भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 37

37.1

इति श्रीस्कन्दपुराणे रेवाखण्डे कपिलावतारो नाम षट्त्रिंशो ऽध्यायः ॥
र्क्स् अध्याय 37
मार्कण्डेय उवाच:
स्वायम्भुवे ऽन्तरे प्राप्ते आदिकल्पे कृते युगे ।
अरुन्धतीप्रसूताया दाक्षायण्यास् सुतो ऽभवत्

37.2

विश्रवां नाम राजा ऽभूच् छक्रतुल्यपराक्रमः ।
मथुराधिपतिः श्रीमांश् चक्रवर्ती महाबलः

37.3

निर्जिता ऽमरदैत्याश् च स राजा मघवा त्विव ।
सर्वकामसमृद्धाश् च ब्राह्मणाश् चेतरे जनाः

37.4

एवं शासयतः पृथ्वीं धनधान्यसमाकुलाम् ।
न दुर्भिक्षं न दारिद्र्यं क्वचिद् अस्तिं महीतले

37.5

एतस्मिन्न् अन्तरे प्राप्ते प्रस्थितो ऽमरकण्टकम् ।
स्नात्वा च कोटितीर्थे वै समभ्यर्च्य महेश्वरम्

37.6

दक्षिणां मूर्तिम् आश्रित्य तस्य देवस्य भारत ।
समाधिस्थो भवेद् यावत् स राजा धर्मवत्सलः

37.7

तावत् पश्यति मध्याह्ने प्रतीच्यादित्यमण्डलात् ।
द्वौ सूर्यौ पूर्वदिग्भागे गतौ द्वौ दाक्षिणां दिशम्

37.8

द्वौ पातालं तथा चोर्द्ध्वं द्वौ सूर्यौ चण्डरूपिणौ ।
कालः संवर्तको वह्निः प्रजज्वाल तदा नृप

37.9

रौद्राश् च दारुणा वाता ववुः प्रलयकारिणः ।
दिग्दाहो भूमिकम्पश् च उत्कापाताश् च दारुणाः

37.10

पतितास् सिद्धगन्धर्वा देवलोकात् सकिन्नराः ।
विद्याधरास् तथा यक्षाः कर्मच्छेदादिव व्युताः

37.11

विद्याधर्यो रुदन्त्यश् च तथैवाप्सरसस् तथा ।
प्रजज्वाल महावह्णिः सशैलवनकाननाम्

37.12

भस्मीकृत्य धरां सर्वां रेवाकूलम् इवागमत् ।
तृषार्तो दाहसन्तप्तस् तदाभूत् नृपसत्तमः

37.13

समुद्यतः पयः पातुं यावत् पश्यति मेकलाम् ।
तावत् तन् मध्यमार्गे तु वारि किंचिन् न विद्यते

37.14

प्रवाहो रेणुभूतश् च दृश्यते न तु नर्मदा ।
सरितः सागरान् छैलान् बभ्राम स सरांसि च

37.15

जलं पातुं न कुत्रापि लब्धवान् स नृपोत्तमः ।
अपश्यत् नर्मदां देवीं विन्ध्यं गिरिवरोत्तमम्

37.16

प्रविष्टो नर्मदामध्ये नृपश् चिन्ताकुलो ऽभवत् ।
जलं विनाद्य मरणं नियतं मे न संशय

37.17

अन्तर्हितं जगत् कृत्स्नं न च किंचिज् जलं विना ।
चिन्तयित्वा नृपश्रेष्ठ ओंकारं च समाश्रयत्

37.18

पर्वतारोहणं यावत् तृषार्तः कर्तुम् इच्छति ।
तावत् पश्यति राजासौ तत्र वै कल्पशाखिनम्

37.19

फलितं पुष्पितं रम्यं शाखाभिर् उपशोभितम् ।
तं दृष्ट्वा शयितो राजा छायां प्राप्य सुशीतलाम्

37.20

शरीरम् अमृतं भूतं जीविताशाभवत् तदा ।
अपश्यत् पुरुषं तत्र शयानं दीप्ततेजसम्

37.21

तद् उच्छ्वासेन लोका वै कम्पिताश् चोर्द्ध्वशस् तदा ।
पातालानि तथा सप्त निःश्वासेन युधिष्ठिर

37.22

कुम्भाः पार्श्वे च चत्वारस् तस्य तिष्ठन्ति सोदकाः ।
तान् दृष्ट्वा चिन्तयामास तृषार्तो नृपसत्तमः

37.23

बोधये सुखसुप्तं नो नादत्तं च पिबाम्य् अहम् ।
किं करोमीती संचिन्त्य तं प्रणम्य स्थितो नृपः

37.24

मानुषीं तनुम् आश्रित्य स्थितो ऽयं पुरुषोत्तमः ।
स्वयं प्रजापतिर् देवो हर्ता कर्ता जगत्प्रभुः

37.25

ततो ऽपश्यद् द्वितीयं च पुरुषं दीप्ततेजसम् ।
वृषारूढं त्रिनेत्रं च शूलपाणिपिनाकिनम्

37.26

भस्मोज्ज्वलितगात्रं च जटामुकुटधारिणम् ।
कपालमालाभरणं तडिज्ज्योतिःसमप्रभम्

37.27

दंष्ट्राकरालं पुरुषं पिङ्गाक्षं शशिशेखरम् ।
तं दृष्ट्वा तादृशं रूपं सर्वेषां लोमहर्षणम्

37.28

राजा तुष्टाव देवेशं सर्वदेवनमस्कृतम् ।
जय देव महादेव आदिदेव नमो ऽस्तु ते

37.29

तृषा मां बाधते देव शूलपाणे शृणुष्व तत् ।
प्रयच्छ शीतलं तोयं येन जीवामि शङ्कर

37.30

तस्य तद्वचनं श्रुत्वा प्रहसन्न् अब्रवीच् छिवः ।
जल्पतस् तस्य देवस्य चास्ये दृष्टाः समन्ततः

37.31

सुरा ब्रह्मर्षयो लोकाः सप्त चैव चराचराः ।
पातालानि च भूतानि गन्धर्वोरगराक्षसाः

37.32

ततो ददर्श नारीं च समुद्विग्नां समागताम् ।
रजो गुण्ठित सर्वाङ्गीं रुधिरेण परिप्लुताम्

37.33

अनन्तदीप्ततेजस्कां मारुतोद्धूतमूर्धजाम् ।
बालं निधाय वामोरौ कन्यां चैव स्तनान्तरे

37.34

ब्रह्मसूत्रत्रिदण्डाभ्यां कुण्डलाभ्यां अलंकृताम् ।
दृष्ट्वा तां स ततो राजा प्रोवाच वचनं तदा

37.35

जय देवि महादेवि लोकानुग्रहकारिणि ।
तृषयाप्लुतदेहो ऽहं जलं पायय माम् इह

37.36

तस्य तद्वचनं श्रुत्वा तं प्राह परमेश्वरी ।
स्तन्यं पिब महीप त्वं यदि त्वां वाधते तृषा

37.37

तस्यास् तद्वचनं श्रुत्वा चिन्तयामास पार्थिवः ।
स्तनं पास्यामि देवेशि नारी वचनम् अब्रवीत्

37.38

प्रतिज्ञातं मया पूर्वं सुतेजस् ते नृपोत्तम ।
अग्रे न्यस्य स्तनं त्वां वै पश्चाद् दास्यामि बालकम्

37.39

तस्मात् पिब महाभाग स्तन्यं मे नास्ति पातकम् ।
तत प्रोवाच नृपतिस् तां नारीं कामरूपिणीम्

37.40

अकार्यम् एतत् सर्वेषां मादृशानां कुतः कथा ।
अन्यो ऽन्यं जल्पतां तेषां सा तत्रान्तरधीयत

37.41

क्व गता ऽसि महादेवीत्य् उक्त्वा विस्मयम् आगतः ।
स्वप्नलब्धा यथा वार्ता निष्कला प्रतिभासते

37.42

इन्द्रजालम् अयं यद्वन् मृगतृष्णाजलं यथा ।
एवं चिन्तयतस् तस्य पुनरग्रे व्यवस्थिता

37.43

तां दृष्ट्वैव ततो राजा साष्टाङ्गं प्रणिपत्य च ।
कासि त्वं हि वरारोहे सत्यम् एतद् ब्रवीहि मे

37.44

उमा कात्यायनी गङ्गा वेदमाता सरस्वती ।
ब्रह्माणी च महालक्ष्मीः कथयस्व प्रसादतः

37.45

समानः पुरुषः को ऽयं कुम्भाश् चत्वार एव के ।
वृषारूढस्त्रिनेत्रश् च को ऽयं शूलपिनाकधृक्

37.46

उत्सङ्गे निहितः को ऽयं बालकः का च कन्यका ।
मूर्खो ऽहं नाभिजानामि जननं मरणं यथा

37.47

स्त्र्य् उवाच:
पृथिवीं विद्धि मां राजन् सप्तद्वीपैरलंकृताम् ।
सप्तपाताललोकैश् च सशैलवनकाननाम्

37.48

सरितः सागराः शैलाममोदरनिवासिनः ।
व्याप्तं मया जगत् सर्वं त्रैलोक्यं सचराचरम्

37.49

पर्यङ्कशायिनं देवं शङ्खचक्रगदाधरम् ।
जगद्योनिं हरिं विद्धि संसारार्णवतारणम्

37.50

त्रिनेत्रं शूलपाणिं च विद्धि देवं महेश्वरम् ।
वृषारूढं महादेवं लोकनाथं जगत्पतिम्

37.51

उत्सङ्गस्थं शिशुं विद्धि ब्रह्माणं सृष्टिकारकम् ।
त्रिभिर् व्याप्तं जगत्सर्वं ब्रह्मविष्णुमहेश्वरैः

37.52

जगत्सृष्टिकरो ब्रह्मा स्वयं पालयिता हरिः ।
संहारकारको रुद्रस् त्रिभिर् व्याप्तं जगत् ततः

37.53

कलशांश् चतुरो विद्धि समुद्रान् पर्वतस्थितान् ।
स्तनमध्ये गतां कन्यां नर्मदां विद्धिपावनीम्

37.54

एतच् छ्रुत्वा वचो राजा विस्मयं परमं गतः ।
ततः कालेन महता पुनः सृष्टिः प्रवर्तते

37.55

सर्वलोकहितार्थाय ब्रह्मविष्णुमहेश्वराः ।
कल्पे कल्पे मया दृष्टम् एतत् सर्वं युधिष्ठिर

37.56

न्यग्रोधः कल्पवृक्षश् च ओंकारः सप्तकल्पगा ।
अहं वैदूर्यशैलश् च परलिङ्गानि भारत

37.57

अक्षयं वा ऽव्ययं चैतत् सर्वं जानीहि तत्त्वतः ।
एतत् ते कथितं राजन् यत् पृष्टो ऽहं त्वया ऽनघ

37.58

भक्तस्त्वं श्रवणे श्रद्धा पुराणानां न संशयः ।
श्रवणात् कीर्तनाद् अस्य मुच्यते भवबन्धनात्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc