भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 2

2.1

इति श्रीस्कन्दपुराणे रेवाखण्डे प्रथमो ऽध्यायः ॥
र्क्स् अध्याय 2
स्कन्द उवाच:
श्रोतुकामा इमे सर्वे ब्रह्मविष्णुसुरोत्तमाः ।
प्रभावमीदृशं यस्य तीर्थस्या ऽस्य महत् फलम्

2.2

नर्मदायास् तथोत्पत्तिं सङ्गमं लिङ्गपूजनम् ।
पर्वकाले च देवानां पर्वते ऽमरकण्टके

2.3

आख्यानसहितं देव कथयस्व यथार्थतः ।
तीर्थयात्राफलं सम्यग्वंशो मन्वन्तराणि च

2.4

भक्त्या युक्तं च यत् किंचित् कथयस्व प्रसादतः ।
सूत उवाच:
श्रुत्वा ऽख्यानमिदं पुण्य पुराणं स्कन्दकीर्तितम्

2.5

भविष्यभूततत्त्वज्ञः सप्तकल्पानुवर्तकः ।
आजगामा ऽथमार्कण्डऋषिभिः सहितस्तदा

2.6

सर्वकामसमृद्धात्मा श्रेयान् त्वेनैव पूजितः ।
सपादलक्षमधिकम् ऋषीणां चोग्रतेजसाम्

2.7

ब्रह्मर्षयो देवर्षयस् तथा राजर्षयः परे ।
एतैः परिवृतः श्रीमान् मध्ये ऽरण्याश्रमं प्रति

2.8

तीर्थयात्राफलं प्राप्य नर्मदातटमाश्रितः ।
श्रुत्वा महान्तं मार्कण्डप्रभावं लोमहर्षणः

2.9

आजगाम ततो द्रष्टुमृषिं कल्मषनाशनम् ।
नर्मदाप्रवाहे पुण्ये सिद्धगन्धर्वसेविते

2.10

यक्षविद्याधराकीर्णे किन्नरैरुपशोभिते ।
नानादेवगणाकीर्णे नानागणनिषेविते

2.11

रेवावतरणं श्रुत्वा प्रभावं पुण्यसङ्गतम् ।
ननृतुर् देवतास् तत्र सिद्धविद्याधरा नराः

2.12

कह्लारैः शतपत्रैश्च पुन्नागैर् नागचम्पकैः ।
आम्रजम्बूकपित्थैश्च दाडिमैः पनसैस्तथा

2.13

निम्बजम्बीरनारङ्गैः कदलीषण्डमण्डितैः ।
कुमुदैर् नागवल्ल्याद् यैः शालेयैश्च तमालकैः

2.14

बीजपूरकखर्जूरैर् द्राक्षामधुरपाटलैः ।
बिल्वचन्दनपील्वाद्यैः कदम्बकुटजैस्तथा

2.15

सर्वकामफलैर्वृक्षैः फलितं पुष्पितं भृशम् ।
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम्

2.16

कोकिलाबर्हिणशुकैर् नानापक्षिविनादितम् ।
जातिस्मरा पक्षिणश्च व्याजह्रुर् मानुषीङ्गिरम्

2.17

गन्धर्वकिन्नरयुतैर् यक्षविद्याधरोरगैः ।
क्रीडते मिथुनं दिव्यं शनैर्गिरिवरोत्तमे

2.18

दिव्यगन्धर्वनृत्यैश्च वेणुवीणासहस्रशः ।
दिव्योद्भवैः प्रेक्षणीयैः शोभितैर्गिरिगह्वरे

2.19

गीतध्वनिनिनादेन दिवं भूमिं व्यनादयन् ।
ब्रह्मर्षयो देवर्षयस् तथा राजर्षयः परे

2.20

वेदध्वनितयज्ञानाम् अग्निहोत्रप्रकाशतः ।
ऋग्यजुःसामाथर्वाणि चातुर्वर्ण्या द्विजोत्तमाः

2.21

पुलस्त्यश्च वसिष्ठश्च पुलहश्च क्रतुस्तथा ।
भृगुरत्रिर्मरीचिश्च भारद्वाजो ऽथ काश्यपः

2.22

मनुर्यमो ऽङ्गिराश्चैव शातातपपराशरौ ।
आपस्तम्बो ऽथ शम्बश्च काव्यः कात्यायनो मुनिः

2.23

गौतमः शङ्खलिखितौ दक्षः कात्यायनिस् तथा ।
जामदग्न्यो याज्ञवल्क्य ऋष्यशृङ्गो विभाण्डकः

2.24

गर्गशौनकदाल्भ्या व्यास उद्दालकः शुकः ।
नारदः पर्वतश्चैव दुर्वासाश्चोग्रतापसः

2.25

शाकल्यो गालवश्चैव जाबालिर्मुद्गलस्तथा ।
विश्वामित्रः कौशिकश्च ऋषयो देवसम्मताः

2.26

तथा धर्मशतानन्दवैशम्पायनवैष्णवाः ।
शाकलायनवार्द्धक्यौ जुहुतिश् चावसुस् तथा

2.27

बालखिल्या महात्मानो भूमिमण्डलवासिनः ।
ब्रह्मदण्डं समारुहा देवलोकं व्रजन्ति ये

2.28

एते चान्ये ऽव्रजंस्तत्र ऋषयो धार्मिकाः परे ।
ज्वलन्तस्तेजसा सर्वे निर्धूमा इव पावकाः

2.29

मासोपवासिन केचित् केचित् पक्षोपवासिनः ।
त्रिरात्रकाः सान्तपना निराहारास् तथा परे

2.30

केचित् पुष्पफलाहाराः शान्ता वाताशनिस्तथा ।
केचिद् गोमयभक्ष्याश्च जलाहारास्तथापरे

2.31

साग्निहोत्राश्च विद्वांसो मोक्षवेदार्थचिन्तकाः ।
इतिहासपुराणादि श्रुतिस्मृतिविशारदाः

2.32

एते चान्ये च बहवो मार्कण्डेयं प्रियया तपस्विनः ।
एतैश्च संतिष्ठन् ऋक्षैरिव निशाकरः

2.33

तीर्थयात्राफलं श्रुत्वा धर्मपुत्रो युधिष्ठिरः ।
अभिज्ञैर् ब्राह्मणैः सार्धं द्रौपद्या प्रियया सह

2.34

विद्वद्भिर्वेदविद्भिश्च ब्रह्मिष्ठैर् ब्रह्मचिन्तकैः ।
नर्मदातीरम् आयाते मार्कण्डेयाश्रमं प्रति

2.35

प्रदक्षिणत्रिः प्रणम्य साष्टाङ्गं च पुनः पुनः ।
उपविष्टस्तदा तत्र भ्रातृभिस्सह धर्मजः

2.36

उपविष्टं नृपं दृष्ट्वा मार्कण्डेयो महामुनिः ।
उवाच वचनं देवं धर्मपुत्रं युधिष्ठिरम्

2.37

कुशलं नृपशार्दूल भ्रातृभिर् ब्राह्मणैः सह ।
प्रहस्य सो ऽब्रवीद्वाक्यं मार्कण्डं मुनिसत्तमम्

2.38

अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।
कृतकृत्यो ऽभवं त्वद्य त्वत्पादाम्बुजदर्शनात्

2.39

अद्य मे ऽन्तर्मलं नष्टं पापोच्छेदननिर्म्मलम् ।
दृष्ट्वा तपोवनं सर्वं ज्वलन्तं सूर्यवर्चसम्

2.40

निर्मुक्तः किल्बिषादस्मात् सप्तजन्मान्तराद्विभो ।
रन्त्वा चोत्तरदिग्भागे देवभूमिं मनोहराम्

2.41

गङ्गां त्रिपथगां देवीं यमुनां च सरस्वतीम् ।
गङ्गाद्वारं हिमस्थानं कुब्जाग्रं ब्रह्मयोनिकम्

2.42

उग्रं कनखलञ्चैव केदारं भैरवं तथा ।
नैमिषं च गयातीर्थं कुरुक्षेत्रं च पुष्करम्

2.43

वाराणसीं प्रयागं च गङ्गासागरसङ्गमम् ।
कालञ्जरं चाप्यतीर्थं प्रभासं शशिभूषणम्

2.44

पुण्यान्येतानि चान्यानि त्यक्त्वा क्षेत्राणि सुव्रत ।
सेव्यते केन कार्व्येण नर्मदैव महानदी

2.45

भविष्यभूततत्त्वज्ञ त्रिकालज्ञ त्रिवेदिक ।
श्रोतुकामा इमे सर्वे कथयस्व प्रसादतः

2.46

मार्कण्डेय उवाच:
शृणु राजन् महाबाहो ब्राह्मणैर् भ्रातृभिः सह ।
तत्ते ऽहं कथयिष्यामि पुराणं स्कन्दकीर्तितम्

2.47

स्वायम्भुवे ऽथ मुनय आदिकल्पे कृते युगे ।
देवानां सङ्गमे तत्र कैलासे च शिवालये

2.48

कार्तिक्यां देवदेवेशं हरं द्रष्टुं समाययुः ।
प्राक् पृष्टं कार्त्तिकेयेन धर्माधर्मनिदर्शनम्

2.49

शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च ।
विष्णुब्रह्मादिदेवानां शृण्वतां यक्षरक्षसाम्

2.50

अष्टलक्षाणि सार्द्धानि शिवलोके च गीयते ।
तदर्द्धं वैष्णवे लोके चार्द्धार्द्धं ब्रह्मणः पुरे

2.51

चतुरशीतिसहस्राणि मर्त्यलोके च गीयते ।
आराधितः शिवः पूर्वं ब्रह्माद्यैश्च सुरासुरैः

2.52

ततस्तुष्टः सुरेशानो वरं दातुं यथेप्सितम् ।
देवा ऊचुः:
यदि तुष्टो ऽसि देवेश देवानां वरदो भव

2.53

सप्तद्वीपा वसुमती वसुधा कर्म्मभागिनी ।
नवमद्वीपपर्य्यन्तं जम्बूद्वीपं प्रचक्षते

2.54

वापी कूपसहस्राणि नवार्णः सरितो नहि ।
न सृताश्चापगाः शर्वपितृघोरावतारिणीः

2.55

तिलोदकप्रदानेन पितॄन् पातुं हि साम्प्रतम् ।
तारिणी सर्वलोकानाम् अवतारय नर्मदाम्

2.56

ईश्वर उवाच:
दुष्प्राप्यं त्रिदशैः सर्वैर् अयाच्यं याच्यते सुराः ।
वेगं शक्नोति कः सोढुं तत्तोयभ्रमणस्य च

2.57

तोयं भूतं जगत्सर्वं निपतिष्यज्जवेन तु ।
याचध्वमन्यां सरितं सुखसाध्यान्तरङ्गिणीम्

2.58

देवा ऊचुः:
का ऽन्या तारयितुं शक्ता पुण्या सोढुं सरिद्वरा ।
मुक्त्वा त्रिनयनेशानीं नर्मदां शोकतारिणीम्

2.59

देवानां वचनं श्रुत्वा समाहूता सरिद्वरा ।
आगता च ततो देवी सर्वाभरणभूषिता

2.60

प्रत्यक्षा मकरारूढा देवदेवस्य चाज्ञया ।
देव मे देहि वक्तव्यं कर्तव्या तु कृपा मयि

2.61

निशम्य तद् वचसौम्यं नर्मदायास् त्रिलोचनः ।
उवाच वचनं श्लक्ष्णं मर्त्यलोके ऽद्य गम्यताम्

2.62

लोकानां च हितार्थाय मर्त्यानां च विशेषतः ।
नर्मदोवाच:
तवाज्ञां च करिष्ये ऽहं निराधारा कथं विभो

2.63

को मां धर्तुं च शक्नोति मही यास्यति विप्लवम् ।
आदिदेश ततः सर्वान् पर्वतान् परमेश्वरः

2.64

आदिश्यैतांश्च तान् सर्वांस् ततो देवः स्वयं शिवः ।
पर्वता ऊचुः:
न शक्नुमो वयं सर्वे धर्तुं वेगं च नार्मदम्

2.65

भेदमाप्नोति वै पृथ्वी शतधा यान्ति भूभृतः ।
ऋक्षवानब्रवीद्देवं देह्याज्ञा त्रिदशेश्वर

2.66

धारयामि च सत्येन त्वत्प्रसादादुमापते ।
ततो ऽवतारिता देवी जम्बूद्वीपे नराधिप

2.67

दारयित्वा महीं सर्वां सशैलवनकाननाम् ।
ततो देवगणैर् उक्ता मर्यादां वह सुव्रते

2.68

एकविंशत्सहस्राणि योजनानां प्रमाणतः ।
सभित्त्वा सप्तपातालान् रसातलतलं ययौ

2.69

देवलोकं जगामा ऽथ प्रलये समुपस्थिते ।
प्रथमा कथिता राजन्नवतारस्य कल्पना

2.70

स्वारोचिषे द्वितीये तु आदिकल्पे युगे ऽनघ ।
न सागरा न सरितो न तीर्थानि न सङ्गमः

2.71

त्रेतायुगे ऽवतीर्णा तु पुरा भागीरथी सरित् ।
जह्नुना चुलुकेनैव हृदि मध्ये व्यवस्थिता

2.72

सा कथं सेव्यते राजस्त्यक्त्वा चैव तु कल्पगाम् ।
अज्ञानतमसाछन्ना विष्णुमायाविमोहिताः

2.73

त्यक्त्वा वै नर्मदां राजन् सेवन्ते ऽन्यां नदीं सुराः ।
यावृशं सूर्यदेवानां मणिरत्नप्रभासु च

2.74

अन्तरं तादृशं राजन्नर्मदा ऽन्यापगासु च ।
श्रुत्वाख्यानम् इदं पुण्यं शङ्करस्य प्रभावतः

2.75

सेव्यते सप्तगा तत्र पुराणं स्कन्दकीर्तितम् ।
एतत्ते कथितं राजन् यथादृष्टं यथा श्रुतम्

2.76

कृतकृत्यः सर्वकामान् ब्राह्मणैर् वेदपारगैः ।
प्राप्नोषि परमं स्थानं वंशक्षयविवर्जितम्

2.77

श्रुत्वाख्यानम् इदं पुण्यं पवित्रमघनाशनम् ।
ये शृण्वन्ति सदा नित्यं गोहत्या च प्रणश्यति

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc