स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 26
इति श्रीस्कन्दपुराणे रेवाखण्डे पञ्चविंशो ऽध्यायः ॥
र्क्स् अध्याय 26
मार्कण्डेय उवाच:
अथान्यत् कथयिष्यामि मण्डपेश्वरम् उत्तमम् ।
स्नातमात्रो नरस् तत्र न विशेद् योनिसङ्कटम्
दशलक्षाणि तीर्थानि तस्मिंस् तिष्ठन्ति भारत ।
मण्डपेश्वरतीर्थस्य कूर्मवृद्धिवदर्चनम्
सुरासुरगणैर् इष्टं तस्मिंस् तीर्थे नराधिप ।
अनेकभाविकं पापं तत्क्षणाद् एव नश्यति
तिलोदकप्रदानेन पिण्डपातेन भारत ।
तृप्यन्ति पितरः सर्वे यावत् तिष्ठति कल्पगा
तत्र यस् त्यजति प्राणान् अवशस्ववशो ऽपि वा ।
दशवर्षसहस्राणि राजा वैद्याधरे पुरे
मानसौ ब्रह्मणः पुत्रौ बादरायण शाकटौ ।
अगस्त्यस्याश्रमं पुण्यं महर्षिगणसेवितम्
कन्दमूलफलैः शाकैः शिवभक्तिपरायणैः ।
एकदा ऽवसरे प्राप्ते अजापालो नृपात्मजः
अयोध्याधिपतिः श्रीमान् चक्रतुल्यपराक्रमः ।
अष्टोत्तरं शतं व्याघ्रानजाः कृत्वा ररक्ष च
सपादलक्षं जीवन्ति प्रजास्तस्मिन् महीपतौ ।
धनाढ्या धनदस्येव प्रशशास पुरीं तथा
स कदाचित् महाभागः ससैन्यो मृगयां गतः ।
महीपालसहस्रेण मुदा परमया युतः
सो ऽपश्यत् पर्वतस्याग्रे मेरुतुल्ये महीपतिः ।
पुष्पारामसहस्राणि हर्म्याणि विविधानि च
तत्रैव शतसाहस्रं यतीनाम् ऊर्ध्वरेतसाम् ।
भक्त्या ऽभ्यर्च्य विधानेन देवेशं च मुनींस् तथा
प्रणम्योवाच मधुरं बादरायणशाकटौ ।
पितॄणां तारणार्थाय श्राद्धकालत्वसिद्धये
महानयं भवद्भिश् च प्रसाद क्रियतां मयि ।
अभ्यर्च्य तान् मुनीन् सर्वान् प्रणिपत्य स्थितस् ततः
तस्य तद्वचनं श्रुत्वा अजापालस्य भूभृतः ।
ऋषीणां तापसौ वृद्धौ बादरायणशाकटौ
ऊचतुस्तौ तु वचनम् अजापालं नराधिपम् ।
न राजग्राहकाः सर्वे मुनयः शंसितव्रताः
राजप्रतिग्रहो घोरो रौद्रः पापो भयावहः ।
नरके यातनां घोरां कः सोढुं शक्तिमान् भवेत्
स्वस्ति ते ऽस्तु नृपश्रेष्ठ पन्थानः सन्तु ते शिवाः ।
एवम् उक्त्वा तु चक्रुस् ते मुनयो वाक्यसंयमम्
ब्रह्मशापभयाद्भीतो नृपस्तूष्णीं बभूव ह ।
गजानां दशसाहस्रं घण्टाभरणभूषितम्
प्रादाद् विप्राय संकल्प्य मठं हेममयं शुभम् ।
कालञ्जरगिरिं राजा त्रिश्चकार प्रदक्षिणाम्
नमस्कृत्वा महेशानं भक्तियुक्तः सुहृद्वृतः ।
जगाम स्वपुरं राजा यथा शक्रो ऽमरावतीम्
गते तस्मिन् महीपाले ऋषयः काममोहिताः ।
केचिद् गजसमारूढा नानारत्नसमन्विताः
केचिद् अश्वसमारूढा वीज्यमानाश् च चामरैः ।
लभन्ते विविधान् भोगांस् ते ब्रह्मर्षितपोधनाः
देवस्वभक्षकाः सर्वे स्त्रीलोभवशवर्तिनः ।
सुखं च परमं प्राप्ता देवद्रव्येन राजसाः
कालान्तरे ततः प्राप्ते सर्वे मृत्युवशं गताः ।
वर्जयित्वा तु विप्रौ द्वौ बादरायणशाकटौ
श्वयोनिं समनुप्राप्ताः सर्वे ते मुनिपुङ्गवाः ।
अमेध्यभक्षकाः पापा देवनिर्माल्यभक्षणात्
तेषां सम्पर्कभावेन श्ववक्त्रौ द्वाव् उपस्थितौ ।
शोचन्तः स्वानि कर्माणि व्याहरन्तः स्वकां गिरम्
पप्रच्छतुः श्वयोनींस् तौ बादरायणशाकटौ ।
कर्मणा केन यूयं वै श्वयोनिं समुपागताः
ऋषय ऊचुः:
देवद्रव्ये गुरुद्रव्ये द्रव्ये चण्डीश्वरस्य च ।
त्रिविधं पातकं दृष्टं दानभक्षणलङ्घनात्
तस्मात् सम्पर्कदोषेण सारमेयत्वम् आगताः ।
बभ्रमुः सर्वतीर्थानि दिव्यं वर्षशतं तथा
नैमिषारण्यम् आसाद्य यथा योगं व्यवस्थिताः ।
तेषां तद्वचनं श्रुत्वा बादरायणशाकटौ
जग्मतुर् ब्रह्मलोकं तौ ब्रह्मपुत्रौ यशस्विनौ ।
अभिवाद्य यथान्यायं ब्रह्माणं जगतां पतिम्
ऊचतुश् च स्ववृत्तान्तं पितरं तत्त्वदर्शिनम् ।
अत्यन्तौ मुनिशार्दूलौ दृष्ट्वा तौ विकृताननौ
उवाच वचनं श्रीमान् ब्रह्मालोकपितामहः ।
देवद्रव्यापहारेण दुष्कृतं स्वर्गगर्हितम्
सुरासुरगणैर् यत्तु लङ्घितुं नैव शक्यते ।
किं पुनर् मानुषैः क्षुद्रैर् देवद्रव्योपजीविकैः
तेषां तु नियतं घोरे नरके पतनं स्मृतम् ।
निष्कृतिर्नर्मदा तेषां विहिता लोकपावनी
स्नात्वा तु कल्पगा तोये ऽभ्यर्चयित्वा वृषध्वजम् ।
मुच्यते सर्वपापेभ्यः सत्यमेतत् मयोदितम्
पितामहवचः श्रुत्वा बादरायणशाकटौ ।
ऋषिभिः सह तत्रैव नर्मदातीरमाश्रितौ
सरिन्नान्या ऽस्ति लोके ऽस्मिन्पापस्यास्य विशुद्धये ।
ततस् ते मुनयः सर्वे स्मरन्तः पूर्वदुष्कृतम्
षण्मासा ऽभ्यन्तरे राजन् छिवध्यानपरायणाः ।
निष्कल्मषाः बभूवुस् ते तीर्थस्यास्य प्रभावतः
बल्याद्या मुनयः सर्वे शतक्रतुपुरोगमाः ।
ददृशुस् ते क्रतुवरं शिवेनैव यथोदितम्
गृहीत्वा ऽथ मुनीन् सर्वे ब्रह्माद्याश् च सुरासुराः ।
सुप्रभास् तांस् तु देवत्वं मण्डपेश्वरदर्शनात्
तेन लिङ्गं तु विख्यातं लोके ऽस्मिन् मण्डपेश्वरम् ।
स्वारोचिषे ऽन्तरे प्राप्ते त्रेतायां तु नृपोत्तम
क्षत्रियाणां सहस्राणि तत्र सिद्धानि भारत ।
एतत् सर्वं समाख्यातं समासेन मया ऽनघ
श्रवणात् कीर्तनाद् राजन् हयमेधफलं लभेत्
युधिष्ठिर उवाच:
अमरेश्वरपूर्वेण पर्यङ्कात् पश्चिमे तथा
तीर्थसंख्यां क्रमेणैव कथयस्व तपोधन
मार्कण्डेय उवाच:
शृणु राजन् महाभाग पूर्वभागे व्यवस्थितम्
श्वेतकिंशुकनामानं तीर्थं पापप्रणाशनम् ।
नराः सुखेन रूपेण यत्र स्नाता दिवं गताः
श्वेतकिंशुकनामास्ति लिङ्गं परमसिद्धिदम् ।
ताटकेश्वरदेवश् च तत्र स्वर्गफलप्रदः
अन्यत् तु वर्णनामेति तीर्थं पापप्रणाशनम् ।
त्र्यम्बकस् तु महादेवो यत्रलोके वरप्रदः
तस्य तीर्थस्य माहात्म्याद् गण्डेशस् त्रिदिवं गतः ।
गण्डकेश्वरलिङ्गं तु लिङ्गं शुक्लेश्वरं तथा
नर्मदादन्तिवनिकासङ्गमो लोकविश्रुतः ।
तत्र लिङ्गेश्वरं लिङ्गं सर्वसिद्धिप्रदायकम्
बालकेश्वरलिङ्गं तु तथा ऽन्यत् पूर्णकेश्वरम् ।
रेवाया उत्तरे कूले नर्मदापुरमुत्तमम्
तीर्थं कपिशिला नाम सर्वानर्थविदूषणम् ।
लिङ्गं सिद्धेश्वरं नाम तथा ऽन्यन्नाडकेश्वरम्
अत्रान्तरे नृपश्रेष्ठ दशलक्षाणि नामतः ।
तीर्थानि दशलक्षाणि कीर्तितानि यथाक्रमम्
ततो गच्छेन् नृपश्रेष्ठ वैदूर्यात् पश्चिमां दिशम् ।
शशभीनर्मदायोगं सर्वपापप्रणाशनम्
भुक्तिदं मुक्तिद चैव लिङ्गं वै शशभेश्वरम् ।
त्रिषु लोकेषु विख्यातं गर्दभीयोनिमोक्षणम्
मण्डलेश्वरनामेह तीर्थं लिङ्गं नराधिप ।
यत्र माण्डलिकाः सिद्धा अजापालो मनुस् तथा
तत्र चेष्ट्वा तु मनुजः सम्भवेन् न पुनर्भवे ।
तिलोदकप्रदानेन पिण्डपातेन भारत
पितरस् तस्य तृप्यन्ति यावच् चन्द्रदिवाकरौ ।
तत्र प्रदीयते दानं तस्य संख्या न विद्यते
कान्तारकं ततो गच्छेत् सर्वतीर्थवरं शुभम् ।
तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः
सपादलक्षमधिकं तीर्थानां मण्डलेश्वरे ।
कीर्तिते तव राजेन्द्र यथादृष्टं यथाश्रुतम्
त्रेतायां रघुवंशे तु कुमारौ रामलक्षणौ ।
मैथिल्या सह राजेन्द्र उत्तीर्णो यत्र कल्पगाम्
जग्मतुः पितुराज्ञां वै कुर्वन्तौ विष्णुरूपिणौ ।
स्नात्वा तीर्थवरे तत्र भक्त्या ऽभ्यर्च्य महेश्वरम्
राजतीर्थं तु तद्गोप्यं लिङ्गं वै लक्षणेश्वरम् ।
सीतेश्वरं तथा लिङ्गं सुरासुरनमस्कृतम्
तत्र स्नात्वा ऽर्चयित्वा तु शूलपाणिं महेश्वरम् ।
सर्वपापविनिर्मुक्तो गाणपत्यम् अवाप्नुयात्
ततोगच्छेत् नृपश्रेष्ठ पुण्यतीर्थं शिवालयम् ।
माहिष्मतीं पुरीं रम्यां तां दृष्ट्वा न च्युतः क्वचित्
यत्र कालाग्निरुद्रो ऽस्ति प्रज्वलन्न् इव हेतुभिः ।
त्रयस्त्रिंशत् तु तिष्ठन्तु लिङ्गानां कोटयस् तथा
ततः कोटीश्वरं लिङ्गं कोटितीर्थे नराधिप ।
यज्ञकोटिफलं तत्र तस्य लिङ्गस्य पूजनात्
तत्र दत्तस्य दानस्य कोटिसंख्या तु विद्यते ।
दशाश्वमेधतीर्थं तु भुक्तिमुक्तिफलप्रदम्
तिलोदकप्रदानेन पितॄणां गतिरुत्तमा ।
स्नातमात्रो नरस् तत्र सूर्यतेज समप्रभः
पुराणि पञ्चसामान्याच् छम्भुना कीर्तितानि वै ।
प्रभासश् च कुरुक्षेत्रं तथा मायापुरी शुभा
अवन्ती च महाकालं तथा माहेश्वरं पुरम् ।
एतेषु च समग्रेषु विद्धि लिङ्गान्यनुक्रमात्
अत्र दत्तं हुतं वेष्टम् अक्षयाद् अपि चाक्षयम् ।
अवशः स्ववशो वा ऽपि प्राणत्यागं करोति य
स याति परमं स्थानं यत्र देवो महेश्वरः ।
कीर्तयेत् प्रातरुत्थाय पुण्यान्य् एतानि यो नरः
न स पापेन लिप्येत यमलोकं न पश्यति ।
तीर्थं पिपीलिका नाम गता यत्र पिपीलिकाः
शिवलोकं महाभाग सर्वलोकोत्तमोत्तमम् ।
बन्ध्यारेवासमायोगं सुरासुरनमस्कृतम्
सङ्गमे यत्र राजेन्द्र लिङ्गं वै मुनकेश्वरम् ।
योगिनस् तत् तु पश्यन्ति न तत् पश्यन्ति मानुषाः
विख्यातं तत् तु नगरं नर्मदादक्षिणे तते ।
अयुत यत्र लिङ्गानां तीर्थानां च नराधिप
लिङ्गं चण्डीश्वरं नाम तथैवोडुगणेश्वरम् ।
वकेश्वरं तत्र विद्धि वका यत्र दिवं गताः
तीर्थं गङ्गावहं नाम लिङ्गं वै सर्वसिद्धिदम् ।
अङ्गारेशम् इति ज्ञेयं विमलं तत्र भारत
सोमतीर्थमिति ज्ञेयं शुक्लतीर्थम् अतः परम् ।
तीर्थानां निरसं नाम ध्रुवतीर्थं नराधिप
अनेकानि सहस्राणि तीर्थानां चैव भारत ।
तीर्थं पिपीलिका नाम भुक्तिमुक्तिप्रदायकम्
क्रोशमात्रं तु विज्ञेयं पूर्वपश्चिमतस् तथा ।
तीर्थानाम् अयुतं सार्द्धं ऋषिदेवनिषेवितम्
तत्र दत्तं हुतं चैव तस्य संख्या न विद्यते ।
तत्र यः सन्त्यजेत् प्राणानवशः स्ववशो ऽपि वा
सर्वपापविनिर्मुक्त उमामाहेश्वरे पुरे ।
मोदते सर्वकामैस् तु यावद् इन्द्राश् चतुर्दश
यस्माद् एव शिवं तस्मादर्चयेच् छान्तमानसः ।
मैत्रः कारुणिको नित्यं प्राप्नोति परमं पदम्
क्षणमात्रेण यत्पुण्यं ततः कुर्यान् नराधिप ।
न तद् वर्षशतेना ऽपि न तु यज्ञशतैर् अपि
शक्यं साधयितुं राजंस् तथा तीर्थशतैर् अपि ।
सर्वप्राणिषु कारुण्यं दीनानाथेषु भावयन्
मैत्री च मुदिता राजन् पुण्यशीलेषु सर्वदा ।
पुण्यवत्सुखमापेक्ष्यं सर्वप्राणिषु यत्नतः
अक्षेत्रे तु कृतं पुण्यं समं भवति भारत ।
नर्मदासङ्गमो यत्र तत्र संख्या न विद्यते
अन्यदेशे कृतं पापं पुण्यक्षेत्रे विनश्यति ।
पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति
उत्तीर्णो नर्मदां यत्र कार्त्तिकेयो महाबलः ।
लिङ्गं तत्र च विज्ञेयं सिद्धिदं कार्त्तिकेश्वरम्
चन्द्रेश्वरं तथा लिङ्गं लिङ्गं चैव शिखीश्वरम् ।
शक्तीश्वरं तथा चान्यत् सर्वपापप्रणाशनम्
तेषाञ् चैव लिङ्गानाम् अर्चनं भक्तिभावतः ।
ब्रह्महत्यादिकात् पापान् मुच्यते नात्र संशयः
शिवलोकमवाप्नोति पितॄणां स्वर्गतिस् तथा
युधिष्ठिर उवाच:
भगवान् छ्रोतुम् इच्छामि माहिष्मत्यास् तु पश्चिमे
सन्निधौ च तिलेशस्य सर्वपापप्रणाशनम् ।
रासभीनर्मदाभेदं सुरासुरनमस्कृतम्
मार्कण्डेय उवाच:
शृणु राजन् महाभाग इतिहासं पुरातनम् ।
नर्मदागर्दभीभेदं तिर्यग्योनिविमोक्षणम्
यस्मिंस् तीर्थे महाराज सतेजाहरिकेशयोः ।
अपाराद्रासभत्वाच् च मुक्तिः कल्मषनाशने
हविर्धानस् तु राजर्षिरासीत् कल्पो युधिष्ठिर ।
आत्रेयस्य सुतश् चासीद् ब्रह्मर्षिर्ब्रह्मवित्तमः
पावकस्य सुताया तु पाणिग्रहणधर्मतः ।
हविर्धानाय सा दत्ता सुतेजा नाम नामतः
कुशवल्कपरीधाना कन्दमूलफलाशिनी ।
रूपयौवनसम्पन्ना पार्वतीव मनोहरा
हविर्धानस् तु राजर्षिरृतुं बुद्ध्वा गतस् तु ताम् ।
आगतो ऽसौ युवा तत्र सर्वशास्त्रविशारदः
महर्षिं त्वागतं ज्ञात्वा सुतेजा कामितुं गता ।
सहसा ऽलंकृतां तां तु करं जग्राह स द्विजः
तेन सा धर्षिता तत्र यथेष्टं कामपीडिता ।
अग्निहोत्रस्य शालायां दाम्पत्यं कामसंयुतम्
ददृशे स महात्मा वै धर्माधर्मविशारदः ।
आसीद् विषण्णवदनो दृष्ट्वा तां पावकात्मजाम्
अवध्यो ब्राह्मणो दुष्टः पापात्मा पापकर्मकृत् ।
इयं च पत्नी दुष्टा मे न वध्या स्त्रीस्वभावतः
तमुवाच विचार्यैवं ब्राह्मणं दारकर्षकम् ।
मातरं गुरुपत्नीं च स्वसारं दुहितरं तथा
गत्वा तु प्रविशेद् अग्निं ततः शुद्ध्येत मानवः ।
गर्दभस् त्वं भवेद् विप्र गर्दभी च तथा विधिः
दिव्यं वर्षसहस्रं तु अमेध्यं भक्षयिष्यथः ।
सुतेजाहरिकेशौ तु हविर्धानः शशाप तौ
पीडितौ कर्मणा तेन गतौ द्वौ बद्रिकाश्रमम् ।
हिमस्थानं च केदारं भैरवं नैमिषं तथा
सूर्याक्षं च गयातीर्थं गङ्गासागरसङ्गमम् ।
वाराणसीं प्रयागं च ओघतीर्थं च पुष्करम्
योगीश्वरं रुद्रकोटिं महेन्द्रं ब्रह्मसम्भवम् ।
प्रभासं च कुरुक्षेत्रं तीर्थं सौम्येश्वरं तथा
अनेकानि च तीर्थानि पृथिव्यां यानि कानि च ।
सार्द्धं तया तपस्विन्या हविर्धानस्य शापतः
अनेकदुःखसम्पन्नो हरिकेशो भ्रमन् महीम् ।
खरयोनिनियुक्तस् तु परदाराभिकर्षकः
कालेन भूयसा तत्र हरिकेशस् तया सह ।
तेनैव खररूपेण अगस्त्यं च महामुनिम्
नमस्कृत्य मुनिं तत्र साष्टाङ्गं प्रणिपत्य च ।
गुरुतल्पगपापस्य परदाराभिगमिनः
प्रायश्चित्तं विधानेन दीयताम् मे द्विजोत्तम ।
मोचय त्वमिमां योनिं ब्रह्मलोकपदस्थितः
हविर्धानान्तिकं याहि ततो ऽगस्त्य उवाच तम् ।
तस्य तद्वचनं श्रुत्वा मुनीनामूर्ध्वरेतसाम् ।
हरिकेशो ऽब्रवीद् वाक्यं सुतेजा सह सङ्गतः
अनुग्रहम् इमं मन्ये ब्राह्मणानां न संशयः ।
ततो गतौ तु तं राजन् हविर्धानस्य चाश्रमम्
नमस्कृत्य मुनिश्रेष्ठं हरिकेशो ऽब्रवीद् वचः ।
गुरुतल्पगपापो ऽहं क्षमस्व मयि पुत्रके
शापान्तं च वरं मन्ये दातुम् अर्हसि सुव्रत ।
तस्य तद् वचनं श्रुत्वा हरिकेशस्य दुर्मतेः
उवाच वचनं विप्रस् तं वै गर्दभरूपिणम् ।
स्वकर्मणा तनुं त्वं हि गार्दभीं प्राप्तवानसि
जन्मान्तरकृतैश् चैव कर्मभिः कर्मकारिभिः ।
शुभं वाप्य् अशुभं वापि प्राप्यते नात्र संशयः
कर्मणां च विपाको ऽयमपि देवैः सवासवैः ।
ज्ञातुं न शक्यते विप्र गाहना कर्मणां गतिः
दोषो न विद्यते चैव तद् ब्राह्मण कथंचन ।
किंतु जन्मान्तरे येन कर्मणा तत्कृतं तव
तस्माद्विश हुताशं त्वमनया मेकलातटे ।
शङ्कराद् वरमासाद्य तावत् प्राप्स्यसि सद्गतिम्
एवमुक्तो ययौ राजन् हरिकेशस् तया सह ।
हरिकेशः सुतेजा च नर्मदातीरसन्निधौ
दारूणि च समाहृत्य प्रविष्टौ च हुताशनम् ।
तत्क्षणाद् दिव्यदेहौ तु स्नात्वा स्पृष्ट्वा ह्युभाव् अपि
कामिकं यानमारूढौ सर्वालङ्कारभूषितौ ।
अस्य तीर्थस्य माहात्म्याद् यथा लक्ष्मीजनार्दनौ
भुञ्जन्तौ विविधान् भोगान् गतौ माहेश्वरं पुरुम् ।
तेना ऽसौ सङ्गमः पुण्यस्तिर्यग्योनिविमोक्षणः
हरिकेशेश्वरं लिङ्गं सुतेजानिर्मितं तथा ।
हविर्धानेश्वरं नाम चतुर्थो ऽगस्त्यनिर्मितम्
चत्वारि पुण्यलिङ्गानि काममोक्षप्रदानि तु ।
तिलोदकप्रदानेन तस्मिंस् तीर्थे नराधिप
मातृकं पैतृकं चैव नरकाद् उद्धरेत् पितॄन् ।
तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः
एतत् ते कथितं राजन्न् आख्यानं च पुरातनम्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0