स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 35
इति श्रीस्कन्दपुराणे रेवाखण्डे इन्द्रद्युम्नयज्ञनीलगङ्गावतारो नाम चतुस्त्रिंशो ऽध्यायः ॥
र्क्स् अध्याय 35
युधिष्ठिर उवाच:
वैदूर्यपर्वतं रम्यं सुरसिद्धनिषेवितम् ।
मान्धाता केन कार्येण गतो वै सप्तकल्पगाम्
तथा पाशुपतास्त्रेण हत्वा वै त्रिपुरं हरः ।
पातालं भेदयित्वा तु रसातलतलं ययौ
जालेश्वरं तथा लिङ्गम् उत्थितं केन हेतुना ।
नीलगङ्गा कथं तत्र कल्पगा भेदमागता
बाणासुरः शिवे भक्तः शिवलब्धवरः शुचिः ।
लिङ्गानि तानि तेनेह पूजितानि महामुने
संख्यया नवकोट्यस् तु तानि क्षिप्तानि तत्र वै ।
एतत् सर्वं समासेन कथयस्व महामुने
यथाश्रुतं पुराकल्पे पुराणे स्कन्दकीर्तिते ।
ब्रह्मविष्ण्वादिदेवानां पार्वत्याः षण्मुखस्य च
तथा तु कथ्यतां तात यथोद्दिष्टं शिवेन तु ।
मार्कण्डेय उवाच:
शृणु राजन् महाबाहो कथ्यमानं निबोध मे
स्वारोचिषे ऽन्तरे प्राप्ते आदिकल्पे कृते युगे ।
देवानां सङ्गमं यत्र कैलासे पर्वतोत्तमे
कार्त्तिक्यां च सुराः सर्वे हरं द्रष्टुम् उपागताः ।
तत्र देवगणान् सर्वान् स्कन्दो वचनम् अब्रवीत्
मया श्रुतं च दृष्टं च शिवेन कथितं पुरा ।
अष्टलक्षाणि सार्धानि ग्रन्थे ऽस्मिन् कीर्तितानि च
शिवलोके शिवेनैव निबद्धानि यथा यथा ।
तद् अर्धं वैष्णवे लोके तद् अर्द्धं ब्रह्मणः पुरे
सपादलक्षं सूर्यस्य लोके चैव व्यवस्थितम्
चतुर्भिरधिकाशीतिसहस्राणि तथा क्रमम् ।
ख्यातानि मर्त्यलोके च नात्र कार्या विचारणा
सूतः संग्रहकर्ता च संहितास् तत्र एव च ।
कल्पस्कन्दो महास्कन्दः पुराणं सप्तधा विदुः
सर्गश् च प्रतिसर्गश् च वंशो मन्वन्तराणि च ।
वंशानुचरितं चेति पुराणं पञ्चलक्षणम्
अशक्ता मानुषा लोके अल्पजीवेन जीविकाः ।
युद्धिहीना दुराचारा भविष्यन्ति कलौ युगे
न स्वाध्यायो वषट्कारो न तपो न च याजनम् ।
स्त्रीकामा लोलुपा विप्राः काम्यकृत्यास् तु याचकाः
प्रतिग्रहपरा नित्यं कुटुम्बभरणार्थिनः ।
आत्मानं नैव बुध्यन्ते स्त्रीणां स्नेहवशंगता
कुकर्माणि करिष्यन्ति धर्मिष्ठास्तापसास् तथा ।
कलौ युगे तथा प्राप्ते काले कौला दिगम्बराः
एकवर्णाः प्रजाः सर्वा राजा म्लेच्छो भविष्यति ।
हीने युगे तथा प्राप्ते बौद्धस्थे चैव केशवे
अल्पायुषश् चैव मर्त्या अल्पवीर्यपराक्रमाः ।
नानादेशोपद्रवाश् च भविष्यन्ति महामुने
वेदान् वै प्रार्पयिष्यन्ति द्विजाश् चाण्डालवंशिनः ।
वेदावेशं करिष्यन्ति वेदविक्रयणं तथा
राजद्वारे गमिष्यन्ति धनप्राप्तिसमीहया ।
विक्रयं चाग्निहोत्राणां कन्यानां विक्रयं तथा
करिष्यन्ति द्विजाः सर्वे श्रोत्रिया व्रतवर्जिताः ।
पूर्णे तु द्वादशे वर्षे नराः पलितयौवनाः
दश द्वादशवर्षा तु नारी गर्भधरा भवेत् ।
नारी न पुरुषं मन्येत् न मातापितरौ सुतः
नस्नुषा मन्यते श्वश्रूं दुहिता मातरं तथा ।
एतद् उद्देशतः प्रोक्तं प्रकृतं शृणु भारत
यज्ञं कर्तुं महाराज मान्धाता नृपसत्तमः ।
वैदूर्यपर्वतं प्राप्तं पितॄणां तारणाय च
देवतानां हितार्थं वै जघान त्रिपुरं हरः ।
ज्वलत् पाशुपतास्त्रेण तद् दग्धम् अभवत् पुरा
पातालात् तेन चानीतं लिङ्गं जालेश्वरं तथा ।
कामदं मोक्षदं चैव सदादेवनमस्कृतम्
लोकानां तारणार्थाय नीलगङ्गा समागता ।
मेघराजसमुद्भूता सर्वपापहरा परा
तस्यां श्राद्धं प्रकुर्वीत पितॄणाम् अक्षयेच्छया ।
बाणासुरस्य लिङ्गानि कोटितीर्थे शिवालये
पतितानि जले चैव नर्मदाया नराधिप ।
पूजितानि पवित्राणि भुक्तिमुक्तिप्रदानि तु
बाणलिङ्गानि राजेन्द्र ख्यातानि भुवनत्रये ।
न प्रतिष्ठा न संस्कारः तेषामावाहनादि च
एवम् एव प्रपूज्यानि शिवरूपाणि भारत ।
एतत् ते कथितं सर्वं यत्पृष्टो ऽहं त्वया ऽनघ
शृणु राजन् कथां दिव्याम् अन्यां पापप्रणाशिनीम् ।
अघघ्नी या प्रतीता मे कीर्तयिष्यामि ते ऽनघ
अस्तीह पर्वतः श्रीमान् वैदूर्यो नाम नामतः ।
तत्र पुण्यानि तीर्थानि तिष्ठन्त्यायतनानि च
कामं कामफलैर् वृक्षैः पुष्पितैः फलितैस् तथा ।
दिव्यपक्षिनिनादैश् च वानीरवनराजिभिः
शालैस् तालैश् च सरलैस् तमालैर् उपशोभिता ।
नदी पापहरा पुण्या नर्मदा तत्र भारत
त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च ।
सरितः सागराः शैलादेवाश् च सपितामहाः
नर्मदायां नृपश्रेष्ठ सिद्धगन्धर्वचारणाः ।
स्नातुम् आयान्ति ते सर्वे सर्वसिद्धिस् तु भारत
किं तत्र पर्वते राजन् यत्र विश्वावसुर्मुनिः ।
न यक्षाधिपतिर् यत्र कुबेरो नरवाहनः
वैदूर्यशिखरे पुण्ये तत्र साक्षाद् विवस्वतः ।
नित्यं पुष्पफला यत्र पादपा हरितच्छदाः
बह्वाश्चर्यं तथा तत्र दृश्यते पर्वतोत्तमे ।
पुण्ये स्वर्गोपमे दिव्ये नित्यं देवर्षिसेविते
ह्लादिनी पुण्यतीर्थानां राजर्षे तत्र वै सरित् ।
वैवस्वतान्तरे प्राप्ते राजन्नादिकृते युगे
ओंकारस्यावतारेण सवैदूर्यमयो गिरिः ।
त्रेतायुगे मणिमयो द्वापरे हैमरूपकः
कलौ पापहरः प्रोक्तो यथा देवस् तथा गिरिः ।
एतत् ते सर्वमाख्यातं यथादृष्टं पुरातनम्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0