स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 34
इति श्रीस्कन्दपुराणे रेवाखण्डे पातालेश्वरमाहात्म्यं नाम त्रयस्त्रिंशो ऽध्यायः ॥
र्क्स् अध्याय 34
मार्कण्डेय उवाच:
कथयामि तवाख्यानम् इन्द्रद्युम्नस्य भारत ।
अयोध्याधिपतिः श्रीमान् सूर्यवंशे महीपतिः
बुभुजे स महीं सर्वां सशैलवनकाननाम् ।
चक्रवर्ती नृपश्रेष्ठः सत्यसंधो दृढव्रतः
स शशास महीं सर्वां यथा शक्रो ऽमरावतीम् ।
यज्ञहोमसहस्रैस् तु ददाह वसुधाम् इमाम्
यज्ञोत्सवविवाहैस् तु वेदमङ्गलमङ्गलैः ।
चातुर्वर्ण्यं स्वधर्मस्थं प्राकृता इतरे जनाः
कामं कामदुघा धेनुर् धरणी सस्यशालिनी ।
पप्रच्छ स तु राजर्षिर् वशिष्ठं ब्रह्मवित्तमम्
शक्रश् चाङ्गिरसं यद्वद् अयोध्याधिपतिस् तथा ।
सोमसूर्यान्वयस्यैकं तारणं च पुरोधसम्
हयमेधं महायज्ञं कस्मिंस् तीर्थे यजाम्य् अहम् ।
कथय त्वं प्रसादेन यथा दृष्टं यथा श्रुतम्
वशिष्ठ उवाच:
ब्रह्मर्षयो वेदविदो यथा ते चाब्रुवन् नृप ।
यज्ञो निवर्तितव्यस् तु ऋत्विग्भिर् ब्राह्मणैस् तव
मरीचिः कश्यपश् चापि अङ्गिरा गौतमस् तथा ।
दुर्वासाश् च्यवनो धूम्रः कण्वश् चैव महामुनिः
एते चान्ये च नृपते मुनीन्द्राः शंसितव्रताः ।
पप्रच्छ तान् महाराज इन्द्रद्युम्नो महीपतिः
कस्मिंस् तीर्थे कृतो यज्ञः कामभोगफलप्रदः ।
एतत् सर्वं यथार्थं मे वदन्तु मुनिपुंगवाः
ऋषय ऊचुः:
केचिद् वाराणसीं भूप प्रयागं च तथा परे
अन्ये वै नैमिषं तीर्थं पुष्करं च तथापरे ।
कुब्जाम्रकं तथा चान्ये गङ्गाद्वारमथापरे
मायापुरीं तथा चान्ये सर्वदेवनमस्कृताम् ।
वदन्त्य् अन्ये हिमस्थानं बिल्वकं नीलपर्वतम्
कुशावर्तं तथैवा ऽन्ये तथा रुद्रमहालयम् ।
ईशानं चैव केदारं सर्वतीर्थम् अयं शुभम्
और्वतीर्थं वदन्त्य् अन्ये तथा बदरिकाश्रमम् ।
कालञ्जरं नीलकण्ठं देवदारुवनं तथा
हेमकूटं विरूपाक्षम् अन्ये चण्डीश्वरं तथा ।
भूतेश्वरं भस्मगात्रं प्रभासं शशिभूषणम्
तीर्थान्य् एतानि चान्यानि कथितानि तवानघ ।
मतान्तरं मुनीनां च विविधं परिकीर्तितम्
दुर्वासाश् चाब्रवीद् वाक्यं प्रहसन्न् इव तं नृपम् ।
विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः
वैश्यानां धान्यधनतः शूद्राणां चैव जन्मतः ।
मार्कण्डेये विद्यमाने सप्तकल्पानुवर्तिनि
भविष्यभूततत्त्वज्ञे त्रिकालज्ञे त्रयीविदि ।
ब्रह्मविष्णुमहेशानप्रमाणज्ञे तपोधने
कस्यास्ति धर्मकथने सामर्थ्यं धर्मनिश्चये ।
धर्मारण्ये महाराज गम्यतां कल्पगातटे
मार्कण्डेयो वक्ष्यते यत् तत्र यज्ञः प्रवर्त्यताम् ।
इन्द्रद्युम्न उवाच:
यथा वदसि देवर्षे तथा कार्यं मयानघ
इत्युक्त्वा मुनिभिः सार्द्धं गन्तुं मार्कण्डमाश्रमम् ।
उवाच वचनं राजा प्रतीहारं सुवर्चसम्
मन्त्रिणं देवगर्भं च बृहस्पतिसमं नृप ।
यज्ञोपस्करसम्भारं सर्वमादाय सत्वरम्
आगच्छन्तु भवन्तो ऽत्र ममादेशपरायणाः ।
साग्निभिर् ब्राह्मणैः सार्द्धं यास्यामः कल्पगातटम्
शीघ्रं सम्पाद्यतां सर्वं यथा यज्ञः प्रवर्त्यताम् ।
सर्वेषाम् एव विप्राणां यानम् एषां पृथक् पृथक्
शतानि चाष्टौ राज्ञीनां यानमासां प्रकल्पय ।
नवखण्डक्षितीशानां समुद्रद्वीपवासिनाम्
नानानृपसहस्राणां घोषणा क्रियतां मुहुः ।
चन्द्रद्वीपं च सेतुं च ताम्रपात्रं शिलाष्टकम्
भोगद्वीपं च सौम्यं च गान्धर्ववारुणं तथा ।
कुमारिकाख्यं नवमं नवभेदं प्रवर्तितम्
जम्बूशाककुशक्रौञ्चशाल्मलिप्लक्षपुष्कराः ।
सप्तद्वीपाः समाख्याताः समुद्राश् च निबोध मे
क्षारसर्पिर् दधिक्षीरमदिरेक्षुजलात्मकाः ।
समुद्राः परिखाकाराः पृथिवीमानकीर्तिताः
एतेषां घोषणां कार्यां ममादेशानुवर्तिनाम् ।
गवां च त्रीणि लक्षाणि सवत्सानां पयोमुचाम्
अश्वानां श्यामकर्णानां सपादं लक्षम् एव च ।
दन्तिनामयुतं चैव घण्टाभरणभूषितम्
सहस्राणि च चत्वारि यानानां कामचारिणाम् ।
लक्षं तु करभाणां वै मणिमाणिक्यम् एव च
अग्निशौचानि वस्त्राणि ब्राह्मणार्थे तथैव च ।
नानाभक्षाणि भोज्यानि पानानि विविधानि च
लक्षं कर्मकराणां तु तिलदर्भादिकं तथा ।
देवगर्भं समादिश्य मन्त्रिणं वदतां वरः
तत्रस्थैर् ब्राह्मणैः सार्द्धं दिव्यं यानं समाश्रितः ।
मुदा परमया युक्तः सान्तः पुरपरिच्छदः
धर्मारण्यं ततः प्राप्तो यत्रास्ते सप्तकल्पगः ।
ओंकारं कल्पगां दृष्ट्वा वैदूर्यं पर्वतं तथा
मुक्तो ऽस्मि किल्बिषादद्य सप्तजन्मकृताद् अपि ।
एवम् उक्त्वोपविष्टो ऽसौ साष्टाङ्गं प्रणिपत्य च
यथार्थं पूजयामास तम् ऋषिं स नृपोत्तमः ।
दृष्ट्वा तं नृपतिं प्राह मार्कण्डेयो महामुनिः
कुशलं नृपशार्दूल चिरं दृष्टो ऽसि सुव्रत ।
किम् आगमनकार्यं ते ब्राह्मणैर् मुनिपुंगवैः
इन्द्रद्युम्न उवाच:
यज्ञं कर्तुं समायातः कस्मिंस् तीर्थे द्विजोत्तम ।
शिवेन कथितं यत्ते पुराणं स्कन्दकीर्तितम्
तदहं श्रोतुम् इच्छामि यज्ञक्षेत्रफलं महत्
मार्कण्डेय उवाच:
पृथिव्यां यानि तीर्थानि आसमुद्रान्तगोचरे
स्नानं कर्तुं समायान्ति नर्मदायां नराधिपा ।
उत्तरे यानि लिङ्गानि यानि तीर्थानि दक्षिणे
लीयन्ते कोटितीर्थेषु कोटितीर्थं ततः स्मृतम् ।
शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च
ब्रह्मविष्ण्वादिदेवानां शक्रस्यापि प्रकीर्तितम् ।
तन् मया कथितं राजन् यथोद्दिष्टं तु शम्भुना
ओंकारसन्निधौ रेवाकोटितीर्थं प्रकीर्तितम् ।
अत्र दत्तं हुतं चेष्टं तपस् तप्तं सुदुष्करम्
तस्यान्तो नैव विद्यते महेश्वरवचो यथा ।
राहुसोमसमायोगे कुरुक्षेत्रं प्रशस्यते
सर्वदा सर्वकार्येषु नर्मदा पुण्यदायिनी ।
त्रयोदशगुणं विद्धि तीर्थम् आहुर् मनीषिणः
शतकोटिगुणं तत् तु कोटितीर्थं प्रचक्षते
चन्द्रसूर्योपरागे तु विशेषेण नराधिप ।
यज त्वं कोटितीर्थेषु यदि स्वर्गम् अभीप्ससि
तस्य तद् वचनं श्रुत्वा राजा परमधार्मिकः ।
पादौ जग्राह तत्रैव मुनेर् अमिततेजसः
अनुग्रहम् इमं मन्ये यत् त्वया कथितं मम ।
एतस्मिन्न् अन्तरे प्राप्ते यज्ञयूपान् उपस्करान्
नानादेशान् क्षत्रियांश् च गाश् चाश्वांश् च गजांस् तथा ।
तत्क्षणाद् देवगर्भश् च प्रतीहारः समार्पयत्
त्रिंशद्योजनपर्यन्तं यज्ञयूपांश् च मण्डपम् ।
चकार स्वप्रमाणानि कुण्डानि विविधानि च
वेदध्वनितनिर्घोषा दिवं भूमिं समस्पृशन् ।
निर्धूमश् चाभवद् वह्णिः सूर्यकोटिसमप्रभः
ब्रह्माणं च तथा विष्णुं रुद्रं चैव समाह्वयत् ।
रुद्रा एकादश तत्र तथादित्याश् च द्वादश
विश्वेदेवास् तथासाध्या मरुतश् च तथा वसुः ।
लोकपालास् तथा चाष्टौ समुद्राः सरितस् तथा
वनस्पतयस् तथा शैलास् तीर्थानि विविधानि च ।
दिक्पाला भूतपालाश् च सिद्धगन्धर्वकिन्नराः
पितरः सोमपाः सर्वे भुक्तिमुक्तिफलप्रदाः ।
राक्षसा गुह्यका भूता उरगाश् च यथा तथा
सद्मवातास् तथाकाशवासिनश् च तथोत्सवे ।
घृतक्षीरवहा नद्यो दधिपायसकर्दमाः
बभूव नृपतेस् तस्य तस्मिन् यज्ञे महोत्सवे ।
भक्षभोज्यैश् च विविधैः काम्ययानदिभिस् तथा
तृप्ता देवाश् च मुनयो भूतग्रामं चतुर्विधम् ।
एवं निवर्तितो यज्ञो ब्राह्मणैर् भूरिदक्षिणैः
सुरासुरैस् तथा दिव्यैर् इन्द्रद्युम्नः स्तुतस् तदा ।
यज्ञभागांश् च देवानां पृथक् पृथग् अकल्पयत्
तथा भागो हि रुद्राणां यथा सृष्टस्वयम्भुवा ।
युधिष्ठिर उवाच:
रुद्रादित्यवसूतां च विश्वेदेवहविर्भुजाम्
प्रमाणं नाम गोत्रांश् च कथयस्व महामुने ।
मार्कण्डेय उवाच:
अत्रिश्चाङ्गिरसः सर्पिर्मरुतश् च बृहस्पतिः
ध्रुवो धूम्रश् च केतुश् च धरो धाता हरस् तथा ।
एकादश स्मृता रुद्राः सर्वे कामफलप्रदाः
अर्यमा वरुणश् चेन्द्र पूषा चैव गभस्तिमान् ।
मित्रश् चैव समाख्यातो जघन्यो जलकृत् तथा
विवस्वांश् चैव पर्जन्यो धाता वै द्वादश स्मृताः ।
कश्यपस्याश्रमे जातास् तेजोनिधय उत्थिता
मासावरप्रयोगेण संचरन्ति परेच्छया ।
अहोरात्रमिमे सर्वे स्वर्लोकं च समन्ततः
वसूनष्टौ महाराज कथ्यमानां शृणुष्व वै ।
ध्रुवो धरश् च सोमश् च सावित्रो ह्यनिलो ऽनल
प्रत्यूषश् चैव कल्पश् च अष्टौ ते वसवः स्मृताः ।
विश्वायाश् च तथा पुत्रा विश्वेदेवाः प्रकीर्तिताः
क्रतुर्दक्षस् तथा सत्यः कालः कामो घ्ननिस् तथा ।
पुरूरवोमार्द्रवसौ रोचमानश् च ते दश
मुहूर्तायास् तथा पुत्राः साध्या देवाः प्रकीर्तिता ।
एकहीनास् तु पञ्चाशत् मरुतश् चैव कीर्तिताः
एषां नामानि सर्वेषां ख्यातान्य् एव युधिष्ठिर ।
एतत्ते कथितं सर्वं यत्पृष्टो ऽहं त्वया ऽनघ
ततो ध्रुवं विसृज्याथ मुनींश् च ब्रह्मनन्दनान् ।
ओंकारं च ततो ज्ञात्वा राजा पूजां चकार ह
मणिमाणिक्यरत्नैश् च लिङ्गस्याभरणं कृतम् ।
गन्धधूपैश् च विविधैः कर्पूरागरुचन्दनैः
ध्वजछत्रवितानैश् च व्यजनैर् दिव्यचामरैः ।
पूजयित्वा विधानेन स्तोत्रं मे तद् उदाहृतम्
ओंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।
कामदो मोक्षदश् चैव ओंकाराय नमो नमः
ब्रह्मविष्ण्विन्द्रवरद सर्वदेव नमो ऽस्तु ते ।
कद्रुदाय प्रचेतसे सहस्राक्षायमीढुषे
या ते रुद्र शिवा तनूरघोरा पापकाशिनी ।
सर्वाननशिरोग्रीव सर्वभूतशिवाय च
सर्वव्यापी च भगवांस् तस्मै सर्वगते नमः ।
सर्वतः पाणिपादान्तः सर्वतो ऽक्षिशिरोमुखः
सर्वतः श्रुतिमांल् लोके सर्वमावृत्य तिष्ठति
जिह्वाचापल्यभावेन खेदितो ऽसि महेश्वर ।
कृतं स्तोत्रम् इदं देवस्येन्द्रद्युम्नेन भारत
लिङ्गमध्ये परं लिङ्गं ज्वलत्कालानलप्रभम् ।
यद् दृष्टं तदुवाचैनं राजानं प्रति भारत
वरं वृणीष्व भद्रं ते यत् ते मनसि वर्तते
इन्द्रद्युम्न उवाच:
यदि तुष्टो ऽसि मे देव वरं दातुं ममेच्छसि
अत्रत्वमुमया सार्धं देवद्रोण्यां समर्चितः ।
आवासं कुरु देवेश सर्वदा यज्ञपर्वते
अवशः स्ववशो वापि प्राणत्यागं करोति यः ।
तीर्थे ऽस्मिन् देवदेवेश शिवलोकं प्रयातु सः
सहस्रयाजी धर्मज्ञो दानयज्ञाधिपस् तथा ।
अन्धाश् च वामनाश् चैव तिर्यग्योनिगतानराः
मरणाद् उभयोः साम्यं भवेद् अत्र महेश्वर ।
पर्वतं वेष्टयेद् यस् तु सूत्रेणैकेन पर्वणि
पृथिवी वेष्टिता तेन सशैलवनकानना ।
सर्वतीर्थफलावाप्तिः शिवलोके प्रयात्य् असौ
ओंकार उवाच:
सर्वम् एतत् नृपश्रेष्ठ कामः सम्पद्यतां तव
एवमुक्त्वा ततो देवः तत्रैवान्तरधीयत ।
सुरासुरैरथादित्यैः साध्यैः सार्द्धं युधिष्ठिर ।
स्वकीयं यानमारुह्य कैलासनिलयं ययौ
राजा ऽपि श्रावयामास भूतग्रामं चतुर्विधम् ।
मम यज्ञप्रभावेण सर्वे सन्तु निरामयाः
सर्वे तु तृप्तिम् आयान्तु मम यज्ञप्रभावतः ।
इन्द्रद्युम्नस् तु ब्रह्माणं ततस् तुष्टाव भारत
तुष्टः प्रोवाच धाता तं वरं वृणु विशाम्पते ।
राजोवाच:
तुष्टो ऽसि यदि मे देव वरं दातुम् इहेच्छसि
नर्मदादक्षिणे कूले लिङ्गमूर्तिधरो भव ।
इमं वरम् अहं मन्ये यदि तुष्टो ऽसि मे प्रभो
प्राणत्यागे कृते तत्र ब्रह्मलोकं प्रयातु वै ।
एवं भवतु राजेन्द्र ब्रह्मा प्रोवाच सत्वरम्
एवमुक्त्वा ययौ ब्रह्मा रुद्रलोकं सुरैः सह ।
विष्णुं चैव ततो राजा साष्टाङ्गं च युधिष्ठिर
केशवं माधवं विष्णुं गोविन्दं मधुसूदनम् ।
पद्मनाभं हृषीकेशं श्रीधरं च त्रिविक्रमम्
दामोदरं वासुदेवं हरिं च प्रणमाम्य् अहम् ।
शङ्खचक्रगदाशार्ङ्गवनमालाविभूषणम्
लोकनाथं जगन्नाथं श्रीनाथं सर्ववित्तमम् ।
श्रीकान्तं श्रीधरं श्रीशं श्रीनिवासं नमाम्यहम्
अच्युतानन्तयज्ञेश यज्ञाधिप नमो ऽस्तु ते ।
ऋक्सामाथर्वरूपाय यज्ञरूपाय ते नमः
नृसिंहमत्स्यवाराहकूर्मरूपाय ते नमः ।
तीर्थयानसमारूढ गरुडध्वज ते नमः
सहस्रशिरसं देवं सकलं निष्कलं परम् ।
वेद्यं पुरुषमध्यक्षमाद्यं नारायणं प्रभुम्
प्रणतो ऽस्मि सदा देवं दैत्यान्तकरणं हरिम् ।
हिरण्यगर्भं भूगर्भं यज्ञगर्भामृतोद्भवम्
श्रीगर्भज्ञानगर्भाय वासुदेव नमो ऽस्तु ते ।
त्वया सृष्टं जगत्सर्वं चराचरम् इदं प्रभो
स्रष्टा पालयिता त्वं वै हर्ता त्वं च युगे युगे ।
विश्वतश्चक्षुरव्यक्तो विज्ञेयो विश्वतो मुखः
विश्वात्मा विश्वतो देवो वासुदेवो नमो ऽस्तु ते ।
त्वमादित्यश् च वायुश् च त्वमग्निस् त्वं च चन्द्रमाः
त्वं धाता देवदेवेश त्वम् इन्द्रस् त्वं प्रजापतिः ।
त्वत्प्रसादात् सुरश्रेष्ठ यज्ञसिद्धिर् ममाभवत्
श्रुत्वा स्तोत्रम् इदं देवः शङ्खचक्रगदाधरः
उवाच वचनं सत्यं वरं वृणु विशाम्पते ।
ददामि ते न संदेहो यज्ञसिद्धिम् अवाप्स्यसि
राजोवाच:
ओंकारसौम्यभागे तु लिङ्गरूपी जनार्दनः ।
वैदूर्यशिखरस्याग्रे भव त्वं लोकपावनः
इमं वरम् अहं मन्ये यदि दातुम् इहेच्छसि ।
यास्यन्ति वैष्णवं स्थानम् इहाभ्यर्च्य विधानतः
तिर्यग्योनिं न गच्छन्ति यमलोकं तथा नराः ।
प्राणत्यागे कृते तत्र नरा गच्छन्ति ते पदम्
पितॄणाम् अन्नदानेन पितरो वैष्णवं पदम् ।
प्रसादात्ते च गच्छन्तु सत्यं सत्यं वदाम्य् अहम्
तस्य तद्वचनं श्रुत्वा राज्ञश्चामिततेजसः ।
उवाच वचनं विष्णुर् इन्द्रद्युम्नं विशाम्पते
अवतारं करिष्यामि इहैव नृपसत्तम ।
सर्वमेव नृपश्रेष्ठ मत्प्रसादाद् भविष्यति
एवमुक्त्वा ययौ देवः शङ्खचक्रगदाधरः ।
सुरासुरैः स्तूयमानस् त्रिदिवं प्रति भारत
एष ते कथितो राजन्न् इन्द्रद्युम्न महाध्वरः ।
तेनासौ पर्वतः पुण्यः सर्वलोकेषु विश्रुतः
सिद्धेश्वरं च ब्रह्माणं विद्धि नारायणं हरिम् ।
श्रवणात् कीर्तनाद् अस्य विष्णुलोके महीयते
ततस् तुष्टाव तीर्थानि राजा सत्यव्रते स्थितः ।
पितृणां तारणार्थाय तीर्थेभ्यश् च नमो नमः
तीर्थान्य् ऊचुः:
वरं वृणु महाभाग यत्ते मनसि वर्तते ।
तीर्थानां वचनं श्रुत्वा इन्द्रद्युम्न उवाच ह
ओंकारसन्निधौ तीर्थे स्थातव्यं मदनुग्रहात् ।
एवम् अस्त्व् इति राजानम् उक्त्वा चक्रुः सरित्स्तुतिम्
कल्पगां त्वां नमस्कुर्मो हरस्य परमां कलाम् ।
अतीव सर्वलोकानां भुवि ख्यातां सरिद्वराम्
नास्मत् प्रभावतः पूता किंतु पूता स्वभावतः ।
यद्वत्सूर्यप्रभा पुण्या वह्णेश् चापि प्रभा यथा
हिमांशोश् चैव राजेन्द्र तथैवेयं महानदी ।
इत्युक्त्वा तं च राजानं तीर्थान्य् अन्तर्दधुस्तदा
ततस्तुष्टाव गङ्गां वा अर्घं दत्त्वा नृपोत्तमः ।
गङ्गा भागीरथी देवी तथा भोगवती शुभा
जाह्नवी मोक्षदा भद्रा तारिणी पापनाशिनी ।
स्वर्गे मन्दाकिनी चैव देवदेवनमस्कृता
गायत्री वेदमाता त्वम् उमा कात्यायनी तथा ।
किम् अन्यद् अपि ते देवि हरेण शिरसा धृता
कस्यास्ति शक्तिः स्तोतुं त्वामृते चन्द्रार्धशेखरात् ।
गङ्गोवाच:
तुष्टा ऽस्मि ते महाराज वरं याचस्व सुव्रत
गङ्गाया वचनं श्रुत्वा राजा तां प्रत्युवाच ह ।
राजोवाच:
यदि तुष्टा ऽसि देवेशि वरं दातुम् इहेच्छसि
इहैव क्रियतां वासो वर एष प्रदीयताम्
गङ्गोवाच:
एवं भवतु राजेन्द्र भागेनैव वहाम्य् अहम्
ततस् तुष्टाव गङ्गा तु कल्पगां सरितां वराम् ।
श्रेष्ठा त्वं कल्पगे देवि नमस्कार्ये चिरायुषि
त्वत् तोयस्य प्रभावेण पावित्र्यम् अभवच् च मे ।
कल्पान्ते तु क्षयं यान्ति सरितः सागरादयः
तीर्थानि चैव सर्वाणि त्वम् एवात्रैव तिष्ठसि ।
पूज्या त्रिदशवन्द्या च सुभगे चिरगमिनी
गौरीसमा जटाग्रे वै हरमूर्तिर् भविष्यसि ।
एवम् उक्त्वा ततो गङ्गा नमस्कृत्य च मेकलाम्
दिव्ययानसमारूढा स्तूयमानाप्सरोगणैः ।
सरस्वत्य् उवाच:
दुहिता ऽहं तव ह्येषा धर्मतः परिपालिता
सप्तकल्पवहे धन्ये त्वच्छुश्रूषापरायणा ।
आगताहं महाभागे त्वत् पादाब्जदिदृक्षया
स्नानं कर्तुं तथा देवि चतुर्विंशतिवत्सरैः ।
किं न वेत्सि महाभागे मां धरेश्वरि वाहिनि
करिणीरूपम् आस्थाय कोटितीर्थे समागता ।
सपादकोटितीर्थानि चन्द्रसूर्ये समे ग्रहे
स्नानार्थं कल्पगे देवि आदिष्टा विष्णुना स्वयम् ।
द्वापरस्य चतुर्थांशे कुरुपाण्डवसेनयोः
युद्धार्थं समितौ पुञ्जं सर्वतीर्थमये शुभे ।
तत्र यद् दीयते दानं तप्यते ऽथ तपस् तथा
सर्वं शतगुणं तद्धि त्वत् तोये कल्पगे पुनः ।
तद् एव कोटिगुणितं राहुग्रस्ते दिवाकरे
एवम् उक्त्वा महाराज कल्पगां च सरस्वती ।
इन्द्रद्युम्नं च राजानं स्वस्थानं चाभ्यगात् पुनः
इन्द्रद्युम्नस् ततो राजा स्वयं तुष्टाव भारत ।
त्वत् तोयस्य प्रभावेण पितृदेवाश् च तार्पिताः
पवित्रं च त्वया देवि त्रैलोक्यं सचराचरम् ।
त्वं माता सर्वभूतानां नृणां संसारतारिणी
मेकलासि महादेवि कल्पगा नर्मदा तथा ।
जलपूर्णेति विख्याता विन्ध्यपर्वतभूषणम्
अपि वर्षसहस्रेण कः स्तोतुं च क्षमः शुभे ।
श्रुत्वा स्तोत्रम् इदं देवी नृपस्यास्य तदा ऽब्रवीत्
क्षत्रियाणां सहस्रैस् तु कृतो यज्ञो ऽत्र पार्थिव ।
सदृशस् ते महाराज न भूतो न भविष्यति
वरं ददामि ते राजन् येन सिद्धिम् अवाप्स्यसि ।
तस्यास् तद् वचनं श्रुत्वा कल्पगाया युधिष्ठिर
प्रहसन्न् अब्रवीद् राजा ब्राह्मणैः सहितस् तदा ।
शिवभक्तिपरो नित्यं सप्तकल्पवहे शुभे
यदि तुष्टा ऽसि मे देवि वरं दातुं त्वमिच्छसि ।
प्रवाहान् कुरु सप्त त्वं दक्षिणोत्तरकूलयोः
सर्वतः सर्वगे देवि यदि मां बहु मन्यसे ।
इमं वरम् अहं मन्ये यदि तुष्टा ऽसि सुव्रते
तस्य तद् वचनं श्रुत्वा इन्द्रद्युम्नस्य भारत ।
नर्मदा चाब्रवीद् वाक्यम् इन्द्रद्युम्नं नराधिप
सर्वम् एतत् प्रभावेण मत्प्रसादाद् भविष्यति ।
अत्रान्तरे च यद् दानं दीयते ना ऽत्र संशयः
तस्य संख्या न विद्यते सत्यम् एतद् ब्रवीमि ते ।
न तेषां पुनर् आवृत्तिर् इत्य् आह भगवान् नृप
अन्त्यजाः श्वपचा वापि मृगाश् चैव सरीसृपाः ।
सर्वे ते त्रिदिवं यान्ति नीलगङ्गासमागमे
यज्ञम् इष्ट्वा नृपश्रेष्ठ इन्द्रद्युम्नो विशाम्पते ।
नर्मदां च नमस्कृत्य ओंकारं चैव भारत
स्वकीयं यानम् आरुह्य सत्यधर्मपरायणः ।
वृतो नृप सहस्रेण स्तूयमानो ऽप्सरोगणैः
विवेश नगरीं पुण्याम् अयोध्यां देवनिर्मिताम् ।
एतत् ते कथितं राजन्न् इतिहासं पुरातनम्
ततः कालेन महता राज्यं कृत्वा महाबलः ।
अयुतं साग्रम् एवेह स राजा त्रिदिवं गतः
श्रवणात् कीर्तनाद् अस्य गोसहस्रफलं लभेत् ।
यमलोकं न पश्येच् च पापयोनिं न गच्छति
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0