भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 25

25.1

इति श्रीस्कन्दपुराणे रेवाखण्डे कुब्जामाहात्म्ये चित्राङ्गदशापमोचनो नाम चतुर्विंशो ऽध्यायः ॥
र्क्स् अध्याय 25
मार्कण्डेय उवाच:
अथान्यत् कथयिष्यामि तीर्थानां तीर्थमुत्तमम् ।
सर्वपापहरं दिव्यं स्वर्गसोपानसन्निभम्

25.2

सपादकोटितीर्थानि पुरे माहेश्वरे नृप ।
रौद्रं वारुणम् आसाद्य क्रोशमात्रप्रमाणतः

25.3

अत्रान्तरे महाराज शिवक्षेत्रमुदाहृतम् ।
प्राणत्यागं च यः कुर्याच् छिवलोके च मोदते

25.4

तिर्यग्योनिगताः पापाः कीटपक्षिमृगादयः ।
ते ऽपि यान्ति शिवस्थानं यत्र देवो महेश्वरः

25.5

तिलोदकप्रदानेन मातृकाः पितृकास् तथा ।
पितरस् तस्य तृप्यन्ति यावद् आभूतसम्प्लवम्

25.6

तत्रेष्टा ब्रह्मणा पूर्वमसंख्येयां मखोत्तमाः ।
शक्रश्च देवराज्रत्वं तत्रेष्ट्वा समवाप्तवान्

25.7

कार्तवीर्येण तत्रैव कृतं यज्ञशतं पुरा ।
अयोध्यायां पुरा राजन् यज्ञदानपरायणः

25.8

आदित्यस्य सुतश्चासीत् सूर्यवंशे महीपतिः ।
जित्वा ऽसुरांस् तथा दैत्यान् रक्षोगणसमन्वितान्

25.9

मनुर्नाम्ना चक्रवर्ती शक्रादीशाद् गुणोत्तमः ।
पुरोत्तमे न सर्पन्ति मृत्युरोगजरास् तथा

25.10

शतार्द्धसाप्तभौमैश् च गृहैर् हेममयैः शुभैः ।
वापीकूपतडागानां दीर्घिकानां शतैर् युता

25.11

सुशोभिता प्रेक्षणीयैर् नानारूपैर् विलासिभिः ।
वेणुवीणाध्वनियुता नानावाद्यैः सहस्रशः

25.12

अलकेव कुबेरस्य शक्रस्येवामरावती ।
पुरी विराजते तद्वद् अयोध्या देवनिर्मिता

25.13

लक्षाणि द्वे च सार्धाणि प्रजा जीवन्ति तत्र च ।
तत्रैव वंशे राजर्षीर् अभूत् परमधार्मिकः

25.14

नानामखसहस्रैर् यो ददाह पृथिवीम् इमाम् ।
न तद् देशो न तत् तीर्थं न तद् राष्टं न चाश्रमः

25.15

नेष्टं यत्र महायज्ञैः सालङ्कायनभूभृता ।
सस्यमालाधृता पृथ्वी धनधान्यसमन्विता

25.16

स्वयं कामदुघा गावः पट्टवस्त्रमहीरुहाः ।
यज्ञैः सर्वैर् विवाहैश् च वेदैर् माङ्गल्यमङ्गलैः

25.17

एवं तु सततं धात्री कालेन महता ततः ।
अनावृष्टिरभूद् राष्ट्रे पुरा द्वादशवार्षिकी

25.18

मृता जानपदाः सर्वे द्विपदाश् च चतुष्पदाः ।
तृणगुल्मलतावल्यो भूतग्रामं चतुर्विधम्

25.19

हाहाकारोमहानासीद् देवासुरनृणां तथा ।
सालङ्कायनराजर्षिः चिन्तयामास भारत

25.20

जन्मप्रभृति मे पापं किंचिद् एव न विद्यते ।
पूजयामि हरिं देवं संसारार्णवतारणम्

25.21

ब्राह्मणांश् च मुनींश् चैव तर्पयामास चेच्छया ।
बृहस्पतिसमं बुद्ध्या वशिष्ठं ब्रह्मवादिनम्

25.22

पप्रच्छ नृपतिर् भक्त्या साष्टाङ्गं प्रणिपत्य च ।
अनावृष्टिर् अभूद् विप्र कथं द्वादशवार्षिकी

25.23

ना ऽपराधो मया कश्चित् कृतो ब्राह्मणदेवयोः ।
संशयो मे महास्तत्र वेदानुग्रहतत्पर

25.24

वशिष्ठ उवाच:
शृणु राजन् महाबाहो अनावृष्टेश् च कारणम् ।
पुरा सांवत्सरे यज्ञे वृद्धाश् च मुनयो ऽवदन्

25.25

तेषां च वचनं श्रुत्वा कर्तव्यं जनसंसदि ।
तावद् एव मुनिश्चात्रिः पुलस्त्यः पुलहः क्रतुः

25.26

भृगुरग्निर् मरीचिश् च कश्यपो ऽथ विभाण्डकः ।
जमदग्निश् च माण्डव्यो यमो विष्णुस् तथाङ्गिराः

25.27

बृहस्पतिस् तथा दक्षः शातातपपराशरौ ।
उशना गौतमश् चैव व्यासः कात्यायनस् तथा

25.28

विश्वामित्रो ऽथ शाण्डिल्यः कक्षः कात्यायनिस् तथा ।
हारीतः शङ्खलिखितौ याज्ञवल्क्यो ऽथ गालवः

25.29

आत्रेयः शौनको गर्गो जह्नुर् उद्दालकस् तथा ।
कौशिको भार्गवो ऽगस्त्यो दुर्वासाश्च्यवनस् तथा

25.30

एते चान्ये ऽपि बहवो ऋषयः सूर्यवर्चसः

25.31

धर्माणामुपदेष्टारो वेदशास्त्रानुयायिनः ।
अनावृष्टिं तु वै ज्ञात्वा प्रत्ययोध्यां प्रतस्थिरे

25.32

आगतान् स मुनीन् दृष्ट्वा राजा परमधार्मिकः ।
उदतिष्ठन् महाभाग दिवि शक्र इव ऽपरः

25.33

तान् अभ्यर्च्य यथा न्यायम् अर्घपाद्यादिभिः स्वयम् ।
उपविष्टान् यथा न्यायम् आसने शुभदर्शने

25.34

स कारणम् अनावृष्टेः तान् पप्रच्छ महात्मनः ।
अब्रुवन् मुनयो वाक्यं सालङ्कायनभूपतिम्

25.35

भविष्यभूततत्त्वज्ञं सप्तकल्पान्तवासिनम् ।
मार्कण्डेयं महात्मानं सर्वेषां गुरुम् अर्चय

25.36

तस्याश्रमपदं गत्वा ब्राह्मणैः सह चिन्तय ।
यं यं धर्मं स वदति तं तं कर्तुम् इहार्हसि

25.37

एवमुक्तो द्विजैः सर्वैः सालङ्कायनभूपतिः ।
उवाच वचनं सर्वान् मुनीन्द्रां छंसितव्रतान्

25.38

अनुग्रहम् इमं मन्ये प्रसादं मुनिसत्तमाः ।
आदिदेश ततो राजा भ्रातरौ द्वारपालकौ

25.39

सुधन्ववीरधन्वानौ प्रतीहारौ महाबलौ ।
रथे हयानि युज्यन्तां ब्राह्मणारोहणं प्रति

25.40

ब्रह्मशर्मा देवशर्मा मन्त्रिणौ तत्त्वदर्शिनौ ।
पप्रच्छ गमनार्थाय कर्तव्यं च यथा ऽदिशत्

25.41

मन्त्रिणावूचतुः:
समयज्ञो महाबाहो त्वम् एव विहितं कुरु ।
राजा तद्वचनं श्रुत्वा धर्मशास्त्रविशारदः

25.42

उवाच श्लक्ष्णाया वाचा हर्षगद्गदमानसः ।
गन्तव्यं ब्राह्मणैः सार्द्धं यत्र कल्पान्तगो मुनिः

25.43

एवमुक्त्वा ययौ राजा ब्राह्मणैः सह भारत ।
दिव्ययानसमारूढः सम्प्राप्तः कल्पगातटम्

25.44

धर्मारण्यं समासाद्य मार्कण्डं मुनिभिः सह ।
स समीपे समासीनं प्रणम्य प्रणतिक्षमम्

25.45

आपृष्टः कुशलं तेन तदा वै ब्रह्मवादिना ।
उवाच वचनं राजा मार्कण्डं ज्ञानचक्षुषम्

25.46

अद्य मे कुशलं ब्रह्मंस् त्वत्पादाम्बुजदर्शनात् ।
किंतु मां बाधते नित्यं भविष्यं चैव तत्त्ववित्

25.47

मार्कण्डेय उवाच:
अपमार्गेण प्रजानां देव ब्राह्मणहिंसया ।
वर्णाश्रमविलोपेन अधर्मो धर्मबाधकः

25.48

शम्भुर् न पूज्यते यत्र रुद्रभागो न दीयते ।
देशे तस्मिन् अनावृष्टिर् दुर्भिक्षं मरणं ध्रुवम्

25.49

विनश्यन्ति प्रजा राष्ट्रे अल्पायुर् नृपतिर् भवेत् ।
अब्रह्मण्या ब्राह्मणाश् च शूद्रा वै ब्रह्मवादिनः

25.50

शिवजपं यज्ञसूत्रं शूद्रो धारयते यदा ।
अलिङ्गिनो लिङ्गिनश् च अव्रता व्रतधारिणः

25.51

स्वपापं कृतवन्तश् च तान् स्वराष्ट्रे प्रवासिनः ।
सव्याङ्गे ब्रह्मसूत्रं च वह्णिसूत्रं च कारयेत्

25.52

गर्दभारोहणं तस्य कारयेल् लोकगार्हितम् ।
एतत् ते कथितं राजन्न् अनावृष्टेश् च कारणम्

25.53

अनावृष्ट्या सस्यहानिस् तत्क्षयान् म्रियते प्रजा ।
प्रजाक्षयाद् वेदहानिस् तद्धानौ यज्ञसंक्षयः

25.54

तत्क्षयाद् धर्महानिश् च तद्धानौ वर्णसङ्करः ।
तत्सङ्करात् कर्मलोपः पतनं नरके ध्रुवम्

25.55

गङ्गासागरसम्भेदे चाण्डालाः सप्तसाम्प्रतम् ।
कणधूमं पिबन्त्याशु ऊर्ध्वपादा ह्यधः शिराः

25.56

चकम्पिरे सुराः सर्वे सिद्धगन्धर्वकिन्नराः ।
देवराजः सुरैः सार्धमासनाच् चलितो नृप

25.57

तपसस् तु प्रभावो ऽयम् अपि दृष्टो नराधिप ।
नैमिषे च महारण्ये सुरासुरनमस्कृते

25.58

शतमष्टोत्तरं सर्वे तापसाः शूद्रजन्मनः ।
ब्रह्मकर्म समासाद्य स्थिता धर्मपरायणाः

25.59

अधर्मचारिणां पुंसां राजा पापेन लिप्यते ।
अयज्ञयाजकस्थाने अनावृष्टिर् भवेत् सदा

25.60

अपूजनात् तथा नित्यं देवेदेवस्य शूलिनः ।
न स्वर्गो नापवर्गश् च न भोगाश् चापि पुष्कलाः

25.61

ब्रह्मविष्णुसुरेन्द्राद् या अर्चयन्ति महेश्वरम् ।
किं पुनर् मानुषाः पापा राजानः पापजीविनः

25.62

नार्चयन्ति महेशं ये ते नराः पापभागिनः ।
न च स्वर्गस्य मोक्षस्य फलं भोगम् अवाप्नुयुः

25.63

तस्मान् नृप त्वं श्रेयांसि ब्राह्मणैः सह चिन्तय ।
नर्मदातीरमासाद्य रुद्रयज्ञं समारभ

25.64

तेषां शिरांसि होमे ऽस्मिन् पातय त्वं यथाविधि ।
समर्चय सुरेशानं ततः शान्तिर् भविष्यति

25.65

कामवर्षी च पर्जन्यः पुनः सृष्टिः प्रवर्तते ।
मुच्यतां पापदोषेण राज्यं स्वर्गमवाप्स्यसि

25.66

तवैतत् कथितं राजन् यथादृष्टं मया ऽनघ ।
तस्य तद् वचनं श्रुत्वा राजा परमधार्मिकः

25.67

नमस्कृत्य मुनिश्रेष्ठम् ऋषिभिः सह भारत ।
अनुग्रहम् इमं मन्ये त्वत्प्रसादाद् यथोदितम्

25.68

आदिदेश प्रतीहारान् यज्ञसम्भारसिद्धये ।
गत्वा ऽयोध्यां पुरीं रम्यामादेशं मखसम्भवम्

25.69

यज्ञोपस्करमादाय सर्वैर् आगम्य ताम् इति ।
राज्ञीनां च कुमाराणां सहस्रं साष्टकं तथा

25.70

सर्वांश् चैव महीपालान् नानादेशसमुद्भवान् ।
सप्तरात्राभ्यन्तरतो यथा यज्ञः प्रवर्तते

25.71

नमस्कृत्य गतौ तौ तु प्रतीहारौ पुरं प्रति ।
कथयामासतुस्तत्र यथोद्दिष्टं नृपेण तु

25.72

अष्टोत्तरसहस्रं तु राज्ञीनां दिव्यवाससाम् ।
कुमारा ये च राजानो ये चान्ये गृहकर्मिणः

25.73

असूताक्षतयोनीनां लक्षम् एकं तु योषिताम् ।
रम्भोर्वशीसमानानां रूपेणाप्रतिमत्विषाम्

25.74

महोरस्कन्धगात्राणां वाहानामयुतानि षट् ।
सुवर्णारत्नपूर्णानां मुद्राणामयुतं तथा

25.75

सवसानां च धेनूनां त्रिंशल् लक्षाणि यन्त्रितः ।
पाण्डुराणां हयानां तु अयुतानि दशैव तु

25.76

घण्टाभरणशोभानां दन्तिनामयुतं तथा ।
यज्ञोपस्करमादाय सर्वसम्भारसम्भृतम्

25.77

प्रस्थितौ नर्मदां राज्ञे सन्निवेशयतां पुरः ।
प्रणम्य चाब्रवीद् राजा सप्तकल्पान्तवासिनम्

25.78

आदेशो दीयतां मह्यं मखं यत्र प्रवर्तते ।
मार्कण्डेय उवाच:
वैदूर्यस्य च वारुण्यां यज्ञयूपांश् च मण्डपान्

25.79

अन्यांश् च यज्ञसम्भारान् सर्वांस् तत्रैव कारय ।
वशिष्ठं वामदेवं च भृगुमङ्गिरसं तथा

25.80

पुलस्त्यं पुलहं चैव भारद्वाजं च कश्यपम् ।
याज्ञवल्क्यं मुनिं चैव मुनिं दुर्वाससं तथा

25.81

विभाण्डकं पर्वतं च विश्वामित्रं च नारदम् ।
शौनकं चैव गर्गं च संवर्तं च पराशरम्

25.82

आपस्तम्बोशनो व्यासान् सकात्यायनगौतमम् ।
हारीतं शङ्खलिखितौ ऋष्यशृङ्गं च सोमपम्

25.83

अष्टाशीतिसहस्राणि वालखिल्यान् मुनींस् तथा ।
सर्वदेवनमस्कार्यो यज्ञपर्वतसंज्ञितः

25.84

हिरण्मया महास्तम्भा यादृशैर् उपशोभिताः ।
बहुधा यत्र शोभन्ते तथोक्ते यज्ञमण्डपे

25.85

कुण्डस्थलीः स्रुवास् सर्वाः कृत्वा हेममया नृपः ।
नानाविधैर् भक्ष्यभोज्यै रसैश् च विविधैस् तथा

25.86

सरितः सागरां शैलांस् तीर्थराजं च सर्वशः ।
लोकपालान् महाबाहुरसुरान् दैत्यदानवान्

25.87

चन्द्रादित्यौ ग्रहैः सार्धं नक्षत्रध्रुवमण्डलम् ।
ब्रह्माद्यांश् च सुरांस् तत्र मरुतो देवतास् तथा

25.88

विष्णुं चैव सुरेशानं यज्ञे तत्पुरुषं स्वयम् ।
आवाहयन् महादेवं गणकोटिसमन्वितम्

25.89

आवाहितस् ततश् चाग्निर् ब्राह्मणैर् वेदपारगैः ।
निर्धूमः प्रज्वलंश् चैव सूर्यकोटिसमप्रभः

25.90

वेदध्वनितनिर्घोषैर् दिवं भूमिं च नादयन् ।
कणधूमकृताहारांश् चाण्डालान् सप्तवानय

25.91

तान् आनय तथा शूद्रान् नैमिषारण्यवासिनः ।
वशिष्ठ उवाच:
अनुग्रहम् इमं मन्ये यन्मां वदसि पार्थिव

25.92

कुशाग्रेण ततो राजा तेषां मूर्ध्नो न्यपातयत् ।
तं दृष्ट्वा मानुषं होमं सामिषं प्रेतरूपिणम्

25.93

प्रणष्टतोया रेवा तु विहाय त्रिदिवं गता ।
होमावसाने सम्प्राप्ते स्नानार्थं नर्मदां ययुः

25.94

शुष्कतोयां ततो ऽपश्यन् नर्मदां शंसितव्रताः ।
विस्मयं परमं प्राप्तः प्राह दुर्वाससं नृपः

25.95

चुकोप राजा विप्रेषु पापकर्मा दुरासदः ।
पर्जन्यार्थं वृष्टिकामैः कृतो यज्ञो निरर्थकः

25.96

पयः पुरातनं नष्टं न जातं वर्षणं क्वचित् ।
राज्ञस् तु वचनं श्रुत्वा दुर्वासाश्चा ऽब्रवीत् नृपम्

25.97

मुनींश् च सर्वांस् तत्रस्थान् धर्मतत्त्वविशारदान् ।
उदकं सर्वलोकानाम् ईप्सितं च न संशयः

25.98

ब्राह्मणानां तपो होमो वेदमन्त्रा वशे स्थिताः ।
दक्षिणा यज्ञरक्षा च यजमानवशे नृप

25.99

यज्ञोपस्करणं किंचिद् यच्चान्यद् वेदसम्मितम् ।
तत्सर्वं यजमानेन वेदमूलं द्विजोत्तमाः

25.100

वितोया नर्मदा जाता पर्जन्यो नैव वर्षति ।
तत्सर्वं कृतम् एवं तु श्रुतिर् एषा सनातनी

25.101

या ययौ तां प्रतीक्षस्व नर्मदामापगोत्तमाम् ।
तस्य तद्वचनं श्रुत्वा क्षमस्वेत्य् अब्रवीत् नृपः

25.102

वशिष्ठो वामदेवश्च वदत्येवं युधिष्ठिर ।
काशीपुर्यां प्रयागे वा गङ्गायमुनसङ्गमे

25.103

तत्रैव वर्तते यज्ञः सत्यमेव तपोधनाः ।
केचिद् आहुः कुरुक्षेत्रं स्थाने यत्र सरस्वती

25.104

समुद्दिष्टानि तीर्थानि मुनिभिस् तु पृथक्पृथक् ।
अब्रवीत् सहसा राजन् दुर्वासा रौद्रतापसः

25.105

नारदो ऽपि मुनिश्रेष्ठः तापसो गतकिल्बिषः ।
सरस्वत्यां महाराज तत्र तोयं न विद्यते

25.106

तेषां तद्वचनं श्रुत्वा सालङ्कायनभूपतिः ।
अब्रवीच् च ततो वाक्यं सर्वान् ऋषिगणान् प्रति

25.107

क्षणमेकं प्रतीक्षध्वं यावद् वहति कल्पगा ।
इत्युक्त्वा स नृपश्रेष्ठः ततस्तुष्टाव कल्पगाम्

25.108

नमस्ते ऽस्तु सुरेशानि नमस्ते शङ्करात्मजे ।
इडा च पिङ्गला चैव उमा गङ्गा सरस्वती

25.109

गायत्री वेदमाता च सावित्री च सरस्वती ।
ब्राह्मी च वैष्णवी गौरी लोकमाता यशस्विनी

25.110

समुद्दिष्टानि तीर्थानि पृथिव्यां यानि कानि च ।
त्वया ऽवृतानि सर्वाणि जगच् च सचराचरम्

25.111

न तत् पश्यामि त्वद्वारा ऽवृतं यन्न प्रदृश्यते ।
त्वत्तोयस्नानमात्रेण तृप्ता यान्ति परां गतिम्

25.112

श्रुत्वा स्तोत्रम् इदं देवी राज्ञश् चामिततेजसः ।
मकरासनमारूढा प्रत्यक्षा सप्तकल्पगा

25.113

प्राह ब्रूहि वरं राजन् यत् ते मनसि वर्तते ।
राजोवाच:
पूर्वान् सप्त परान् सप्त प्रवाहान् अक्षयान् कुरु

25.114

वरम् एतम् अहं मन्ये सप्तकल्पान्तवासिनि ।
नर्मदोवाच:
दत्तो वरो मया ह्येष सत्यं तव नराधिप

25.115

एवमुक्त्वा सरिच् छ्रेष्ठा जलौघेन परिप्लुता ।
प्रवाहैर् विस्तृतैस् तत्र वहन्ती सा व्यवस्थिता

25.116

तं दृष्ट्वा तादृशं कर्म सालङ्कायनभूपतेः ।
तुष्टुवुर् मुनयः सर्वे सत्यधर्मपरायणाः

25.117

स्नानावगाहनं पानं चक्रुस् ते पितृतर्पणम् ।
ततो निर्वतितो यज्ञो विप्रैः सर्वस्वदक्षिणैः

25.118

यो यत्कामयते कामं तत्तस्मै प्रतिपादितम् ।
वस्त्रालङ्कारदानैश् च दिव्ययानैः सुशोभनैः

25.119

ऋत्विजः पूजिताः सर्वे सालङ्कायनभूभृता ।
युगपत् पूजिताः सर्वे ब्रह्मविष्णुमहेश्वराः

25.120

ततः शिवालयं गत्वा लिङ्गं त्रिदशपूजितम् ।
नाम्ना माहेश्वराख्यातं सर्वकामफलप्रदम्

25.121

उमया सहितं शम्भुं भुक्तिमुक्तिप्रदायकम् ।
ओं महेश्वराय देवाय शम्भवाय नमो नमः

25.122

इत्यादिना तु मन्त्रेण समभ्यर्च्य विधानतः ।
कृताञ्जलिपुटो भूत्वा स्थितस् तत्रैव पार्थिवः

25.123

ततो विनिर्गता देवी पदमूलेन शूलिनः ।
प्रवाहो नर्मदा भेदे नार्मदः सुरपूजितः

25.124

ईश्वराद्यास् तथा देवाः सर्वे तुष्टास् तु भारत ।
वरं याचस्व भूपाल यथेष्टं मनसेप्सितम्

25.125

उवाच वचनं देवान् राजा परमधार्मिकः ।
यदि मे वरदा यूयं कामदाश् च प्रसादतः

25.126

इदं स्थानं तु न त्याज्यम् ईश्वराद् यैः सुरैर् अपि ।
यान्तु राष्ट्रे प्रजावृद्धिम् अनावृष्ट्या प्रपीडिताः

25.127

इदं वरम् अहं मन्ये पापा यान्तु त्रिविष्टपम् ।
अग्निश् चाहवनीयो ऽत्र स्वयं तिष्ठति सर्वदा

25.128

देवा ऊचुः:
यत् त्वया भाषितं राजंस् तत् सर्वं तु भवेद् इति ।
एवम् उक्त्वा ययुः सर्वे ह्य् अन्तर्धानं च खेचराः

25.129

पुनः प्रवर्धितं राष्ट्रं कामवर्षी च वासवः ।
यज्ञं निवर्तयित्वा तु दिव्यामात्यैः समावृतः

25.130

महीपालसहस्रैस् तु सान्तःपुरपरिच्छदः ।
विवेश नगरीं रम्याम् अयोध्यां देवनिर्मिताम्

25.131

एतत् ते कथितं राजन्न् उमामाहेश्वरं प्रति ।
तिर्यग् योनिगताः पापा मृगपक्षिसरीसृपाः

25.132

अवशः स्ववशो वा ऽपि शिवलोकमवाप्नुयात्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc