स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 29
इति श्रीस्कन्दपुराणे रेवाखण्डे मान्धातुरुपाख्याने ऽष्टाविंशो ऽध्याय
र्क्स् अध्याय 29
मार्कण्डेय उवाच:
कृते युगे ऽथ सम्प्राप्ते बलिर् नाम महासुरः ।
तस्य पुत्रो महावीर्यः सहस्रभुजविश्रुतः
दिव्यं वर्षसहस्रं तु तेन चाराधितो हरः ।
तुष्टेन तेन सम्प्रोक्तः प्रार्थयस्व वरं वर
यत्किंचिद् वै वरं प्रोक्तं तद् दास्यामि न संशयः ।
बाणासुरो वदत्य् एवं यदि तुष्टो ऽसि मे प्रभो
पुरं भवतु मे दिव्यमजेयं सर्वदैवतैः ।
त्वाम् एव वर्जयित्वा तु दुष्प्राप्यं सर्वदैवतैः
मयि तिष्ठति यत् तिष्ठेत् मयि गच्छति गच्छतु ।
कामिकं भवनं देव पुर भवतु मे तदा
उक्तो बाणासुरस् तेन बलिपुत्रो महायशाः ।
विष्णुनाभिहितश् चासौ किं त्वया प्रार्थितो हरः
बाण उवाच:
मह्यं दत्तं महेशेन पुरम् पुरवरोत्तमम् ।
अजेयं सर्वदेवानाम् असुराणां च दुर्लभम्
यदि दत्तं महेशेन पुरं तुभ्यं यथेप्सितम् ।
मया ऽपि ते प्रदत्तं च द्वितीयं तादृशं पुरम्
विष्णुना ऽपि पुरं दत्तं द्वितीयं च मनोरमम् ।
एकीभूतौ तु तौ देवायूचतुस् तौ बलेः सुतम्
गच्छ बाणासुर क्षिप्रं यत्रास्ते कमलासनः ।
गतस् तत्र बलेः पुत्रो यत्रातिष्ठत् पितामहः
परिष्वज्य स्वहस्तेन पृष्टश् चैव स्वयम्भुवा ।
बहुवर्षसहस्रं तु तपो घोरं त्वया कृतम्
वरस् तु कस्त्वया प्राप्तस् तपसाराध्य शङ्करम् ।
ब्रह्मणो वचनं श्रुत्वा प्रत्युवाच महासुरः
मया तु प्रार्थितो रुद्रो दत्तस् तेन प्रसादतः ।
कामरूपं पुरं प्राप्तं मनोरम्यं मनोरमम्
तादृशं तु पुरं दत्तं द्वितीयं विष्णुना पुनः ।
बाणासुरवचः श्रुत्वा प्रत्युवाच महासुरम्
त्वया तु प्रार्थितो रुद्रो दत्तं तेन महात्मना ।
मया ऽपि ते पुरं दत्तं तेनासौ त्रिपुरः स्मृतः ।
एवं प्राप्तवरो राजन् महाबलपराक्रमः
सहस्रभुजविस्तीर्णस् त्ववध्यः सर्वदैवतैः ।
पुराणि दानवानां तु अमराणां तु यानि च
यक्षविद्याधराणां तु गन्धर्वाणां च रक्षसाम् ।
भग्नानि तानि सर्वाणि स्थण्डिलानि हृतानि च
भग्नामरावती तेन पुरा शक्रस्य भारत ।
त्रिपुरं ह्यभवत् सर्वं कैलासः केवलं पृथक्
उद्विग्नमानसा देवा हरपार्श्वम् उपाययुः ।
वरो दत्तस् त्वया तस्मै ब्रह्मणा विष्णुनापि च
तेन सार्धं तु संग्रामे शक्तिर् नास्तीति कस्यचित् ।
यस् तस्य पुरतस् तिष्ठेत् तम् असौ भस्मतां नयेत्
एवं श्रुत्वा शिवो वाक्यं परं कौतूहलं ततः ।
संप्रेषितास् तदा देवा ब्रह्मविष्णुपुरोगमाः
समेत्य गम्यतां देवास् त्रिंशत्कोट्यो महाबलाः ।
विनाशयत यत्नेन त्रिपुरं पुरसंस्थितम्
ततो गताः सुराः सर्वे बद्धवैराः सहस्रशः ।
वाणासुरपुरं यत्र सुतीक्ष्णनिशितायुधाः
सुयुद्धबलसम्पन्नाः सर्वे ते बलशालिनः ।
मार्गं पुरं च देशं च छादयन्तो घना इव
संक्षिप्तेनैव कालेन मनसा चिन्तितेन च ।
सर्वे ते त्रिपुरं प्राप्ता धनुः क्षिप्ताः शरा इव
द्रष्टुं दश दिशस् तेन प्रेषिता ये च किङ्कराः ।
ऊचुर् बाणासुरं ते तु निश्चिन्तस् त्वं कथं प्रभो
उक्तं बाणासुरेणा ऽपि वरो ऽद्य सफलो मम ।
समीहितफलं प्राप्तं कुतो गच्छन्ति ते सुराः
तेन ते क्षणमात्रेण सर्वे देवा जितास् तदा ।
हृतानि च ततो ऽस्त्राणि पात्र भोजनं यथा
इन्द्रस्यापि हृतं वज्रं चक्रं वै केशवस्य तु ।
जलं पितामहस्यापि पाशं च वरुणस्य च
कुबरेस्य गदां चैव मरुतश्चाङ्कुशं तथा ।
यमस्यापहृतो दण्डः शक्तिर् वैश्वानरस्य च
कामरूपं पुरं तस्य हरदत्तं प्रसादतः ।
न शक्यते सुरैः सर्वैर् ब्रह्मविष्णुपुरोगमैः
बाधितुं दैत्यराजस्य समन्तान् मिलितैर् अपि ।
सुरा बाणासुरेणैव ततो युद्धे पराजिताः
भग्नास्तूत्साहरहिता हरपार्श्वम् उपागताः ।
शिवेनोक्तास् तु ते सर्वे तत्र गत्वा तु किं कृतम्
संग्रामः कीदृशस् तेन भवद्भिः सह निर्मितः ।
ततः किं कथ्यते देव न शक्तास् तस्य कर्मणि
न तेन सह संग्रामे सम्मुखं केनचित् कृतम् ।
देवतावचनं श्रुत्वा क्रुद्धः प्रोवाच शङ्करः
त्रिपुरं च महादुष्टाम् इमं व्यापादयाम्यहम् ।
अथवा चापम् आकृष्य ह्य् असुरं प्रदहाम्य् अहम्
येन जीवन् नरो यस् तु सुराणां किङ्करो भवेत् ।
पतिव्रता प्रसादेना त्रिपुरं च सुरासुरैः
न शक्यं धर्षितुं तस्मान् नारदं प्रेषयाम्य् अहम् ।
नारदः प्रेषितस् तत्र क्षोभय त्वं पतिव्रताः
एवम् उक्तस् तु देवर्षिर् बाणासुरपुरं ययौ ।
त्वरितं पुरमध्ये तु यत्र बाणासुरो नृपः
तं तु देव ऋषिं दृष्ट्वा ह्यसुरो वाक्यम् अब्रवीत् ।
नमस्कृत्य च साष्टाङ्गम् अर्घपाद्यैः प्रपूज्य च
कुतो ऽत्रागमनं ते ऽद्य किं वा कार्यं महामुने ।
तस्य तद्वचनं श्रुत्वा मुनिः प्रोवाच तं तदा
कुशलं ते बलेः पुत्रसादरं तु पुनः पुनः ।
बाणासुरो ऽब्रवीद् वाक्यं कुशलं तव दर्शनात्
देवर्षिर् उपविष्टस् तु दिव्यासनसुशोभितः ।
राज्ञी चाभ्यर्चयत् तत्र स तस्यै नारदस् तदा
पुराणवेदबाह्यानि वृत्तान्यादेशयन् मुनिः ।
नारीणां चलितं चित्तं कृत्वा देवमुनिस् तदा
आगतो नारदः श्रीमान् कैलासं पर्वतोत्तमम् ।
नमस्कृत्य महादेवं वृत्तान्तं संन्यवेदयत्
घातय त्रिपुरं देव सपुरं सुरकण्टकम् ।
निर्गतस् तु हरस् तस्मात् कैलासनिलयात् प्रभुः
स्वकीयेनैव मार्गेण यत्र ऽसौ त्रिपुर ऽसुरः ।
देवी चण्डेश्वरो नन्दी महाकालो महेश्वरः
वृषो भृङ्गिरिटिश् चैव विघ्नेशः स्कन्द एव च ।
पुष्पदन्तो महावीरो घण्टाकर्णो महोदरः
गोमुखो हस्तिकर्णश् च स्थूलजङ्घो वृकोदरः ।
गणाः पञ्चदश त्व् एते हरतुल्यपराक्रमाः
अस्ति सिद्धो महाक्षेत्रं श्रीशैलो नामपर्वतः ।
तत्र स्थित्वा महादेवो हन्तव्यस् त्रिपुरः प्रिये
स्थानं माहेश्वरं चक्रे व्यापी तत्र पिनाकधृक् ।
एकपादेन ब्रह्माण्डं पातालं चापरेण च
हिमवन्तं धनुः कृत्वा गुणं कृत्वा तु वासुकिम् ।
शरं वैश्वानरं कृत्वा तस्या ऽग्रं कालम् एव तु
रथं भूमण्डलं कृत्वा वेदान् कृत्वा हयांस् तथा ।
रश्मींस्तक्षककर्कोटौ ब्रह्माणं सारथिं स्वयम्
चक्ररक्षं वासुदेवमघोरं मन्त्रसप्तकम् ।
तथा पाशुपतं चैव मन्त्रराजं तथैव च
दिव्यं वर्षसहस्रं तु स्थानं कृत्वा स्थितो ऽभवत् ।
तिष्ठतो मम तत्रैव कालेन महता प्रिये
लक्ष्यालक्ष्ये तनू कृत्वा गणेशो विघ्नमाचरत् ।
वामपादनखाग्रेण चलितः स्थानकाद् अहम्
ततो मया हतो ना ऽसौ रक्षितुं त्रिपुरं कथम् ।
प्रवृत्तो ऽसि गणाधीश जगद्विध्वंसकारकम्
इति तस्य वचः श्रुत्वा विघ्नेशो वाक्यम् अब्रवीत् ।
अहं न विघ्नये त्वां चेत् कथम् अन्ये ऽर्चयन्ति माम्
अपूजिते मयि विभो यः कार्यं कर्तुम् इच्छति ।
तस्मै विघ्नं प्रदास्यामि सुरासुरगणेष्वपि
एवम् अस्त्व् इति तं प्राह शङ्करः तद् अनन्तरम् ।
वध्यं चैव गतो लक्ष्यं संशक्तस् त्रिपुरं प्रति
तापसो ऽयं दुराचारो दैत्यः परपुरं जयः ।
विनाशाया ऽस्य दुष्टस्य कंचाहं प्रेषये शरम्
त्रिपुरस्य वधार्थाय क्षिप्रं पाशुपतं महत् ।
अस्त्रम् अन्यद् विधास्यामीत्य् उक्त्वा देवो हरः पुरम्
अघोरास्त्रेण तद् दग्धं त्रिखण्डं जर्जरीकृतम् ।
पातितं तु जले तत्र ततो मां शरणं गताः
भवानि दानवैः सार्द्धं तेषां पत्न्यः सुतेक्षणाः ।
आपतन्ति रुदन्त्यस् ताः शतशो ऽथ सहस्रशः
सर्वासां निर्दयो वह्णिः स ददाह पतींस् तथा ।
श्रीशैले पतितं चैकम् अन्यच् चामरकण्टके
गङ्गासागरसम्भेदे तृतीयं च तथा प्रिये ।
पुत्रपौत्रकलत्राणि मणिहेमपुराणि च
विनाशं यान्ति तान् यत्र लिङ्गमेकं न नश्यति ।
लिङ्गानां नवकोटीनां यद्येकम् अपि दह्यते
प्राणत्यागं करिष्यामि हुताशे ऽस्मिंस् तदा ध्रुवम् ।
दग्धं तु त्रिपुरं कृत्स्नम् अघोरास्त्रेण दारुणम्
पातितं नर्मदा मध्ये ज्वलत्कालानलप्रभम् ।
तद् भित्त्वा सप्तपातालं रसातलतलं ययौ
तेन जालेश्वरं तीर्थं त्रिषु लोकेषु विश्रुतम् ।
अर्चनात् तस्य देवस्य मुच्यते ब्रह्महत्यया
कल्पकोटिसहस्राणि वसेच् छिवपुरे सुखी ।
तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः
तिलोदकप्रदानेन पिण्डपातेन भारत ।
पितरस् तस्य तृप्यन्ति शिवो यावच् च कल्पगा
सार्द्धकोटिश् च लिङ्गानां गङ्गासागरसङ्गमे ।
सार्द्धकोटिश् च पतिता लिङ्गानां पुरवर्धने
दशार्धकोटिः पतिता श्रीशैले त्रिपुरान्तिके ।
तिस्रः कोट्यार्धकोटी च पतितामरकण्टके
एतानि बाणलिङ्गानि भुक्तिमुक्तिप्रदानि तु ।
त्रिपुरघ्नम् अघोरास्त्रं ज्वलत्कालाग्निरुद्रवत्
कल्पगां वर्जयित्वा तु कान्या धारयितुं क्षमा ।
एतादृशं तु पतितं तदस्त्रं कल्पगाजले
जालेश्वरं तु कथितं त्रिपुरघ्नम् इदं तव ।
एतत् तीर्थं न जानन्ति लोकाश्च सचराचराः
दहन्तं त्रिपुरं दृष्ट्वा देवा विस्मयमागताः ।
ब्रह्माद्या देवता येन संग्रामेषु पराजिताः
शरेणैकेन तद्वीर्यं कृतं भस्मैकपुञ्जवत् ।
बाणासुरः पुरे दग्धे भीतः स्तोत्रमिदं जगौ
ओं नमो ऽनादिदेवेश विघ्नेश्वर महेश्वर ।
सर्वज्ञाज्ञानहृज् ज्ञानप्रदानैक नमो ऽस्तु ते
अनन्तगुणरत्नाय परेशाय नमो ऽस्तु ते ।
परात्पर परातीत उत्पत्तिस्थानकारक
सर्वार्थसाधनोपाय विश्वेश्वर नमो ऽस्तु ते ।
निरञ्जन निराधार स्वभाव निरुपद्रव
प्रसन्नपरमेशान योगेश्वर नमो ऽस्तु ते ।
असुरघ्न पिशाचघ्न भूतवेतालनाशन
भूतनाथ जगन्नाथ सर्वाधार नमो ऽस्तु ते ।
सृष्टिसंहार निर्वाणसप्तपातालसंश्रय
श्रीकण्ठ नीलकण्ठेश महाकण्ठ नमो ऽस्तु ते ।
त्र्यम्बकाय त्रिशूलाय त्रिलोकाय च ते नमः
कपालिने कपालैश् च बद्धाङ्ग शशिशेखर ।
उमाकान्तार्धदेहाय सुरासुरनमस्कृत
यत्र त्वं रूपसंस्थं चलमचलतनुं व्यापकं लक्ष्यहीनं तेजो ऽभ्यन्तर् मरालं घनम् अघनम् अजं स्फाटिकं स्फाटिकाभम् ।
रक्तं नीलं च पीतं सितम् असितमनेकाल्परूपं प्रयुक्तं मध्यान्तादिव्यपेतं स्फुटतनुर् अहितं लिङ्गरूपं नमामि
मध्याह्ने लक्ष्ययोगेन हृदयकमले धारणीशे न हंसे नाकाशे वायुतत्त्वे ऽनलधरणिजले विद्यते नैव शक्यम् ।
नो नादे नैव विन्दौ न करणनिलये नादिमध्यावसाने स्थानेष्वेषु प्रबुद्धो न च नियमयितुं यं सदाद्यं नमामि
जिह्वाचापल्यभावेन वर्णितं मे महाप्रभो ।
क्षन्तव्यं तत्सुरेशान कस्त्वां वर्णयितुं क्षमः
मार्कण्डेय उवाच:
श्रुत्वा स्तुतिं च बाणस्य तुष्टो ऽसौ भगवान् हरः ।
उवाच वचनं शम्भुर् असुरं प्रति भारत
सेवापराधजो ह्य् एष क्षान्तस्ते दैत्यनायक ।
वरं वृणीष्व भद्रं ते यत् ते मनसि वर्तते
शिवस्य वचनं श्रुत्वा बाणो दैत्यपतिस् तदा ।
प्रणम्य चाब्रवीद् वाक्यं सुरासुरनमस्कृतम्
यदि तुष्टो ऽसि मे देव वरं दातुं त्वमिच्छसि ।
अनेनैव शरीरेण सान्तः पुरपरिच्छदः
तव लोकं गमिष्यामि यत्र जन्म न विद्यते ।
अत्रोत्पत्तिविपत्तिभ्यां निर्विण्णो ऽसुरयोनिषु
त्रिभिर् देवैः पुरं दत्तं भिन्नं तत् पुरं त्वया ।
कथं तत् पतितं भूमौ गहना कर्मणां गतिः
दाताबलिः प्रार्थयिता च विष्णुर्दानं मही वाजिमखस्य कालः ।
आसीत् फलं बन्धनम् एव तस्य नमो ऽस्तु तस्यै भवितव्यतायै
स्वर्गो दुर्गः सुराः सैन्यं गजाश्चैरावतादयः ।
शस्त्रं वज्रम् अवाप्यास्ते यत्र देवो बृहस्पतिः
निर्जितो मेघनादेन दशाननसुतेन च ।
सर्वमात्मवशं नीतं दैवं हि बलवत्तरम्
बाणासुरवचः श्रुत्वा देवदेवो वरप्रदः ।
मम भक्तिप्रसादेन मदन्तिकम् अवाप्स्यसि
ततो बाणासुरः श्रीमान् देवदेवप्रसादतः ।
दिव्ययानसमारूढः सुरासुरनमस्कृतः
प्रायाच् छिवपुरं यत्र देवदेवो महेश्वरः ।
नर्मदा सा ऽब्रवीद् वाक्यं शम्भुं प्रति विशाम्पते
बिन्दुमात्रं न मे दग्धम् अघोरास्त्रेण शङ्कर ।
ददाह त्रिपुरं कृत्स्नं ज्वलत्कालानलप्रभम्
शान्तं च मम तोयेन रसातलतलं ययौ ।
ईश्वर उवाच:
पुरं तु निखिलं दग्धम् अघोरास्त्रं सुदुस्सहम्
सूर्यकोटिसमप्रख्यं मध्यदेशे तवाम्भसः ।
अगमत् सौम्यरूपत्वं प्रभावात् तव नर्मदे
सरितः सागराः शैला गङ्गाद्याश् च सहस्रशः ।
गोप्यं तत्क्षणमात्रेण भस्मपुञ्जो यथा जलम्
सोढुं का ऽन्या सरिच्छ्रेष्ठा त्वां विना भुवि कल्पगे ।
एवम् उक्त्वा ययौ देवः सुरासुरनमस्कृतः
एतत् ते कथितं भूप आख्यानं श्रुतिसम्मितम् ।
जालेश्वरस्य तीर्थस्य समासेन युधिष्ठिर
सेव्यते तेन कार्येण नर्मदा सप्तकल्पगा ।
श्रवणात् कीर्तनात् तस्य रुद्रस्यानुचरो भवेत्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0