं ततो गच्छेद् भैरवो यत्र संस्थितः

40.25

भृगुं गत्वा नरश्रेष्ठ मुच्यते ब्रह्महत्यया ।
जालेश्वरं ततो गच्छेत् पर्वतीर्थोत्तमोत्तमम्

40.26

स्नानमात्रो नरस् तत्र स भवे न पुनर् भवेत् ।
तिलोदकप्रदानेन पितॄणाम् अक्षया गतिः

40.27

भैरवं रूपमास्थाय बाणस्य च पुरत्रयम् ।
पातितं जलमध्ये तु नर्मदाया हरेण वै

40.28

ज्वलत्पाशुपतास्त्रेण तत्रैव तद् अनन्तरम् ।
तद् अस्त्रसङ्गमाच् छीघ्रं पातालाच् चोत्थितं ततः

40.29

लिङ्गं जालेश्वरं नाम ब्रह्महत्यां व्यपोहति ।
कोटितीर्थं ततो गच्छेत् स्नात्वा च विधिपूर्वकम्

40.30

वलक्षं बन्धयेत् सूत्रम् ओंकारस्य तु भारत ।
ओंकारं च समभ्यर्च्य दीपमालां च बोधयेत्

40.31

सफलः सूत्रयागस् तु त्वत्प्रसादान् महेश्वर ।
यतींश् च भोजयेत् तत्र दद्याच् छक्त्या च दक्षिणाम्

40.32

सार्द्धं च बन्धुभृत्यैश् च पारणं क्रियते नृप ।
यः शारीरेण कष्टेन पर्यटेच् छिवपर्वतम्

40.33

पदे पदे यज्ञफल तस्य स्याच् छङ्करो ऽब्रवीत् ।
पुरा देवगणैः सर्वैः सिद्धगन्धर्वकिन्नरैः

40.34

विद्याधरैस् तथा यक्षैर् असुरैर् दैत्यदानवैः ।
चन्द्रादित्यग्रहैश् चैव नक्षत्रध्रुवमण्डलैः

40.35

विश्वेदेवैश् च साध्यैश् च मरुद्भिर् वसुभिस् तथा ।
देवराजेन चेन्द्राण्या सावित्र्या चैव भारत

40.36

अरुन्धत्या सरस्वत्या गायत्र्या स च पर्वतः ।
सूत्रेण वेष्टितो भक्त्या फलं प्राप्तं शिवोदितम्

40.37

अहल्या मेनका रम्भा घृताची चोर्वशी तथा ।
तिलोत्तमा तथा चान्या सरितः सागराश् च वै

40.38

वेष्टनात् पर्वतस्यास्य दिग्देवत्वमवाप्तवान् ।
यावच् चन्द्रश् च सूर्यश् च यावत् तिष्ठति मेदिनी

40.39

सूत्रयागप्रभावेण तावच् छिवपुरे वसेत् ।
एतत् ते कथितं राजन् सूत्रयागस्य यत्फलम्

40.40

श्रवणात् कीर्तनाद् अस्य रुद्रस्यानुचरो भवेत्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc