भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 3

3.1

इति श्रीरेवाखण्डे आदिकल्पकथनं द्वितीयो ऽध्यायः ॥
र्क्स् अध्याय 3
युधिष्ठिर उवाच:
रेवा ऽवतरणं पुण्यं सङ्गमं लिङ्गमर्चितम् ।
तीर्थयात्राप्रमाणश् च युगमन्वन्ताराणि च

3.2

पर्वतस्यतु माहात्म्यं तत्र नद्यां यथोचितम् ।
पर्वकालस्तु देवानां तीर्थे तीर्थे विशेषतः

3.3

पत्तनस्य तु माहात्म्यं तत्र वासं यथोचितम् ।
भृगोस् तु कीर्तनं पुण्यं ब्रह्महत्याविमोचनम्

3.4

केना ऽवतीर्य कार्येण जम्बूद्वीपे सरिद्वरा ।
शिवलोकं गता सा तु तन् मे वद महामुने

3.5

उक्तानुक्ताश्च यत् किंचित् कथयस्व प्रसादतः ।
मार्कण्डेय उवाच:
श्रूयतां राजराजेन्द्र कथ्यमानं निबोध मे

3.6

हिरण्यकशिपुश्चासीद् युगे चाद्ये महा ऽसुरः ।
शिवप्रसादसम्पन्नो ह्यलं मातृबलोत्कटः

3.7

निर्जिता देवतास् तेन पलायनपरायणाः ।
जग्मुः शरणमुद्विग्ना भयार्ता भयविह्वलः

3.8

शङ्खचक्रधरं देवं ससारार्णवतारणम् ।
शरणश्च प्रपन्नाः स्मो माधवं मधुसूदन

3.9

अग्निहोत्राश् च वेदाश्च न देवानां च याजनम् ।
न स्वाध्यायो न यज्ञाश्च न हुतं पितृतर्पणम्

3.10

व्यावितं दानवैर् दुष्टैर् धर्मकर्म च नाशितम् ।
एतस्मिन्नन्तरे राजन् विष्णुना प्रभविष्णुना

3.11

दैत्याश्च निहतास् सर्वे नृसिंहवपुषा तु ते ।
पुनःप्रवर्तते धर्मो देवब्राह्मणयाजनम्

3.12

क्षयिता दानवास् सर्वे पापकर्म्मरता ऽधमाः ।
गता तेनैव कार्येण नर्मदा लोकधारिणी

3.13

स्वारोचिषे ऽन्तरे प्राप्ते आदिकल्पे कृते युगे ।
अवतारं पुनर्मर्त्ये देवी त्रिदशपूजिता

3.14

करिष्यति नरश्रेष्ठलोकानां हितकाम्यया ।
धर्मकर्मरतं ज्ञात्वा मर्त्यं सुरगणार्चितः

3.15

मार्कण्डेय उवाच:
आसीत्पुरा चक्रवर्ती सोमवंशे पुरूरवाः ।
शशास पृथिवीं सर्वां यथाशक्रस्त्रिविष्टपम्

3.16

एकदा स नृपश्रेष्ठः सभामध्ये पुरूरवाः ।
पप्रच्छ ब्राह्मणान् वृद्धान् वृद्धसेवी धृतव्रतः

3.17

यज्ञादिभिर्विना केन मानवाः पापमोहिताः ।
स्वर्गं प्रापुरुपायेन तन्मे वद यथातथम्

3.18

ब्राह्मणा ऊचुः:
आस्ते स्वर्गे महाराज नर्मदा लोकपावनी ।
अवतारयतां स्वर्गाल्लोकानां पापहारिणीम्

3.19

तेषां तद्वचनं श्रुत्वा द्विजानां विधृतामनाम् ।
आराधयामास देवमयुतं साग्रमेव च

3.20

कन्दमूलफलैः शाकैर्जलाहारैस् तथापि सः ।
शिवभक्तिपरो नित्यं विशुद्धेनान्तरात्मना

3.21

ततस्तुष्टो महादेवो वरं वरय पुत्रक ।
ददामि ते न सन्देहो यथेष्टं मनसेप्सितम्

3.22

पुरूरवा उवाच:
यदि तुष्टो महादेव वरं दातुं ममेच्छसि ।
हिताय सर्वलोकानाम् अवतारय नर्मदाम्

3.23

नवखण्डास् सप्तद्वीपास् त्व् आपगास् सरितः तथा ।
निमग्नं नरके घोरे जगत्सर्वं मया श्रुतम्

3.24

लक्षयोजनपर्य्यन्तं जम्बूद्वीपं निराश्रयम् ।
न देवास्तृप्तिमायान्ति न मातृपितृमानुषाः

3.25

एतच्छ्रुत्वा महादेवो नरदेवस्य भाषितम् ।
हर उवाच:
उवाच दुर्लभं देवैरयाच्यं याच्यते नृप

3.26

वरमन्यं प्रयच्छामि वर्जयित्वा तु नर्मदाम् ।
पुरूरवा उवाच:
नान्यं वरं महादेव प्राणत्यागे ऽपि प्रार्थये

3.27

ज्ञात्वा तु निश्चयं राज्ञस्तपसोग्रेण साधनम् ।
आज्ञापिता मेकला सा ऽवतर त्वं सुरेश्वरि

3.28

पुरूरवाविपाकेन मर्त्यलोकहितं कुरु ।
आज्ञापितागता सा च शिवस्याग्रे व्यवस्थिता

3.29

कृताञ्जलिपुटा भूत्वा ममादेशो ऽद्य दीयताम् ।
हर उवाच:
स्वर्गात् प्रयाहि रेवे त्वं मर्त्यलोकं ममाज्ञया

3.30

पुरूरवस् तपः सत्यं कुरु कल्याणि साम्प्रतम् ।
नर्मदोवाच:
कथमीश निराधारा स्वर्गाद् यास्याम्यहं धराम्

3.31

ततस्तद्वचनं श्रुत्वा देवदेव उमापतिः ।
आवाहयामास सर्वानष्टौ कुलनगोत्तमान्

3.32

उवाच पर्वतान् देवः कः सरिद्धारणे क्षमः ।
पर्वता ऊचुः:
शतधा भेदम् आयान्ति जलाघातान् महाद्रयः

3.33

अभाषत ततो विन्ध्यो धर्तुमुत्सहते नदीम् ।
मम पुत्रः सुरेशाग्र्य त्वत्प्रसादान् न संशयः

3.34

पर्यङ्क इति विख्यातः कन्दर्पदृढविक्रमः ।
ज्येष्ठः सर्वगणैर् युक्तो मान्यः सर्वमहीभृताम्

3.35

देवैरपि च दुर्ज्ञेयः शिवायाश् चर्चने रतः ।
सन्त्येव पर्वतास् सर्वे यद्यपीह महेश्वर

3.36

तथापि धारणे शक्तः स एवेह न संशयः ।
अशक्ता विकला वृद्धास् सर्व एव महीधराः

3.37

अनुज्ञां देहि पर्यङ्कः क्षमस् तां धर्तुम् आपगाम् ।
अनुज्ञातश् च देवेन पर्यङ्कः स नगोत्तमः

3.38

उवाच धारयिष्ये ऽहं त्वत् प्रसादान् महेश्वर ।
ततः प्रचलिता देवी मूर्ध्नि पर्यङ्कभूभृत

3.39

जलौघवेगभ्रमणात् सशैलवनकानना ।
प्लाविता वसुधा सर्वा अकालकलितं जगत्

3.40

स्तुता देवगणैः सर्वैस् तदा मेकलकन्यका ।
मर्यादां वह कल्याणि लोकानां हितकारिणी

3.41

त्वया व्याप्तम् इदं सर्व त्रैलोक्यं सचराचरम् ।
ततः संवृतरूपेण शिवाज्ञातश् च मेकला

3.42

प्रमाणतो योजनानां सहस्राण्येकविंशति ।
रसातलं सा विविशे तर्पयित्वा पितामहान्

3.43

स्पृश मां त्वं स्वहस्तेन इत्युक्तः स पुरूरवाः ।
पीत्वा च सलिलं दत्ते पितृभ्यश् च तिलोदकम्

3.44

अगमन् परमं स्थानं यत् सुरैर् अपि दुर्लभम् ।
पवित्रं परितस् सर्वं त्रैलोक्यं सचराचरम्

3.45

सेव्यते तेन कार्य्येण नर्मदा सप्तकल्पगा ।
एतत् ते कथितं राजन्न् आख्यानं च शिवोदितम्

3.46

वैवस्वतम् इदानीं तु द्वापरान्ते समुद्यते ।
त्वं राजा भ्रातृभिः सार्द्धं सत्यसंधो दृढव्रतः

3.47

त्रेतायाः प्रथमे पादे गङ्गा भागीरथी स्मृता ।
अदहत् कपिलश् चास्य पितॄणाम् अयुतानि षट्

3.48

मोहिताम् आयया विष्णोर् गता सप्तरसातलम् ।
एव मन्दाकिनी नाम त्वन्या गङ्गा सरिद्वरा

3.49

मेकलातोयसम्पूर्णास् सागरास् सप्तयन्त्रिताः ।
तृतीये च तथा पादे अवतीर्णा सरस्वती

3.50

स्थानेश्वरगता सा तु पुनर्गङ्गा समागमे ।
गङ्गाकनखले पुण्या गङ्गासागरसङ्गमे

3.51

ऊर्ध्वतीर्थे प्रयागे च वाराणस्यां विशेषतः ।
प्राची सरस्वती यत्र कुरुक्षेत्रे च पुण्यदा

3.52

प्रणष्टे द्वावशादित्ये प्रलये समुपस्थिते ।
सप्तकल्पक्षये वृत्ते न मृता तेन नर्मदा

3.53

सरितश् च क्षयं यान्ति गङ्गाद्याश् च सहस्रशः ।
नर्मदा तिष्ठते देवी सप्तकल्पानुगामिनी

3.54

ब्राह्मी सरस्वती मूर्तिवैष्णवी त्रिपथा स्मृता ।
नर्मदा शाङ्करी मूर्तिर् नद्यस् तिस्रस्त्रिदेवताः

3.55

गङ्गा च यमुना चैव सरयूश् च सरस्वती ।
शतभागा चन्द्रभागा रम्या सिन्धुर् महानदी

3.56

इरावती च कपिला नर्मदा सवितस्तिका ।
दण्डकी गण्डकी चैव घर्घरा च महानदी

3.57

शोणो महानदश् चैव वेदिका च तरङ्गिणी ।
ब्रह्मवाहा विष्णुवाहा सारङ्गा गौतमी तथा

3.58

विश्ववाहा धेनुमती अपारा अपरा तथा ।
वेत्रवती च कुमुदा महातापी पयोष्णिका

3.59

वेणा च दुग्धिका शिप्रा ऽजहासा ऽभ्रमती तथा ।
कृष्णा भीमरथी चैव तुङ्गभद्रा महानदी

3.60

गोदावरीति विख्याता गङ्गा सा दक्षिणा स्मृता ।
नद्यश् चैव तथा चान्यास् सर्वतीर्थानि सागराः

3.61

सर्वास्ताः प्रलयं यान्ति वर्जयित्वा तु कल्पगाम् ।
गङ्गा किं वर्ण्यते देवी हरेण शिरसा धृता

3.62

गौरी वार्द्धशरीरस्था शिवस्य परमेष्ठिनः ।
नर्मदा वर्ण्यते देवी सप्तकल्पानुगामिनी

3.63

ते देशाः पर्वताः पुण्यास्ते ग्रामास्ते ऽपि चाश्रमाः ।
यत्र याता सरिच्छ्रेष्ठा नर्मदा सप्तकल्पगा

3.64

त्रिभिः सारस्वतं पुण्यं सप्ताहेन तु यामुनम् ।
सद्यः पुनाति गाङ्गेयं दर्शनाद् एव नर्मदा

3.65

रेवातटेषु ये वृक्षाः पतिताः कालपर्यये ।
नर्मदातोयसंस्पृष्टास् ते ऽपि यान्ति पराङ्गतिम्

3.66

रेवाया यत्र कुत्रापि सङ्गमे भरतर्षभ ।
स्नानं दानं जपो होमः स्वाध्यायः पितृपूजनम्

3.67

देवताराधनं दीक्षा न्यासो देहविसर्जनम् ।
यत् किंचित् क्रियते मर्त्यैस् तद् अनन्तफलं स्मृतम्

3.68

गोसहस्रशतं धेनु महादानानि कृत्स्नशः ।
वैशाख्याम् अथवा माध्यां कार्त्तिक्यां ग्रहणायने

3.69

विषुवे संक्रमे भानोर् व्यतीपाते च वैधृतौ ।
दर्शे दिनक्षये वृद्धौ मन्वादिषु युगादिषु

3.70

कल्पादौ च युगादौ च मातापित्रोः क्षये ऽहनि ।
ओंकारे वा भृगौ क्षेत्रे विशेषाद् उपसङ्गमे

3.71

रेवायां स्नानदानानि जपहोमार्चनादिकम् ।
यः कुर्यान् मनुजश्रेष्ठः सो ऽश्वमेधफलं लभेत्

3.72

ब्रह्महत्यादिभिः पापैर् मुच्यते ना ऽत्र संशय ।
कुलानां शतम् आगामि समतीतं तथा शतम्

3.73

उद्धरेदात्मना सार्द्धं रेवातीर्थावगाहनात् ।
ग्रामार्द्धं ग्रामम् एकं वा यो दद्यान् नर्मदातटे

3.74

स लभेद् विपुलां लक्ष्मीमत्यन्तफलम् अश्नुते ।
नर्मदातीरसम्भूतां मृदं मूर्ध्नि बिभर्ति यः

3.75

बिभर्ति मूर्तिम् अर्कस्यतमोनाशाय केवलम् ।
यत्र यत्र नरः स्नायात् नर्मदाया युधिष्ठिर

3.76

प्राप्नुयाद् अश्वमेधस्य फलम् एतच् छिवोदितम् ।
नर्मदातोयपानस्य स्नानस्य प्रेक्षणस्य च

3.77

अपि चान्द्रायणशत तुल्यं भवति वा न वा ।
नर्मदा कीर्तयेद् यस् तु प्रातर् उत्थाय मानवः

3.78

सप्तजन्मकृतं पापं तत्क्षणाद् एव नश्यति ।
सङ्गमेन समायुक्ता नर्मदालिङ्गसङ्गता ।
हयमेधफलं तत्र स्नात्वा शिवपुरं व्रजेत्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc