भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 28

28.1

इति श्रीस्कन्दपुराणे रेवाखण्डे करमर्देश्वरीकीर्तनं नाम सप्तविंशो ऽध्यायः ॥
र्क्स् अध्याय 28
युधिष्ठिर उवाच:
मान्धाता राजशार्दूलस् त्रिषु लोकेषु विश्रुतः ।
एतद् इच्छाम्य् अहं श्रोतुं चरितं तस्य धीमतः

28.2

मार्कण्डेय उवाच:
शृणु राजन् महाभाग यन् मां त्वं परिपृच्छसि ।
इक्ष्वाकुवंशसम्भूतो युवनाश्वो महीपतिः

28.3

सो ऽयजत् पृथिवीपालः क्रतुभिर् भूरिदक्षिणैः ।
अनपत्यस् तु राजर्षिः स महात्मा दृढव्रतः

28.4

मन्त्रिष्वाधाय तद्राज्यं वननिष्ठो महीपतिः ।
शास्त्रदृष्टेन विधिना संयम्यात्मानम् आत्मना

28.5

फलमूलानुभक्षश् च स चचार महत्तपः ।
शुष्ककण्ठः पिपासार्तः पानीयार्थे भृशः नृपः

28.6

सम्प्रविश्याश्रमस्यान्तः पानीयं सो ऽभ्ययाचत ।
तस्य शुष्केण कण्ठेन क्रोशतस् तु तदा भृशम्

28.7

ना ऽश्रौषीद् वचनं तत्र चातकस्यैव वासवः ।
भगवांस् तु तदा कश्चिद् ऋषिस् तस्य महीपतेः

28.8

पुत्रीयमग्रतः कृत्वा मन्त्रैश्चाप्य् अभिमन्त्रितम् ।
रात्रौ च कलशं तत्र जलपूर्णं पिपासितः

28.9

अभ्यद्रवत् स वेगेन पीत्वापस् तत्र चास्वपत् ।
स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः

28.10

अग्निर् निवर्तितस् तस्य सुखी चैवा ऽभवत् तदा ।
ततस् ते ऽचाप्यबुध्यन्त मुनयः शंसितव्रताः

28.11

कस्येदं कर्म कुपिताः पप्रच्छुस् तं नृपं तदा ।
युवनाश्वो ममेत्येवं सत्यं समभिपद्यते

28.12

युवनाश्वम् इदं प्राह भगवान् भार्गवस् तदा ।
सुतार्थं स्थापितं ह्य् एतत् तपसा चैव सम्भृतम्

28.13

मया कर्म कृतं चैतत् तप आस्थाय दारुणम् ।
पुत्रार्थं तव राजेन्द्र येन ते बलवान् भवेत्

28.14

महाबलो महावीर्यस् तपोबलसमन्वितः ।
सुतः शक्रसमो ऽत्यर्थं सर्वधर्मपरायणः

28.15

विधिना मन्त्रयुक्तेन मयैतद् उपपादितम् ।
अभक्षणं त्वया राजन् युक्तं न कृतम् अत्र वै

28.16

नूनं दैवकृतं त्वद्य यत् तत् त्वं कृतवान् असि ।
पिपासुना च यत्पीतं विधिमन्त्रपुरस्कृतम्

28.17

जलं त्वया महाराज तेन त्वं वीर्यवान् असि ।
अन्वहं कर्म कृत्वा ऽपि महान्तं सुखमाप्स्यसि

28.18

विधास्यामो वयं चात्र पुत्रेष्टिं परमां तदा ।
वीर्येण शक्रतुल्यं त्वं पुत्रं वै जनयिष्यसि

28.19

ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः ।
वामपार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः

28.20

निश्चक्राम महातेजा न च तं मृत्युर् आविशत् ।
युवनाश्वस्य नृपतेस् तदद्भुतम् इवाभवत्

28.21

तं द्रष्टुं समुपागतः शक्रं पृच्छन्ति तं देवाः ।
सुतः किं धास्यतीत्ययम् .... ....

28.22

एष मां धास्यतीत्येवं शक्रः प्रोवाच तान् सुरान् ।
प्रदेशिनीं च तस्यास्ये ततः शक्रः समादधौ

28.23

स तां बालस् ततो हृष्टः पपौ तस्य प्रदेशिनीम् ।
मान्धातेति च नामास्य शक्रश्चक्रे यथार्थवत्

28.24

अवाप्य स शिशुस् तत्र शक्रदत्तां प्रदेशिनीम् ।
अवर्धत् महीपालः किंतु षोडशिकाः समाः

28.25

आयुर्वेदादिशास्त्राणि दिव्यशास्त्राणि सर्वशः ।
उपतस्थुर् महाराजं ध्यानमात्रेण तं तदा

28.26

धनुराजगवं नाम शराश्शृङ्गोद्भवाश् च ये ।
अभेद्यं कवचं चैव सद्यस्तम् उपतस्थिरे

28.27

सो ऽभिषिक्तो मघवता देवैः सार्द्धं च भारत ।
धर्मेण चाक्रमल् लोकान् सर्वान् विष्णुर् इव क्रमैः

28.28

तस्या ऽप्रतिहतं चक्रं प्रचचार महात्मनः ।
शतानि चैव राजानः स्वयमेवोपतस्थिरे

28.29

तस्यैवम् अभवत् पूर्वं वसुधा वसुधापते ।
तेनेष्टं विविधैर् यज्ञैर् बहुभिश् चाप्तदक्षिणैः

28.30

हृष्टमना महातेजाः स्वधर्मं प्राप्य पुष्कलम् ।
शक्रस्यार्धासनं धीमान् लब्धवान् अमितद्युतिः

28.31

आपालिता च पृथिवी तेन धर्मेण धीमता ।
निर्जिता शासनाद् एव सरत्नाकरपत्तना

28.32

तत्कृतानां महाराज क्रतूनां दक्षिणावताम् ।
चतुरन्ता मही व्याप्ता नासीत् किंचिद् अनावृतम्

28.33

दशलक्षसहस्राणि राज्यं तस्य महात्मनः ।
तेन द्वादशवार्षिक्याम् अनावृष्ट्यां महात्मना

28.34

वृष्टिं च सस्यवृद्ध्यर्थं मिषता वज्रपाणिना ।
तेन सोमकुलोत्पन्नो गन्धर्वाधिपतिर्महान्

28.35

गत्वा समानयन् मेघं प्रमथ्याभिहितः शरैः ।
प्रजाश् चतुर्विधास् तेन धृतास् तत्र महात्मना

28.36

तेनाप्तास् तपसा लोकाः स्थापिताः स्वेन तेजसा ।
तस्यैव देववसतिस्थानम् आदित्यतेजसः

28.37

यस्य पुण्यतमे देशे दृश्यते ऽमरकण्टकः ।
इष्ट्वा तत्र क्रतुशतम् ओङ्कारस्यैव चाग्रतः

28.38

राज्ञा च पर्वते तस्मिन् स्तोत्रम् एतद् उदाहृतम् ।
नमस्ते कालमेघाय कालात्मक नमो ऽस्तु ते

28.39

कालाधिपं नमस्ते ऽस्तु कालरूपः प्रवर्तसे ।
कालात्मा कालरूपेण विश्वात्मा विश्वरूपधृक्

28.40

विश्वेश्वर नमस्ते ऽस्तु कालत्यागे प्रवर्तकः ।
भवाय भवनाशाय भवोद्भव नमो ऽस्तु ते

28.41

ओं नमो महादेवाय शम्भवाय भवाय च ।
अजपाय अजाताय अजायतनमीढुषे

28.42

प्रभवाय शिवतराय अक्षमाय नमो नमः ।
त्र्यम्बकाय त्रिमूर्ताय त्रिलोकेशाय ते नमः

28.43

अकालाय अजराय अमराय नमो नमः ।
ओंकारमादिदेवं च ये वै ध्यायन्ति नित्यशः

28.44

न तेषां पुनरावृत्तिर् घोरे संसारसागरे ।
श्रुत्वा स्तोत्रम् इदं देवः ओंकारः कालरूपधृक्

28.45

प्रत्युवाच महीपालं देवदेव उमापतिः ।
वरं वृणीष्व भद्रं ते स्तोत्रेणानेन सुव्रत

28.46

तुष्टो ऽस्मीति न सन्देहो यथेष्टं तद् ददाम्यहम् ।
मान्धातोवाच:
यदि तुष्टो ऽसि देवेश वरं दातुं त्वमिच्छसि

28.47

वैदूर्यो नाम शैलेन्द्रो मान्धाताख्यानमर्हति ।
देवस्थानम् इदं देव त्वत् प्रसादाद् भविष्यति

28.48

अत्र दानं तपः पूजा तथा प्राणविसर्जनम् ।
ये कुर्वन्ति नरास् तेषां शिवलोके निवासिता

28.49

तस्य तद्वचनं श्रुत्वा मान्धातुः परमेश्वरः ।
उवाच वचनं देवो मान्धातारं महीपतिम्

28.50

सर्वमेतत् नृपश्रेष्ठ मत्प्रसादाद् भविष्यति ।
एवम् अस्त्व् इति तं चोक्त्वा वरं लब्ध्वा महीपति

28.51

जगाम स्वां पुरीं शीघ्रं यथा शक्रो ऽमरावतीम् ।
एतत् ते सर्वमाख्यातं मान्धातुश् चरितं महत्

28.52

यो ममाग्रे महीपाल दृष्टो ऽद्रिर् वै त्वयानघ ।
तदा प्रभृति मान्धाता वैदूर्यो गीयते गिरिः

28.53

अस्य तीर्थस्य माहात्म्यात् मान्धातृप्रमुखा नृपाः ।
सर्वकामसमुद्युक्ता लोके क्रीडन्ति वैष्णवे

28.54

श्रवणात् कीर्तनाद् वा ऽपि हयमेधफलं लभेत्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc