भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 33

33.1

इति श्रीस्कन्दपुराणे रेवाखण्डे ब्राह्मणस्य भार्यया सह स्वर्गारोहणं नाम द्वात्रिंशो ऽध्यायः ॥
र्क्स् अध्याय 33
मार्कण्डेय उवाच:
पश्चिमे नीलगङ्गाया नर्मदोत्तरकूलतः ।
व्यतीपातेश्वरं नाम लिङ्गं परमसिद्धिदम्

33.2

सोमनाथं स्वयं विद्धि सोममूर्तिं जगत्पतिम् ।
सावित्र्या च तपस् तप्तं तत्र सप्तर्षिभिस् तथा

33.3

सावित्रीकुण्डम् इत्येतद् विख्यातं नर्मदातटः ।
नरस्य स्नानमात्रस्य कन्यादानफलं भवेत्

33.4

तिलोदकप्रदानेन चान्नदानेन भारत ।
पितरस् तस्य तृप्यन्ति सावित्रीलोकम् आश्रिताः

33.5

दक्षस्य दुहिता चासीत् कुमुदा नाम विश्रुता ।
सोमाय दत्त्वा तां दक्षो मुदा परमया युतः

33.6

तस्या स जनयामास हिमांशुः पुत्रम् अद्भुतम् ।
ज्ञात्वा ऽमृतमयं तं तु सुरा यज्ञफलार्थिनः

33.7

हिमांशुं सोमपुत्रं च ते ययुश् च मुदान्विताः ।
अन्या सोमस्य परमा कला या षोडशी स्मृता

33.8

अध्यास्ते सा चन्द्रमसं पितृणां तारणाय च ।
वनस्पतौ गते सोमे गवां क्षीरे हविःषु च

33.9

सोमपाने महायज्ञे दर्शे दिविषदां तदा ।
पीतं श्रुत्वा ऽसुराः सर्वे हिमांशुं पातुम् उद्यताः

33.10

असुराणां भयाद् विन्ध्यं हिमांशुर् गिरिमाश्रयत् ।
श्रुत्वा ते गिरिदुर्गस्थम् असुराः स्वभयात् तदा

33.11

ग्रस्ते ते राहुणा सूर्ये हिमांशुं प्रति भारत ।
कायातिकायप्रमुखाः सम्प्राप्ता दानवास् ततः

33.12

राहोस् तु भ्रातरः सर्वे सैंहिकेया महाबलाः ।
समाहृत्य हिमांशुस् तैः सुधार्थे चिरजीविभिः

33.13

भूतले पातितः पापैः क्रन्दन्ति स्म सुरास् तदा ।
उवाच स पतन् भूमौ हिमांशुः सोमनन्दन

33.14

पातु मां देव ईशानो दानवानां भयंकरः ।
एतस्मिन्न् अन्तरे भूप हिमांशो रक्षणाय वै

33.15

पातालाद् उत्थितं लिङ्गं ज्वलत्कालानलप्रभम् ।
तेन बाणेन रौद्रेण हुङ्कारेण महासुराः

33.16

भस्मीकृतास् तु तत्रैव देवदेवेन शूलिना ।
ततस् तम् अब्रवीद् देवो भयमासुरजं त्यज

33.17

शिवभक्तिपरो भूत्वा निर्भयस् तिष्ठ पुत्रक ।
अथ सोमः सुरैः सार्द्धं गत्वा ब्रह्मनिकेतनम्

33.18

वृत्तान्तं कथयामास ततस् तद् वचनात् तु ताः ।
ब्रह्माद्या देवताः सर्वा जग्मुः सोमपुरोगमाः

33.19

ओंकारः कल्पगातीरे यत्र तिष्ठति भारत ।
दृष्ट्वा तु त्र्यम्बकं देवं षष्टिसंहारकारकम्

33.20

उवाच वचनं देवो ब्रह्मा लोकपितामहः ।
श्रीमान् अमृतरूपो ऽयं हिमांशुः सोमनन्दनः

33.21

रक्षणीयस् त्वया नाथ देवदानवशङ्कया ।
सप्तविंशतियोगानां गतिः प्रोक्ता तु चन्द्रमाः

33.22

त्वं गतिः सर्वलोकानां तस्मात् त्वं त्रातुम् अर्हसि ।
तेषां तद् वचनं श्रुत्वा शिव ऊचे यथोचितम्

33.23

पूजयित्वा तु देवेशं सोमनाथं जगत्पतिम् ।
पातालेश्वरनामानं गताः सर्वे त्रिविष्टपम्

33.24

तदा प्रभृति तत्स्थानं त्रिषु लोकेषु विश्रुतम् ।
सावित्रीकुण्डतोयेन स्नानं कृत्वा तमर्चयेत्

33.25

न तस्य पुनर् आवृत्तिः सत्यम् एतच्छिवोदितम् ।
प्रभासे यत्फलं राजन् दृष्टं च शशिभूषणे

33.26

तत्फलं नृपशार्दूल भवेद् एव न संशयः ।
कालातिक्रमणं कुर्यात् तत्र यो भैक्षमाश्रितः

33.27

न तस्य पुनर् आवृत्तिः सत्यम् एतद् ब्रवीम्यहम् ।
तिलोदकप्रदानेन पिण्डपातेन भारत

33.28

पतितानुद्धरेज् जतून् नरकान् नात्र संशयः ।
श्रवणात् कीर्तनाद् अस्य सोमलोके महीयते

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc