भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 30

30.1

इति श्रीस्कन्दपुराणे रेवाखण्डे ऽमरेश्वरमाहात्ये एकोनत्रिंशो ऽध्यायः ॥
र्क्स् अध्याय 30
मार्कण्डेय उवाच:
ऋषीणामयुतं राजन् नैमिषारण्यवासिनाम् ।
गर्गश् च शौनको दक्षः सर्वेषां धर्मतः पिता

30.2

तेषां निवसतां तत्र आश्चर्यम् अभवत् नृप ।
हिरण्या नाम नगरी दृष्टा वा यदि वा श्रुता

30.3

हिरण्यवेगा नाम्नी तु नदीपुष्पफलद्रुमा ।
धनदस्य पुरी रम्या धनाढ्या च यथा स्थिता

30.4

साप्तभौमैर् गृहैर् रम्यैर् हेमप्राकारतोरणैः ।
वेणुवीणानिनादौघैर् गन्धर्वैर् नादितायुतैः

30.5

नागराः पूजिताः सर्वे ऽत्राधिष्ठितधनान्विताः ।
अग्निहोत्रैश् च विद्वद्भिर् ब्राह्मणैर् वेदपारगैः

30.6

एवं विधा पुरी रम्या सर्वोत्सवसमन्विता ।
अकाले म्रियते यस् तु स राज्ञा गृह्यते पुनः

30.7

मुदा परमया युक्तो वित्तेशो धनदो यथा ।
प्रजापतिं संपप्रच्छ ब्रह्मणो मानसं सुतम्

30.8

प्रणिपत्य नमस्कृत्य दक्षं तं मुनिपुङ्गवम् ।
अनेकानि सहस्राणि मुनीनां ब्रह्मवर्चसाम्

30.9

सौत्रामणिः सोमसंस्था कस्मिन् देशे च सिद्ध्यति ।
आचक्ष्व मुनिशार्दूल यतः त्वं सर्वधर्मवित्

30.10

हिरण्यबाहुं प्रोवाच दक्षो वैवस्वतं तदा ।
तीर्थं हि पुष्करं नाम त्रिषु लोकेषु विश्रुतम्

30.11

तस्मिन्न् इष्टं हुतं राजन् सर्वं कोटिगुणं भवेत् ।
ब्राह्मणानां प्रसादेन ना ऽत्र कार्या विचारणा

30.12

तस्य तद् वचनं श्रुत्वा राजा प्रोवाच तं मुनिम् ।
निष्पाद्यतां च यज्ञो मे भगवन् पुष्करे शुभे

30.13

मानसं ब्रह्मणः पुत्रं सर्ववेदविशारदम् ।
त्वामृते दीक्षितुं कस्य शक्तिर् अस्मिन् महीतले

30.14

एवम् अस्त्व् इति तं प्राह दक्षो राजर्षिसत्तमम् ।
ततो जगाम राजर्षिः पुष्करं सर्वसम्भृतः

30.15

गवां च दशलक्षाणि सार्द्धं लक्षं तु वाजिनाम् ।
द्विपञ्चाशत् सहस्राणि गजेन्द्राणां रथायुतम्

30.16

मणिमाणिक्यरत्नानि वस्त्राण्य् आभरणानि च ।
तेषां संख्या न विद्येत कुबेरस्य धनं यथा

30.17

ततो भक्षाणि भोज्यानि पानानि विविधानि च ।
एवं प्रवर्तितो यज्ञः पवित्रे श्रेष्ठपुष्करे

30.18

आहूतश् च ततो ब्रह्मा शक्रश् चापि सुरेश्वरः ।
अन्यदेवैश् च किं कार्यं ताभ्यां सर्वं प्रपूजितम्

30.19

न रुद्रो यज्ञभागार्हो वासुदेवः त्वयाजकः ।
न चादित्यो न वरुणो न देवा न च चन्द्रमाः

30.20

वेदमूलो यतो यज्ञो राज्ञश् चामिततेजसः ।
वेदनिर्घोषशब्देन यज्ञधूमेन भारत

30.21

रोदस्यनन्तरं राजन् सर्वम् एव प्रपूरितम् ।
एतस्मिन्न् अन्तरे यज्ञच्छिद्रान्वेषणतत्पराः

30.22

सम्प्राप्ता राजशार्दूल बलेन बलवत्तराः ।
पराजयं च देवानाम् असुराणां जयं तथा

30.23

कर्तुं प्रस्थापिताः सर्वे ह्य् असुरा देवकण्टकाः ।
तेभ्यो निकेतुना प्रोक्तं दैत्यानाम् ईश्वरेण हि

30.24

न रुद्रो ऽस्ति न विष्णुर् वा ब्रह्मास्ते स तु पूजकः ।
न कर्तव्यं भयं तेषां ब्राह्मणा ज्ञानदुर्बलाः

30.25

गच्छन्तु दानवा दैत्या भूतवेतालराक्षसाः ।
पिबन्तु सोमं यज्ञाङ्गं भक्षयन्तु तथा द्विजान्

30.26

विध्वंसितस् ततो यज्ञो ब्राह्मणाश् चैव भक्षिताः ।
अग्निर्विनाशितो यज्ञयूपश् च यज्ञमण्डपः

30.27

ऋषीणां धर्षिताः पत्न्यो नग्नरूपैस् तथा बलात् ।
कुमारा ऋषयश् चैव भयार्ताः प्राणपीडिताः

30.28

प्रणष्टश् च ततो ब्रह्मा शक्रो देवगणैः सह ।
एवं यज्ञे च विध्वस्ते चक्रवर्ती नृपोत्तमः

30.29

हिरण्यबाहुः कुपितो ब्राह्मणान् प्रति भारत ।
पापिष्ठाश् च दुराचारा गतास् ते भिक्षुका द्विजाः

30.30

स्वस्थानं च गता दैत्या गृहीत्वा यज्ञसम्भृतिम् ।
एकाकी हयमारुह्य सह पत्न्या व्रजाम्य् अहम्

30.31

न पौरुषस्य कालो ऽयं कोपस्य च कथंचन ।
शम्भुर्न देवता यत्र शङ्खचक्रगदाधरः

30.32

कथं सिद्ध्यति यज्ञौ ऽसौ न सूर्यो नैव चन्द्रमाः ।
लोलुपा ब्राह्मणाः पापाः त्वशक्ता यज्ञरक्षणे

30.33

यदि मे विद्यते सत्यं भवन्तु ब्रह्मराक्षसाः ।
सकण्टके निरुदके प्रदेशे नष्टचेतनाः

30.34

दक्षाद्यैर् ब्राह्मणैः सर्वैः सो ऽभिशप्तो महीपतिः ।
अरक्षिता त्वं यज्ञस्य क्षत्रियाणां तथा ऽधमः

30.35

खरो द्वादशवर्षाणि भविष्यसि न संशयः ।
शापाद् बभूवुरन्यो ऽन्यं ते खरब्रह्मराक्षसाः

30.36

एतत् ते कथितं वृत्तं न हरो न हरिः प्रभुः ।
न यज्ञो न च तद् दानं न तपो ऽध्ययनं न च

30.37

वेदोक्तं कर्म न ब्राह्म्यं न धर्मं न त्रिविष्टपम् ।
न व्रतं वषट्कारः सर्वपापप्रणाशनः

30.38

एतस्मिन्न् अन्तरे राजन् देवर्षिर् नारदस् तदा ।
आजगाम क्रतुं द्रष्टुं पुष्करं प्रति भारत

30.39

ततो विप्लाविते यज्ञे दैत्यैर् दुष्कृतिकारिभिः ।
हिरण्यबाहुश् च परं ब्राह्मणं ब्रह्मपारगम्

30.40

उवाच वचनं राजा देवर्षिर् नारदं तदा ।
नाशितो ब्राह्मणैर् यज्ञः क्षुद्रैर् मे मुनिपुङ्गव

30.41

यज्ञधर्मविधौ शक्तो घातयाम्यध्वरान्तकम् ।
शक्तो ऽस्मि त्रिजगज् जेतुं किम् पुनर् दैत्य दानवान्

30.42

मया चापि कृतो यज्ञो हरिशङ्करवर्जनात् ।
ब्रह्मशापवशाद् भीतो गार्दभं योनिमाश्रितः

30.43

केनोपायेन देवर्षे त्रिकालज्ञ त्रिवेदवित् ।
स्वर्गलोकं गमिष्यामि ऋत्विग्भिर् ब्राह्मणैः सह

30.44

अनुग्रहम् इमं मन्ये यन् मां प्राप्तो ऽसि नारद ।
नारद उवाच:
शृणु राजन् महाभाग कथ्यमानं निबोध मे

30.45

रेवाचरुकसम्भेदं पञ्चलिङ्गानि भूमिप ।
तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः

30.46

तत्र गच्छ नरश्रेष्ठ ब्राह्मणैर् ब्रह्मराक्षसैः ।
न यज्ञो न तपोदानं शिवध्यानपरो भव

30.47

सद्यः प्रमुच्यते पापाद् ब्राह्मणैः शापदूषितैः ।
यत्रासुरस् तु निहतो भैरवं रूपमाश्रितः

30.48

पापप्रणाशनं लिङ्गं ऋणमोचनम् एव च ।
चतुष्केश्वरम् अपरं तथा सिद्धेश्वरं परम्

30.49

पञ्चमं वारुणं लिङ्गं सिद्धं तत्र प्रतिष्ठितम् ।
एवं तु नारदः प्राह भगवन्तं नृपोत्तमम्

30.50

युधिष्ठिर उवाच:
भगवन् कीदृशं रूपं यदा नृत्यति भैरवः ।
एतद् आचक्ष्व मे सर्वं प्रसादः क्रियतां प्रभो

30.51

मार्कण्डेय उवाच:
गौर्यापृष्टः पुरा राजन् कौतुकेन सुरेश्वरः ।
नृत्यरूपं समाख्याहि किम् अन्यैः कथितैर् मम

30.52

शान्तरूपं ततस् त्यक्त्वा कृतं रूपं सुदारुणम् ।
स्थितश् चैकेन पादेन प्रपीड्य वसुधातलम्

30.53

द्वितीयेन च पादेन ब्रह्माण्डं सचराचरम् ।
ख्यातं दारुवनं नाम पञ्चलिङ्गसमन्वितम्

30.54

निहत्य चासुरं तत्र पुनर्नृत्यं मया प्रिये ।
तस्मिन् दारुवने चण्डि रुद्रं भुवनदारुणम्

30.55

एतत् ते कथितं राजन् पुराणं स्कन्दकीर्तितम् ।
शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च

30.56

गच्छ गच्छ नृप स्थानं नर्मदाचारुसङ्गमम् ।
तत्र ते स्नातमात्रस्य शापस्यान्तो भविष्यति

30.57

एवम् उक्त्वा ययौ राजन् देवर्षिर् नारदस् तदा ।
हिरण्यबाहुर् नृपतिः सान्तः पुरपरिच्छदः

30.58

दक्षशौनकगर्गाद्यैः शापभ्रष्टैः समन्वितः ।
आजगाम ततः शीघ्रं नर्मदाचरुसङ्गमम्

30.59

तत्र स्नात्वा स राजर्षिर् दत्त्वा चैव तिलोदकम् ।
पञ्चलिङ्गानि चाभ्यर्च्य तस्मिन् दारुवने तदा

30.60

सिद्धेश्वरं चरुलिङ्गं ऋणमोचनम् एव च ।
पापप्रणाशनं चान्यच् चण्डिकेश्वरम् उत्तमम्

30.61

पूजयित्वा यथा न्यायं भुक्तिमुक्तिफलप्रदम् ।
स्तोत्रैस् तुष्टाव विविधैः शिवभक्तिपरायणः

30.62

त्वया विना तपोदानं न यज्ञं न च याजनम् ।
न स्वर्गं न च मोक्षं च कामयेय महेश्वर

30.63

न हरो न हरिर् यत्र सर्व तन् निष्कलं भवेत् ।
ततस् तुष्टः सुरेशानो वरं वृण्वित्य् उवाच तम्

30.64

हिरण्यबाहू राजर्षिः प्रसाद्य शिवम् अब्रवीत् ।
यदि तुष्टो ऽसि मे देव वरं दातुं त्वम् इच्छसि

30.65

तदास्याः खरयोनेर् मां महादेवविमोचय ।
त्यजन्ति चात्र ये प्राणान् पापा अपि नराधमाः

30.66

ते ऽपि यान्ति तव स्थानं सत्यम् एतद् वचो मम ।
निर्विघ्ना यज्ञसिद्धिश् च श्रेयो दानं तपस् तथा

30.67

एवम् अस्त्व् इति तं प्रोक्त्वा शिवस् त्व् अन्तरधीयत ।
शापान् मुक्तः स धर्मात्मा दिव्यकान्तिवपुर्धरः

30.68

कामिकं यानम् आरुह्य सान्तःपुरपरिच्छदः ।
ध्रियमाणातपत्रश् च स्तूयमानश् च मागधैः

30.69

मुदा परमया युक्तो हिरण्यपुरमाविशत् ।
अन्यं याजकम् अन्वेष्टुं यज्ञार्थं ब्रह्मवादिनम्

30.70

एतस्मिन्न् अन्तरे प्राप्ते नारदः पुरम् अभ्यगात्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc