स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 39
इति श्रीस्कन्दपुराणे रेवाखण्डे चक्रस्वामिवर्णनो नामाष्टत्रिंशत्तमो ऽध्यायः ॥
र्क्स् अध्याय 39
युधिष्ठिर उवाच:
लिङ्गं व्याघ्रेश्वरं नाम विघ्नकर्तृसमागमे ।
कथितं यन् महाभाग सर्वपापविमोक्षणम्
प्रभावं वेदितुं तस्य पुनर् इच्छाम्य् अहं मुने ।
मार्कण्डेय उवाच:
शृणु राजन् कथां दिव्यां सर्वपापप्रणाशिनीम्
बभ्रुर् नाम पुरा चासीद्राजा परमधार्मिकः ।
पुण्ड्रवर्द्धनवासी च सत्यधर्मपरायणः
पितुः क्षयाहे सम्प्राप्ते श्राद्धकाले सुसंयतः ।
नित्यं नैमित्तिकं कर्म पित्रर्थं स चकार ह
यज्ञकाले निवृत्ते ऽथ बुद्धिं प्राप्य तु भारत ।
चिन्तयामास राजासौ किंकरोमीती चाब्रवीत्
ऋषयो निरपेक्षाशाः कन्दमूलफलाशिनः ।
विप्रातिथिं न पश्यामि कम् भोजयितुम् उत्सहे
संचिन्त्य विप्रभोज्यार्थं पाकम् अप्सु व्यनिक्षिपत् ।
ऋग्वेदश् च ततो वाक्यं कोपात् प्राह ततस् तदा
इदानीं द्वापरस्यान्ते वर्तते पापसंभवः ।
वैवस्वते ऽन्तरे प्राप्ते ब्राह्मणा लब्धकामुकाः
ते भुञ्जन् कामुकाः सर्वे राजद्रव्यं सकिल्बिषम् ।
देशे कदाचित् पुण्याहे भारद्वाजाश्रमंगतः
सो ऽभिवाद्य नमस्कृत्य मुनिं तत्र व्यवस्थितः ।
भारद्वाजो ऽब्रवीद् वाक्यं तस्मै दत्त्वासनं महत्
स्वागतं ते महाराज कुशलं सह भार्यया ।
चिरं दृष्टो ऽसि धर्मज्ञ एकाकी त्वं कथंचन
राजोवाच:
अद्य मे कुशलं ब्रह्मंस्त्वत्पादाम्बुजदर्शनात् ।
महर्षे श्राद्धकालो ऽयां पितॄणां मम वर्तते
भोजये ऽहं यथा विप्रं तथा त्वं कर्तुम् अर्हसि ।
तस्य तद्वचनं श्रुत्वा भारद्वाजो ऽब्रवीद् वचः
महर्षीणां सहस्राणि तुष्टानाम् ऊर्ध्वरेतसाम् ।
हंसलोमशमुख्यानां यदि भोजयितुं क्षमः
पश्चात् प्रवर्तते श्राद्धं सत्यम् एतद् ब्रवीम्य् अहम् ।
दद्या हेममयं पीठं दद्या धान्यं तथा वसु
मधुधेनुं तथा दिव्यां पयोधेनुं तथैव च ।
अग्निशौचस्य कौपीनं वस्त्रस्य तु विशाम्पते
तस्य तद्वचनं श्रुत्वा भारद्वाजस्य भूपतिः ।
एवमस्त्विति तं चोक्त्वा सर्वं पत्न्यै न्यवेदयत्
महोक्षं कल्पयित्वा पितृकार्यं निवर्तये ।
श्रौतस्मार्तादिकं कर्म आमिषं पितृतर्पणम्
इत्यादिस्मृतिवाक्यानि पर्यालोच्य पुनः पुनः ।
महोक्षं च ततो हत्वा तर्पयामास तान् पितॄन्
अनड्वाहं पशुं ज्ञात्वा भारद्वाजादयस् ततः ।
कुपिताः कर्मणा तेन राज्ञीं राजानम् एव च
कोपसंभारसंतप्ता गर्हयन्तो ऽब्रुवंस् तदा ।
सुरामांसादिमाध्वीकं कृत्वा गोमांसभक्षणम्
तप्तकृच्छ्रं चरेद् विप्रो मौञ्जीबन्धेन शूद्ध्यति ।
अभक्षभक्षणं कृत्वा करीषाग्नौ विशेद् द्विजः
घातितानि त्वया चाष्टौ सहस्राणि तपस्विनाम् ।
हव्यं देवा न गृह्णन्ति कथं च पितरः पुनः
त्वया वै क्रतवश्चेष्टास्ते गता वै श्वयोनिषु ।
व्यर्थमास तपस्ते ऽद्य मूलनाशस् त्वया कृतः
बभ्रुर् उवाच:
वेदोक्तं यः परित्यज्य धर्ममन्यं समाचरेत् ।
दशवर्षसहस्राणि श्वयोनौ जायते ध्रुवम्
वेदार्थनिन्दका ये वै ब्राह्मणा ज्ञानदुर्बलाः ।
इह जन्मनि शूद्रास्ते मृताः श्वानो भवन्ति ते
गोमेधो हयमेधश् च नरमेधस् तथा ऽपरः ।
क्षत्रियास्त्वथ जीवन्ति पूज्यन्ते देवमानुषैः
राज्ञस् तद्वचनं श्रुत्वा भारद्वाजो ऽशपत् नृपम् ।
यस्मान् महोक्षमांसेन तार्पिता ब्राह्मणास् त्वया
भवतु अनेन पापेन व्याघ्रो व्याघ्री तव प्रिया ।
दिव्यं वर्षसहस्रं तु वसुधां विचरिष्यथः
तस्य तद्वचनं श्रुत्वा मुनेर् अमिततेजसः ।
सुधर्मा चाब्रवीद् वाक्यं राजपत्नी यशस्विनी
वेदोक्तकर्मकर्ता तु यतः शप्तः पतिर् मम ।
पतिव्रता च निर्दोषा धर्मिष्ठा ऽहं तथैव च
दशवर्षसहस्राणि तेन पापेन दुःखिताः ।
भविष्यथ महाघोरा यूयं वै ब्रह्मराक्षसाः
निर्जले मरुदेशे च अपरे कण्टकावृते ।
क्षुधार्ताश् च तृषार्ताश् च काकगृध्रैर् अनुद्रुताः
भारद्वाजश् च राज्ञी च शप्त्वा तत्र परस्परम् ।
भारद्वाजश् च सार्द्धं तैः कृत्वा पुण्यं ततो नृप
ब्रह्मलोकं जगामाथ ब्राह्मणैः सह भारत ।
सो ऽभिवाद्य यथा न्यायं ब्रह्माणं सुरसत्तमम्
सर्वं न्यवेदयत् तत्राभक्षभोज्यं च यत्कृतम् ।
ब्रह्मोवाच:
लोकापचरितं कर्म [] कार्यं देववर्जितम्
[गप् इन् ओरिगिनल्]
उक्तानि च निषिद्धानि धर्माधर्मविचारणे ।
लोकोक्तं विहितं कर्म त्रयी मार्गं विचारितम्
कर्तव्यं तु प्रयत्नेन स्वर्गमोक्षप्रदायकम् ।
बोधिता ब्राह्मणास् तेन ब्रह्मणा नृपतिस् तदा
शापान्तः कथितस् तेषां तेनैव परमेष्ठिना ।
शापस्यान्तो मया दृष्टो भवतां पापकर्मिणाम्
पुण्यक्षये च शप्तास् तु सम्प्राप्ते तु युगान्तरे ।
नर्मदातीरवासी यो मार्कण्डेयो महामुनिः
स दास्यत्य् उपदेशं वो येन मोक्षम् अवाप्स्यथ ।
ततः कालेन महता मार्कण्डेयं मुनिं गताः
दैवयोगेन ते सर्वे कल्पगा तीरवासिनम् ।
अभिवाद्य यथा न्यायं तम् ऋषिं प्रणिपत्य च
स्थिताः स्वकर्म तत्रैव व्याहरन्तः परस्परम् ।
दृष्ट्वा तांश् चिन्तयामास मार्कण्डेयो महामुनिः
मिथुनं व्याघ्ररूपेण व्याहरन् मानुषीं गिरम् ।
केन कर्मविपाकेन ब्राह्मणा ब्रह्मराक्षसाः
एवं संचिन्त्य मार्कण्डो भारद्वाजम् अथाब्रवीत् ।
दम्पती व्याघ्ररूपेण ब्राह्मणा ब्रह्मराक्षसाः
यूयं च विकृताकाराः कथयध्वं कथं च तत् ।
भारद्वाज उवाच:
शृणु ब्रह्मन् समासेन कथ्यमानं वचो मम
भविष्यभूततत्त्वज्ञ त्रिकालज्ञ त्रिवेदवित् ।
बभ्रुर् नामा चक्रवर्ती पुण्ड्रवर्धनसंस्थितः
सुधर्मा नाम तस्यैव धर्मपत्नी पतिव्रता ।
एकदा श्राद्धकाले तु नातिथिं प्राप्तवान् द्विजम्
संचिन्त्याथ तद् आत्मानम् आगतो ह्याश्रमं मम ।
पादौ जग्राह शिरसा ततो वचनम् अब्रवीत्
पितॄणां श्राद्धकालो मे प्रसादः क्रियतां मयि ।
ततो मयोपदिष्टो ऽसौ मुनींस् त्वं भोजयाधुना
महोक्षं शातयित्वा तु भोजितास् ते तपोधनाः ।
शप्तो मया च शीघ्रं त्वं व्याघ्रयोनिं गमिष्यसि
निर्भर्त्स्य मां च तत्पत्नी शशाप ब्रह्मराक्षसाः ।
यूयं भवत वै सर्वे मरुदेशे क्षुधार्दिताः
ब्रह्माणं च ततः प्राप्ता विवादेन परस्परम् ।
ब्रह्मणा प्रेषितास् ते ऽमी त्वत् सकाशम् इहागताः
एतत् ते कथितं सर्वं कारणं विकृते महत् ।
नान्यत् स्थानं प्रपश्यामो यत्रास्माकं स्थितिर् भवेत्
न दिवा नैव रात्रिश् च न सूर्यो न च चन्द्रमाः ।
न ग्रहा नैव ऋक्षाणि ऋषयो यत्र मण्डलम्
सरितः सागराः शैला भूतग्रामं चतुर्विधम् ।
आसीद् इदं तमो भूतमादि मध्यान्तवार्जितम्
मुग्धा वयं न जानीमो न चाज्ञायत किंचन ।
न्यग्रोधं नर्मदामध्ये मेघाभं कालरूपिणम्
त्वां वै सर्वद्विजश्रेष्ठं नान्य पश्यामि किंचन ।
त्वं पिता नो गुरुश् चैव हरिर् धाता स्वयं शिवः
अकामतः कृतं पापं स्वयम् एतद् उपार्जितम् ।
त्वत्प्रसादात् मुनिश्रेष्ठ मुञ्चामो घोरकिल्बिषात्
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैर् अपि ।
अवश्यम् एव भोक्तव्यं कृतं कर्म शुभाशभम्
मार्कण्डेय उवाच:
शाकल्यस्याश्रमं पुण्यं ब्रह्मर्षिगणसेवितम् ।
वैदूर्यात् पश्चिमे भागे यत्र देवो महेश्वरः
तत्र गत्वा च यूयं वै तपश्चोग्रं करिष्यथ ।
जपध्यानपरा नित्यं कन्दमूलफलाशिनः
एवं द्वादशवर्षाणि संतिष्ठध्वं द्विजोत्तमाः ।
यावद् वै वेदमानेन पुनः सृष्टिः प्रवर्तते
तमो भूतम् इदं सर्वं न प्राज्ञायत किंचन ।
सर्वं चकार भगवान् महाकालवपुर्धरः
प्राणिनां कर्मणा ह्येतज् जगत्कालवशङ्गतम् ।
वायुरग्निर्जलं पृथ्वी भूतग्रामश् चतुर्विधः
कालस्य भोजनं सर्वं भस्मपुञ्जम् इवाभवत् ।
नाश्चर्यम् अत्र कर्तव्यं पुनः सृष्टिर् भविष्यति
तस्य तद्वचनं श्रुत्वा सर्वे ते पापयोनयः ।
नमस्कृत्य मुनिश्रेष्ठं मार्कण्डं कल्पवासिनम्
राजा च राजपत्नी च ऋषयो विमलेश्वरम् ।
जग्मुः कालेन महता पुनःसृष्टिः प्रवर्तिता
स्वयं प्रजापतिर् ब्रह्मा ससर्ज विविधाः प्रजाः ।
कलाः काष्ठा मुहूर्ताश् च जगत्स्थावरजङ्गमम्
सरितः सागरान् गुल्मान् पर्वतां च लतास् तथा ।
आपो ऽग्निं वै तथा वायुं भूतग्रामं चतुर्विधम्
सूर्यं च दक्षिणे नेत्रे सो ऽसृजत् प्राणिनस् तथा ।
वामनेत्रे हिमांशुं च स तथा पर्यकल्पयत्
एतद् ऋक्षवरैः सार्द्धं पवित्रं ध्रुवमण्डलम् ।
विवस्वतः प्रभां चैव सर्वलोकप्रकाशिनीम्
सृष्टा चान्द्रमसी ज्योत्स्ना दिवा रात्री तथैव च ।
अपरेषु च द्वीपेषु न सूर्यो नैव चन्द्रमाः
रौद्री प्रभा ऽस्ति तत्रैवं पुनः सृष्टिः प्रवर्तिता ।
पूर्णे तु द्वादशे वर्षे शापान्ते समुपस्थिते
अर्चयित्वा महेशानं रेवाव्याघ्रसमागमे ।
भारद्वाजादयः सर्वे ब्रह्मलोकम् अवाप्नुयुः
कामिकं यानम् आरुह्य राजा मुनियुतस् तदा ।
तीर्थस्यास्य प्रभावेण उमामाहेश्वरे पुरे
व्याघ्रेश्वरो व्याघ्रकर्तृसङ्गमे त्रिदशार्चितः ।
अन्यल् लिङ्गं न पश्यामि दिव्यं वै विमलेश्वरात्
अर्चनात् तस्य लिङ्गस्य दर्शनात् स्पर्शनात् तथा ।
ब्रह्महत्या प्रणश्येत पापेष्व् अन्येषु का कथा
तीर्थेषु श्राद्धकरणात् पितॄणाम् अक्षया गतिः ।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च
तीर्थस्यास्य प्रभावेण लोके क्रीडन्ति वैष्णवे ।
एतत् ते कथितं सर्वं यथादृष्टं यथाश्रुतम्
श्रवणात् कीर्तनाद् अस्य अश्वमेधफलं लभेत्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0