स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 31
इति श्रीस्कन्दपुराणे रेवाखण्डे रेवाचरुसङ्गमवर्णनो नाम त्रिंशो ऽध्यायः ॥
र्क्स् अध्याय 31
युधिष्ठिर उवाच:
हिरण्यबाहुः शापान्ते नगरीं प्राप्य निर्वृतः ।
दक्षादयः कथं मुक्तास् तस्माच् छापाच् च कथ्यताम्
मार्कण्डेय उवाच:
शृणु राजन् महाबाहो कथ्यमानं निबोध मे ।
हिरण्यबाहुना शप्ता यावन् मुक्ता द्विजोत्तमाः
बभ्रमुः सर्वतीर्थानि आसमुद्रान्त गोचरे ।
तेषां ब्रह्मादयः शापं न निवर्तयितुं क्षमाः
वाराणसीं महापुण्यां गङ्गासागरसङ्गमम् ।
हिमवन्तं च केदारमौर्वतीर्थं च भारत
गङ्गा च नैमिषारण्यं भैरवं पुष्करं तथा ।
मायापुरीं तथा रम्याम् उग्रं कनखलं तथा
रौद्रं चैव तथेशानं सुरासुरनमस्कृतम् ।
गङ्गाद्वारं हिमस्थानं प्रभासं शशिभूषणम्
रुद्रकोटिसमायोगं गङ्गाभेदं सरस्वतीम् ।
स्थानेश्वरं तथा पुण्यं कुरुक्षेत्रं तथैव च
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।
कुरुक्षेत्रस्य नाम्नापि नरः पापैः प्रमुच्यते
भ्रमेणैवं विषण्णास्ते शापस्यान्त न लेभिरे ।
निन्दितानि च तीर्थानि पापकर्मरतैस् ततः
आकाशवचनं श्रुत्वा महातीर्थानि निन्दत ।
हरं हरिं च यो द्वेष्टि नाभिनन्दति यः सुरान्
स याति यत्र यत्रैव दुःखं प्राप्नोत्य् असंशयः ।
एतस्मिन्न् अन्तरे प्राप्तो नारदो देवपूजितः
दक्षशौनकगर्गादीन् सर्वांस्तान् मुनिसत्तमान् ।
ब्रह्मरक्षस्तनून् दृष्ट्वा नारदो वाक्यम् अब्रवीत्
भवन्तः कर्मणा केन सञ्जाता ब्रह्मराक्षसाः ।
तस्याथ वचनं श्रुत्वा नारदस्य महामुनेः
सो ऽभिवाद्य नमस्कृत्य दक्षो वचनम् अब्रवीत् ।
यथोत्सवं कृतं कर्म ब्रह्मलोकहिताय यत्
तद्विपर्यासमापन्नं गहना कर्मणो गतिः ।
कर्मोपदिश मे किंचिद् येन मुञ्चापि दुष्कृतम्
यत्र यत्र च गच्छामो जलमन्नं न विद्यते ।
अनावृष्टिरभूद् घोरा तत्र तत्रैव नारद
नारद उवाच:
प्रसाद्यतां मुनिश्रेष्ठाः शापस्यान्तं करिष्यति ।
हिरण्यबाहुर् धर्मात्मा हिरण्यपुरमास्थितः
यज्ञं कर्तुं समायातो रेवाचरुकसङ्गमे ।
पञ्चलिङ्गानि चाभ्यर्च्य शापान्तं च करिष्यति
एवमुक्त्वा स देवर्षिर् ब्राह्मणैः शापकर्षितैः ।
आजगाम ततो दिव्यां हिरण्यनगरीं शुभाम्
हिरण्यबाहुर् नृपतिर् वशिष्ठश् च महामुनिः ।
विलोक्य तान् मुनीन् सर्वान् स देवर्षिपुरोगमान्
अभिवाद्य यथा न्यायम् अर्घपाद्यैर् अपूजयत् ।
नारदस् तु ततो वाक्यं राजानम् इदम् अब्रवीत्
कुशलं ते नृपश्रेष्ठ सुखं तिष्ठसि सुव्रत ।
नारदस्य वचः श्रुत्वा सर्वधर्मपरायणः
उवाच वचनं राजा नारदं श्लक्ष्णया गिरा ।
अद्य मे कुशलं ब्रह्मंस्तवपादाब्जदर्शनात्
किं कर्तव्यं मया ते ऽद्य ब्रह्मन् मे ऽनुग्रहं कुरु ।
नारद उवाच:
कुरु ब्रह्ममुनीनां त्वं शापान्तं राजदर्शनात्
निपातय महादुष्टान् दैत्यान् दुष्कृतकारिणः ।
बन्धनस्था हि मोक्तव्या ब्राह्मणास् तु विशेषतः
राजोवाच:
वेदं पठन्ति ये ऽज्ञानाद् वदन्त्यर्थं न तस्य च ।
प्रमाणं भूतलोकस्य तद्वत् कर्म च कुर्वतः
ब्रह्मन् वेदेन विधिवत् ते तु स्वर्गं प्रयान्ति वै ।
अहंकरविमूढाश् च मिथ्यदानेन याजकाः
पतन्ति नरके विष्णुशङ्करद्वेषणे रताः ।
अगस्त्यं च वशिष्ठं च कृत्वा तौ याजकौ मुने
क्रतुमिष्ट्वा विधानेन रेवाचरुकसङ्गमे ।
मोचयिष्याम्यहं शापात् पञ्चलिङ्गार्चनाद् द्विज
वेदमन्त्रहुतं तत्र स्वयं विष्णुर् ग्रहीष्यति ।
रुद्रः कालाग्निरूपेण ग्राहकश् च भविष्यति
एवं यज्ञे तु सम्पूर्णे तुष्टे नारायणे शिवे ।
द्विजानां मोक्षणं तत्र भविष्यति न संशयः
न मुने देवता यत्र शङ्खचक्रगदाधरः ।
इहलोके परे चैव गतिस् तस्य न विद्यते
एवम् उक्त्वा ययौ राजा सर्वसंभारसंभृतः ।
यज्ञोपस्करम् आदाय ब्राह्मणैर् वेदपारगैः
रेवाचरुकसंभेदे यज्ञमिष्ट्वा विधानतः ।
विहाय पापं शप्तांस् तान् मोचयामास स द्विजान्
पञ्चलिङ्गसमायोगे तीर्थस्यास्य प्रभावतः ।
ब्रह्मयानसमारूढो वीज्यमानो ऽप्सरोगणैः
ध्रियमाणातपत्रस्तु स्तूयमानश् च वन्दिभिः ।
प्रायाच्छिवपुरं दिव्यमुमामाहेश्वरं नृप
एतत् ते कथितं राजन् पुराणाख्यानम् उत्तमम् ।
श्रुत्वाख्यानाम् इदं पुण्यं पञ्चलिङ्गसमागमम्
यमलोकं न पश्येद् वै पापयोनिं न गच्छति ।
हयमेधफलं प्राप्य शिवलोके महीयते
पापग्रस्तो विमूढात्मा विष्णुमायाविमोहितः ।
कथं प्रयाति तत् तीर्थं कालग्रहवशीकृतः
श्रवणात् कीर्तनाद् अस्य मुच्यते भवबन्धनात्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0