भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 32

32.1

इति श्रीस्कन्दपुराणे रेवाखण्डे पञ्चलिङ्गमाहात्म्ये एकत्रिंशो ऽध्यायः ॥
र्क्स् अध्याय 32
मार्कण्डेय उवाच:
गुह्यातिगुह्यरूपाणि पवित्राणि युधिष्ठिर ।
श्राद्धकार्यस्य सिद्धानि तीर्थानीह निबोध मे

32.2

अतिगुह्यस्य पुण्यस्य सर्वतो ऽमरकण्टके ।
तम् आरभ्य गिरिश्रेष्ठं सर्वं पुण्यतरं स्मृतम्

32.3

यावत् सा नर्मदा मध्ये पुण्यस्रोता महानदी ।
नास्ति तस्मात् परं पुण्यं त्रिषु लोकेषु भारत

32.4

तस्योत्तरविभागे ऽस्ति नामतो यज्ञपर्वतः ।
कनिष्ठो विन्ध्यपुत्रस् तु भ्राता पर्यङ्कभूभृतः

32.5

स्वयंभुवा पुरा तस्मिन्न् इष्टः सौत्रामणिर्मखः ।
तत्रैवेष्टं मघवता हयमेधेन भारत

32.6

दधीचिना ऽथ देवैश् च तत्रैवेष्टं महामखैः ।
निश्क्रान्ता पर्वतात् तस्माच् चतुर्नामा महानदी

32.7

पतिता नर्मदायां तु सङ्गमो लोकविश्रुतः ।
तस्यास् तीरे तु ये दर्भाः पीतवर्णाः क्षितिं गताः

32.8

ते श्राद्धकरणे भूप पितॄणां मोक्षदायकाः ।
स यावत् सङ्गमो नद्याः स यावद् यज्ञपर्वतः

32.9

एतस्मिन्न् अन्तरे राजन् श्राद्धं यः परिकल्पयेत् ।
पितरस् तस्य तृप्यन्ति स्नानं कुर्यात् प्रदक्षिणम्

32.10

सिद्धेश्वरं नामलिङ्गं चतुष्केश्वरम् एव च ।
संख्या न भूयो लोकेषु ख्यातमात्रं मया ऽनघ

32.11

सङ्गमे विद्यते देवो न तं पश्यन्ति मानवाः ।
पूज्यते नागकन्याभिः सदेवासुरसत्तमैः

32.12

कथयामि तवाख्यानम् इतिहासं पुरातनम् ।
ऋषिः सुपर्णो यत्रासीद् ब्रह्मयोनिर् जितेन्द्रियः

32.13

पुरुहूता तस्य भार्या धर्मपत्नी पतिव्रता ।
नैमिषारण्यवासस्य कन्दमूलफलाशिनः

32.14

कृष्णाजिनपरीधानवल्कलादिकवाससः ।
त्रिकालवह्णिहोतारो वेदाध्ययनतत्पराः

32.15

वेदस्मृतिपुराणोक्तमोक्षोपायविचिन्तकाः ।
ऋषयो दशलक्षाणि नैमिषारण्यवासिनः

32.16

बालखिल्याश् च तत्रैव ब्रह्मणो मानसाः सुताः ।
ब्रह्मदण्डं समारुह्य देवलोकं प्रयान्ति ते

32.17

मासोपवासिनस् तत्र जलाहारास् तथापरे ।
तिष्ठन्ति बहवः केचिद् एकपादेन चापरे

32.18

तस्मिंस् तपोवने रम्ये सिद्धगन्धर्वसेविते ।
प्रसाद्य चाब्रवीद् वाक्यं पुरुहूता निजं पतिम्

32.19

ऋतुकाले तु पर्वणि मांभजस्व महामुने ।
जायते मे यथा पुत्रः सर्वसन्तानपावनः

32.20

पुत्रेण लोकान् जयते तृप्यन्ति पितृदेवताः ।
अपुत्रस्य गतिर् नास्ति तस्मात् पुत्रम् अजीजनः

32.21

ब्राह्मण उवाच:
अमावास्याद्य गोत्रे ऽस्मिन् मैथुनं वर्जितं प्रिये ।
अकर्तव्यम् इदं भद्रे पितॄणां वार्जितं ध्रुवम्

32.22

पितरस्तस्य तन् मांसं भुञ्जते ऋतुगामिनः ।
दिव्यं वर्षसहस्रं तु तप्तं मे दुष्करं तपः

32.23

स्नात्वा तत्क्षणमात्रेण चाण्डालस् त्रिदिवङ्गतः ।
धिक् धिक् धिग् ईरितं सर्वं न वेदो न च याजनम्

32.24

प्रहस्य चाब्रवीद् वाक्यं निषादी तं मुनिं प्रति ।
विषादं त्यज विप्रर्षे सत्यम् एतद् ब्रवीम्य् अहम्

32.25

अहंकारविमूढात्मा त्वत् समो नास्ति तापसः ।
न स्नानं न जपो होमो न स्वाध्यायः शिवार्चनम्

32.26

निष्कलं क्लेशमापन्नो वायुभक्षो निराश्रयः ।
त्वत् तपो ध्यानयोगश् च स्वर्गप्राप्तिश् च तत् कथम्

32.27

जाबालिर् उवाच:
का ऽसि त्वं च वरारोहे निषादी रूपमाश्रिता ।
उमा सरस्वती गङ्गा मां जिज्ञासितुम् आगता

32.28

अनुग्रहम् इमं मन्ये धर्मं ब्रूहि शुचिस्मिते ।
निषादो नैमिषारण्ये ममासीत् मुनिपुंगव

32.29

कामार्तया मया दर्शे भर्ता पुत्राय याचितः ।
अकाले याचमाना ऽहं तेन शप्ता महात्मना

32.30

स च भर्ता मया शप्तस्ततो ऽन्यो ऽन्यं समागते ।
अस्य तीर्थस्य महात्म्यादावां मुक्तौ तु किल्बिषात्

32.31

तस्मात् त्वं हि मुनिश्रेष्ठ शिवाराधनतत्परः ।
मदर्थं कुरु कर्माणि होमजाप्यादिकं मुहुः

32.32

यास्यसे त्वं समे देशे सत्यम् एतद् ब्रवीम्य् अहम् ।
इत्य् उक्त्वा सा ययौ स्वर्गं निजभर्त्रा समन्विता

32.33

त्यक्त्वा स्वकल्पं जाबालिः शिवाराधनतत्परः ।
अचिरेणैव कालेन ब्रह्मलोकम् उपागतः

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc