भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 36

36.1

इति श्रीस्कन्दपुराणे रेवाखण्डे वैदूर्यपर्वतवर्णनं नाम पञ्चत्रिंशो ऽध्यायः ॥
र्क्स् अध्याय 36
मार्कण्डेय उवाच:
वसुदानस् तु राजर्षिश् चक्रवर्ती पुरा ऽभवत् ।
अयोध्याधिपतिः श्रीमान् छक्रतुल्यपराक्रमः

36.2

बुभुजे पृथिवी सर्वां ग्रामम् एकम् इवाथ सः ।
ईजे यागसहस्रेण हयमेधकृतेन च

36.3

सपादलक्षमधिकं सर्वा जीवन्ति च प्रजाः ।
न तत्र दीनो दुःखी वा दरिद्रो वा ऽपि कश्चन

36.4

स्वयं कामदुघा धेनुः पृथिवी सस्यशालिनी ।
एव पालयतस् तस्य पृथिवीं पृथिवीपते

36.5

नर्मदादक्षिणे कूले दैत्यास् त्रिदशकण्टकाः ।
केतुमाली सुकेतुश् च सुमुखो दुन्दुभिस् तथा

36.6

धर्मविघ्नं च कर्तारः समुद्भूताः सुरालये ।
के ऽपि नो शक्नुवन्तीह यज्ञं कर्तुं भयात् तदा

36.7

वसुदानो ऽब्रवीद् वाक्यं वशिष्ठं ब्रह्मवित्तमम् ।
कस्मिंस् तीर्थे हि निर्विघ्नो हयमेधो विधीयते

36.8

यज्ञविद्या विधानेन निर्दिश्य मम कथ्यताम् ।
तस्य तद् वचनं श्रुत्वा वसुदानस्य धीमतः

36.9

वशिष्ठश् चाब्रवीद् वाक्यं राजानं प्रति भारत ।
न शक्यते मुखः कर्तुं हयमेधो विशेषतः

36.10

अमरेश्वरस्य मूर्तिर् वै दक्षिणाशामुखे स्थिता ।
दानवैर् निर्जितास् तत्र सर्वे देवाः सवासवाः

36.11

यज्ञभागं ग्रहीतुं न शक्नुवन्ति कदाचन ।
एतस्मात् कारणाद् राजन् सत्यम् एतत् तवोदितम्

36.12

तस्य तद्वचनं श्रुत्वा वशिष्ठस्य महात्मनः ।
चुकोप वसुदानश् च प्रत्याह च पुरोधसम्

36.13

हत्वैतान् राक्षसान् पापानद्य वै देवकण्टकान् ।
देवानां च प्रसादेन करिष्ये यागम् उत्तमम्

36.14

एवमुक्त्वा ययौ राजा सर्वसम्भारसंवृतः ।
ब्राह्मणैः सहितो विद्वान् ऋत्विग्भिर् वेदपारगैः

36.15

गवां च पञ्चलक्षाणि सवत्सानां पयोमुचाम् ।
सपादलक्षमश्वानां दन्तिनाम् अयुतं तथा

36.16

मणिमाणिक्यरत्नानि हेमरूप्यवसूनि च ।
विविधं भक्ष्यभोज्यं च आज्यं व्रीहितिलांस् तथा

36.17

मण्डपान् यज्ञयूपांश् च समादाय नृपोत्तमः ।
एवं प्रवर्तिते यज्ञे निर्विघ्नेन तु भारत

36.18

आवभृत्योदकैः क्लिन्ना वसुधा हेमनिर्मिता ।
बभूवुर् लुलिता ये तु कर्दमे मृगपक्षिणः

36.19

ते हेमवर्णकाः सर्वे बभूवुस् तत्र भारत ।
युगपत् पूजिता यत्र ब्रह्मविष्णुमहेश्वराः

36.20

होमाच् च पृथक् क्षीराज्यप्रवाहास् तत्र निर्गताः ।
गवां मूत्रप्रवाहश् च तत्राभूत् नृपसत्तम

36.21

स्नानोदकं च देवानाम् ऋषिभिर् वेदपारगैः ।
यत् कृतं तत् प्रवाहश् च तत्रासीत् नृपसत्तम

36.22

प्रवाहेषु च सर्वेषु मिलितेषु तदा नृप ।
आपगा कपिला नाम दृष्टा ब्रह्मर्षिदैवतैः

36.23

नर्मदासङ्गमस् तत्र रुद्रावर्तः प्रकीर्तितः ।
ततस् तु ब्राह्मणाः सर्वे दक्षिणाभिः प्रपूजिताः

36.24

गजाश्वरथमारूढा नानाभरणभूषिताः ।
तुष्टा देवगणाः सर्वे ऊचुस् तं पार्थिवं तदा

36.25

वरं वृणु महाभाग यज्ञेनानेन सुव्रत ।
वसुदान उवाच:
रेवाकपिलसम्भेदे स्नात्वा ऽभ्यर्च्य महेश्वरम्

36.26

विमानैस् त्रिदिवं यान्तु ये मृता न पुनर्भवाः ।
इमं वरम् अहं मन्ये दीयतां मदनुग्रहात्

36.27

देवा ऊचुः:
कामं कामं फलिष्यन्ति चिन्तितास् ते मनोरथाः ।
वरं दत्त्वा च भो राजन् प्रीता वै देवतास् ततः

36.28

स्वं स्वं विमानम् आरुह्य मुदितास् त्रिदिवं ययुः ।
वसुदानो ऽपि राजर्षिर् ब्राह्मणैर् वेदपारगैः

36.29

मुदा परमया युक्तो ह्ययोध्याम् आययौ तदा ।
तीर्थस्यास्य प्रभावेण सान्तः पुरपरिच्छदः

36.30

भोगांश् च पुष्कलान् भुक्त्वा गतो माहेश्वरं पुरम् ।
एतत् ते कथितं सर्वं रेवाकपिलसङ्गमम्

36.31

श्रवणात् कीर्तनाद् अस्य मुच्यते भवबन्धनात्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc