भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 27

27.1

इति श्रीस्कन्दपुराणे रेवाखण्डे गर्दभीतीर्थवर्णनो नाम षड्विंशो ऽध्यायः ॥
र्क्स् अध्याय 27
मार्कण्डेय उवाच:
गौरीखण्डं ततो गच्छेत् सर्वदेवनमस्कृतम् ।
तत्र स्नानेन लभते सर्वतीर्थफलं नरः

27.2

तिलोदकप्रदानेन पितॄणां तृप्तिरक्षया ।
जायते च नृपश्रेष्ठ नात्र कार्या विचारणा

27.3

गौरीखण्डेश्वरं नाम लिङ्गं पापहरं परम् ।
तत्रज्ञेयं मणिमयं जलमध्ये व्यवस्थितम्

27.4

न तत् पश्यन्ति मनुजाः सर्वैर् देवैस् तु पूजितम् ।
युधिष्ठिर उवाच:
गौरीखण्डेश्वरं नाम तस्मिंस् तीर्थे कथं मुने

27.5

कथ्यतां च यथा न्यायं विदितं यत् तु साम्प्रतम् ।
मार्कण्डेय उवाच:
पुरादेवगणैः सर्वैः कुमारः शङ्करात्मज

27.6

सैनापत्ये नियुक्तश् च तारकस्य वधं प्रति ।
कामितास् तेन तत्रैव सर्वास् ताः सुरयोषितः

27.7

उपालब्धास् ततः सर्वा उमामाहेश्वरे पुरे ।
उपालब्धं तु तं श्रुत्वा विषण्णा चैव पार्वती

27.8

कामितं यत्र यत्रैव तत्र तत्रेश्वरेश्वरी

27.9

दृष्ट्वा ऽथ लज्जितः सो ऽपि पक्षिणा ऽसौ समाययौ ।
देवैः परिवृतः श्रीमान् मयूरस्थो महाबलः

27.10

पृष्ठतो ऽनुगता माता रुदतीव सुरेश्वरी ।
उत्तीर्णा कल्पगां देवी पूजयित्वा महेश्वरम्

27.11

गौरीखण्डं तु विख्यातं त्रिषु लोकेषु तेन तत् ।
लिङ्गं प्रतिष्ठितं तत्र कुमारेश्वरसंज्ञितम्

27.12

मयूरेश्वरलिङ्गं तु भुक्तिमुक्तिफलप्रदम् ।
यस्य देवस्य माहात्म्यात् मयूरास् त्रिदिवङ्गताः

27.13

अर्चनात् तस्य देवस्य तिर्यग्योनिर्न जायते ।
ततो गच्छेत् महाराज करमर्दासमागमम्

27.14

तत्र स्नातो महाराज स भवे न पुनर् भवेत् ।
करमर्देश्वरं लिङ्गं पूजयेत् तत्र भारत

27.15

पितॄणां तर्पणात् तत्र स्वर्गं प्राप्नोति मानवः ।
युधिष्ठिर उवाच:
कथयस्व महाभाग करमर्दासमुद्भवम्

27.16

भाविष्यभूततत्त्वज्ञस् त्रिकालज्ञस् त्रिवेदवित् ।
मार्कण्डेय उवाच:
कथयामि यथादृष्टं शृणु चैकमना नृप

27.17

मैत्रेयस्याश्रमं पुण्यं ऋषिभिस् तु निषेवितम् ।
मुनीनां तु सहस्राणि कन्दामूलफलाशिनाम्

27.18

निवसन्ति यदा तत्र तपः कर्तुं निरन्तरम् ।
कस्मिंश्चिद् अन्यकाले तु तस्मिन् मुनिवराश्रमे

27.19

राजा कुशध्वजो नाम एकच्छत्राधिपो नृप ।
आगमत् कलातीरं राहुसूर्यसमागमे

27.20

अवतीर्णान् मुनीन्सर्वान् यथार्हं प्रणिपत्य च ।
पितॄणां श्राद्धकालो ऽद्य प्रसादः क्रियतां मयि

27.21

ऋषय ऊचुः:
गवां दशायुतान्येकप्रसूतानां पयोमुचाम् ।
सवत्सानां सुवर्णानां घण्टाभरणशोभिनाम्

27.22

यदि शक्नोषि दातुं त्वं होमार्थे पितृदेवयोः ।
तत्र प्रवर्ततां श्राद्धं सत्यम् एतत् तवोदितम्

27.23

तेषां तद्वचनं श्रुत्वा मुनीनामूर्ध्वरेतसाम् ।
कुशध्वजो ऽब्रवीद् वाक्यं ब्राह्मणांस् तान् यथार्थतः

27.24

अनुग्रहमिमं मन्ये यथोक्तं ब्रह्मचारिभिः ।
ददाम्यहं न सन्देह इहैव मुनिपुङ्गवाः

27.25

भोजयित्वा ततः श्राद्धे ब्राह्मणांस् तान् नृपोत्तमः ।
सकुशं जलम् आदाय तेभ्यो दत्ता तु गास् तदा

27.26

दत्त्वा दान मुदायुक्तः स जगाम स्वकं पुरम् ।
स्थितास् तु ब्राह्मणास् तत्र होमकार्यार्थसिद्धये

27.27

एकस्मिन् वासरे प्राप्ता राक्षसा घोररूपिणः ।
बुभुक्षिता महादंष्ट्रा विकृतास्या भयानकाः

27.28

ब्राह्मणानां तदा गा वै भक्षितुं समुपागतान् ।
दृष्ट्वा तान् विकृताकारांस् तीव्रनादपरायणान्

27.29

प्रणष्टास् तु ततः स्थानान् नर्मदाजलम् आविशन् ।
तत्क्षणाद् दिव्यलोकस्थाः सर्वास् ताः कामधेनवः

27.30

ततस् ते क्षुधितास् सर्वे ब्राह्मणान् भक्षितुं गताः ।
हरिं स्मरन्ति ते सर्वे ब्राह्मणाः शंसितव्रताः

27.31

रेवाजलं प्रविष्टा वै राक्षसैः परिपीडिताः ।
विष्णोः प्रस्वेदजस् तत्र प्रवाहो नर्मदां गतः

27.32

गोपदं दृश्यते तत्र सर्वामरनमस्कृतम् ।
करमर्देश्वरं लिङ्गं विष्णुचक्राद् विनिःसृतम्

27.33

प्रतिष्ठितं च तत्रैव विष्णुना प्रभविष्णुना ।
गावश् च ब्राह्मणाश् चैव सत्यम् एतद् ब्रवीमि ते

27.34

ब्रह्मलोकं गताः सर्वे तीर्थस्यास्य प्रभावतः ।
करमर्देश्वरं तीर्थं सर्वपापप्रणाशनम् ।
कीर्तितं कर्मणा तेन मह्याम् अमिततेजसा

27.35

तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः ।
श्रवणात् कीर्तनाद् अस्य गोसहस्रफलं लभेत्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc