स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 38
इति श्रीस्कन्दपुराणे रेवाखण्डे कल्पान्तदर्शनं नाम सप्तत्रिंशो ऽध्यायः ॥
र्क्स् अध्याय 38
युधिष्ठिर उवाच:
ईदृशं यस्य माहात्म्यं तीर्थस्य च परंतप ।
तृप्तिं नैवाधिगच्छामि शृण्वन् वेदविदां वर
समर्थैः सर्वकार्येषु ब्राह्मणैर् वेदपारगैः ।
भूयस् तीर्थस्य माहात्म्यं निवेदय महामते
मार्कण्डेय उवाच:
अस्ति तीर्थं महाराज लिङ्गम् अन्यं यमेश्वरम् ।
दर्शनात् पूजनाद् अस्य यमलोकं न पश्यति
नर्मदादक्षिणे तीरे कपिलायाश् च पश्चिमे ।
विष्णोस् तत्र पुरी रम्या शक्रस्येवामरावती
कल्पकोटियुगं चापि तस्यां तिष्ठति माधवः ।
पुरा देवासुरे युद्धे दानवैर् देवकण्टकैः
निर्जिता देवताः सर्वास् तदासीच् च धरार्दिता ।
ब्रह्माद्या देवताः सर्वा क्षीरोदर्णवशायिनम्
तुष्टुवुः प्रणिपत्यैनं स्तुत्यं चान्तःस्थम् अव्ययम् ।
जय देव जगन्नाथ दैत्यान्तक जनार्दन
वाराहरूपमास्थाय प्रोद्धृता वसुधा त्वया ।
उद्धृता मत्स्यरूपेण वेदाः सागरमध्यतः
कूर्मशेषादिरूपैश् च देवानामार्तिनाशनम् ।
बलिर् वामनरूपेण त्वया बद्धो ऽसुरारिणा
हिरण्यकशिपुर् दैत्यः सर्वलोकभयंकरः ।
त्वया नृसिंहरूपेण निहतो देवकण्टकः
वेदमूल जगन्नाथ रक्ष नः शरणागतान् ।
श्रुत्वा स्तोत्रम् इदं देवो ब्रह्माणं वाक्यम् अब्रवीत्
किम् अर्थं च त्वया ब्रह्मन् क्षीरोदे ऽहं प्रबोधित
ब्रह्मोवाच:
त्वया विना जगन् नाथ क्षोणी छन्ना सुरारिभिः
सूर्येण च विहीनं हि निरालोकं जगद्यथा
विष्णुर् उवाच:
ब्रह्मन् भयं त्यजाशूत्वं दानवो ऽयं दुरासदः ।
अचिरेणैव कालेन घातयामि च दानवम्
एवमुक्त्वा सुरैः सार्द्धमाजगाम जनार्दनः ।
सुदर्शनेन चक्रेण दानवानां शिरांसि च
चकर्त भगवान् विष्णुः सर्वलोकहिताय वै ।
भयार्ता दानवाः सर्वे पलायनपरायणाः
विष्णोस् त्रासात् तु ते सर्वे रसातलतलं ययुः ।
पुनः प्रवर्तितो यज्ञो द्विजदेवतपस्विनाम्
तस्यां पुर्यां महाभाग देवो ऽभूद् दैत्यसूदनः ।
तत्र यस् त्यजति प्राणान् अवशः स्ववशो ऽपि वा
वैष्णवेन विमानेन विष्णुलोके महीयते ।
कपिला पश्चिमायां तु नीलगङ्गासमागता
अष्टायुतानि तीर्थानि विष्णुना प्रेरितानि वै ।
चक्रतीर्थं वामनं च कोटितीर्थं युगंधरम्
तत्र स्नात्वा नरो राजन् कोटितीर्थफलं लभेत् ।
सुदर्शनं नाम तीर्थं दैत्यसूदनम् एव च
विष्ण्वावर्तं शिवावर्तं लक्ष्म्यावर्तं तथैव च ।
तत्र यद् दीयते दानं तस्य संख्या न विद्यते
विष्णोस् तु प्रीणनं कृत्वा अनन्तफलम् अश्नुते ।
क्रोशमात्रप्रमाणं हि विष्णुक्षेत्रं प्रकीर्तितम्
न विशेद् ब्रह्महत्या च सत्यम् एतच्छिवोदितम् ।
मासोपवासं यः कुर्याद् अग्निहोत्रं तथैव च
पतिव्रता त्वं सत्यं च स्वाध्यायं यज्ञकर्म च ।
चान्द्रायणं पराकं च पितॄणां च तिलोदकम्
पितरस् तस्य तृप्यन्ति लोके क्रीडन्ति वैष्णवे ।
एकरात्रं त्रिरात्रं च कृच्छ्रं सान्तपनं तथा
अतिकृच्छ्रं पर्णकृच्छ्रं तथा ऽन्यद् वैष्णवं व्रतम् ।
एकादश्यां न भुङ्क्ते यः पक्षयोर् उभयोर् अपि
स गच्छति परं स्थानं यत्रास्ते भगवान् हरिः ।
अन्यक्षेत्रात् कोटिगुणं फलं वै केशवो ऽब्रवीत्
तत्र जप्तं तपस् तप्तं सर्वं भवतु चाक्षयम् ।
श्रवणे द्वादशी पुण्या रोहिण्याम् अष्टमी शुभा
तत्रोपोष्य महाराज विष्णुलोके महीयते ।
चाण्डालः श्वपचो वा ऽपि तिर्यग्योनिगतो ऽपि वा
अत्र यस् त्यजति प्राणान् विष्णुलोकं स गच्छति ।
कार्त्तिके चैव वैशाख उपवासं करोति यः
दशकोट्य् उपवासानां फलं प्राप्नोति मानवः ।
शङ्करेण पुरा गीतं पुराणे स्कन्दकीर्तिते
मासोपवासिनो दृष्ट्वा तत्रैव च पतिव्रताः ।
धर्मराजः स्वयं गत्वा अर्घं तेभ्यो निवेदयेत्
षष्टियानसहस्रैस् तु आगतो भगवान् प्रभुः ।
सहस्रयोजनं यावद् आयाति भगवान् यमः
शुक्लवस्त्रपरीधानो धर्मतेजो वपुर् धरः ।
स्थित्वा यानस्य चैवाग्रे भक्त्या पादौ च वन्दते
प्रदृश्य वैष्णवं लोकं ततो गत्वा निवर्तते ।
प्रत्यागतेषु यानेषु अपृच्छन् स्वेच्छया यमम्
ब्रह्मणो मानसाः पुत्राः सप्त चैव महर्षयः ।
कस्माच् च कारणाद् धर्म पादचारी गतः स्वयम्
कथयस्व महाभाग परं विस्मयम् आगताः ।
प्रहस्य चाब्रवीद् धर्मः शृण्वन्तु मुनिसत्तमाः
पतिव्रतानां दीप्तिं च दीप्तिं मासोपवासिनाम् ।
अशक्ता द्रष्टुम् एतासां विमानान् दूरतः स्थितान्
ताभ्यः प्रत्यागताः सर्वे मम भृत्या भयंकराः ।
एतस्मात् कारणाद् विप्राः पादचारी गतो ह्य् अहम्
मार्कण्डेय उवाच:
माहात्म्याच् चामरावत्यां हरेर् अमिततेजसः ।
वासश् च यजनं तत्र कीर्तितं कलिनाशनम्
अथान्यः परमो देवो ब्रह्मेश इति विश्रुतः ।
रेवाया उत्तरे कूले संस्थितः पापनाशनः
अर्चनात् तस्य देवस्य नश्येतैनो युधिष्ठिर ।
पितरस् तृप्तिम् आयान्ति ब्रह्मलोकम् अवाप्नुयुः
लङ्केश्वराद् दक्षिणतः सिद्धलिङ्गं प्रकीर्तितम् ।
अर्चनात् स्पर्शनात् तस्य गाणपत्यम् अवाप्यते
विश्वेश्वरं महालिङ्गं सर्वदेवम् अयं शुभम् ।
शुक्लाष्टम्यां च वैशाखे लिङ्गायुतफलं लभेत्
अर्चनात् तस्य लिङ्गस्य शिवस्यानुचरो भवेत् ।
ततो गच्छेन् महाराज रेवाया उत्तरे तटे
पापप्रणाशनं चैव लिङ्गं परमसिद्धिदम् ।
अर्चनात् तर्पणात् स्नानाद् ब्रह्महत्यां व्यपोहति
ऋणानां मोचनं चैव लिङ्गं पापप्रणाशनम् ।
अनेकभाविकं चैव ऋणं तस्य प्रणश्यति
तिलोदकप्रदानेन ऋणमोचनदर्शनात् ।
पितरस् तस्य तृप्यन्ति यावच् चन्द्रार्कतारकम्
अथान्यत् परमं लिङ्गं त्रिषु लोकेषु विश्रुतम् ।
दारुवने सिद्धलिङ्गं कथं पश्यन्ति कश्मलाः
नर्मदाचरुसम्भेदे स्नानं कृत्वा यथोदितम् ।
स्नापयित्वोदकेनेशं बिल्वपत्रैश् च पूजनात्
न तस्य पुनर् आवृत्तिर् उमामाहेश्वरात् पुरात्
चतुष्केश्वरं सिद्धलिङ्गम् आमलक्याः प्रमाणतः ।
अर्चितं वै सुरैर् दैत्यैर् न तं पश्यन्ति मानवाः
करोत्य् अत्र तु यः श्राद्धं पुत्रः परमधार्मिकः ।
पितरस् तस्य तृप्यन्ति यावद् आहूत संप्लवम्
शाकल्यस्याश्रमं पुण्यं योजनायुतविस्तरम् ।
यज्ञपर्वतम् आसाद्य निःसृता चरुका नदी
शक्रेणेष्टं पुरा तत्र बृहस्पतिपुरोधसा ।
एतत् पुण्यतमं लोके गीयते सर्वदैवतैः
चन्द्रसूर्योपरागे तु यत्फलं कुरुजाङ्गले ।
रेवाचरुकसंयोगे तत्फलं शिवकीर्तितम्
तत्राख्यातं दारुवनं भुवि सर्वैर् निषेवितम् ।
मुनीनां षष्टिसाहस्रैस् त्रेतातपसि संस्थितैः
कन्दमूलफलाहारैर् अग्निहोत्रपरायणैः ।
एतत् तीर्थप्रभावेण गतास् ते ब्रह्मणः पुरीम्
निहत्य चान्धकं तत्र ननर्त भगवाञ्छिव ।
गणानां नायकाः सर्वे नानावाद्यानवादयन्
तत्र नृत्यति देवेशः सर्वा नृत्यन्ति देवताः ।
तेन दारुवनं ख्यातं लिङ्गं पापप्रणाशनम्
अर्चनात् तस्य देवस्य गाणपत्यम् अवाप्नुयात् ।
विमलेश्वरं तत्र लिङ्गं सर्वदेवम् अयं शुभम्
स्नानात् तत्र दिवं यान्ति ये मृता न पुनर्भवाः ।
निर्मलीकृतदेहास् तु कृतास् तत्र सुरासुराः
पिनाकिना महाराज नीताः सर्वे त्रिविष्टपम् ।
तिलोदकैः पिण्डदानैः पितॄन् प्रीणाति यो नरः
स गच्छति परं स्थानं यत्र देवो महेश्वरः ।
चन्द्रसूर्यग्रहे प्राप्ते दानसंख्या न विद्यते
शिवम् अभ्यर्च्य तत्रैव गाणपत्यम् अवाप्नुयात् ।
विमलेश्वरं तत्र लिङ्गं स्वयं विद्धि महेश्वरम्
व्याघ्रेश्वरं यत्र लिङ्गं व्याघ्री यत्र दिवं गता ।
तिलोदकप्रदानेन हविषा पिण्डदानतः
पितॄन् उद्धरते पुत्रः शतपूर्वांस् तथा परान् ।
वसेत् स वारुणे लोके यावद् इन्द्राश् चतुर्दश
अर्चनात् तस्य देवस्य कीर्तनाच् छ्रवणाद् अपि ।
इन्द्रलोकम् अवाप्नोति सत्यम् एतन् मयोदितम्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0