भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 24

24.1

इति श्रीस्कन्दपुराणे रेवाखण्डे कुब्जामाहात्म्ये त्रयोविंशो ऽध्यायः ॥
र्क्स् अध्याय 24
युधिष्ठिर उवाच:
समुत्पत्तिं च कुब्जाया यस्यां विमलमानसाः ।
सर्वपापविनिर्मुक्ता गन्धर्वो रगराक्षसाः

24.2

एतद् वै श्रोतुम् इच्छामि विस्तरेण महामुने ।
कथ्यतां मुनिशार्दूल समाख्यानं पुरातनम्

24.3

मार्कण्डेय उवाच:
शृणु राजन् कथां दिव्यां सर्वपापप्रणाशिनीम् ।
चित्राङ्गदः शक्रसुतो गन्धर्वः काममोहितः

24.4

समालम्ब्य कुमारीणां दशलक्षाणि भारत ।
रेमे यथेच्छया सो ऽपि पश्चान् मुक्तश् च किल्विषात्

24.5

आख्यानं कथयिष्यामि यथावृत्त पुरातनम् ।
सुवर्णो नाम गन्धर्वस् तस्य भार्या यशस्विनी

24.6

हेमगर्भेति विख्याता शक्रस्यैव यथा शची ।
सुता तस्याः सुकामेति विदितानङ्गमोहिनी

24.7

रूपयौवनसम्पन्ना ऊढा वै धनदेन सा ।
गौर्याराधनयोगेन तस्याः पुत्रो ऽप्य् अजायत

24.8

केतुमाल इति ख्यातो राजा वैद्याधरे पुरे ।
शशिरेखा प्रिया तस्य भार्व्या वै रूपशालिनी

24.9

द्वे कन्ये जनयामास रतिः प्रीतिर्मनोरमे ।
ददौ स कामदेवाय पाणिग्रहणपूर्वकम्

24.10

कन्यानां दशलक्षाणि भूषणैर् भूषितानि च ।
तास् तु यानसमारूढाः कामरूपा मनोरमाः

24.11

विचित्रवस्त्राभरणा गौर्याराधन तत् परा ।
तावन्न भुज्यते ताभिस् ताम्बूलं भोजनादिकम्

24.12

यावन्न कार्यम् अस्माभिर् इति सङ्कल्पमादधुः ।
नित्यं तैर्यत्रिकं तास् तु चक्रुः सर्वा समाहिता

24.13

वसन्ते समनुप्राप्ते द्रष्टुं प्रेक्षणकं पुरा ।
पुष्पकेण विमानेन जग्मुस् ता इन्द्रमन्दिरम्

24.14

क्रीडयित्वा यथा न्यायं मदिरामदविह्वलाः ।
अदृष्ट्वैव भवानीं ताश् चक्रे ताम्बूलभक्षणम्

24.15

चित्राङ्गदस्य चापारं रूपं दृष्ट्वा वराङ्गनाः ।
मोहिता ना ऽभिजानन्ति मदिरोन्मत्तमानसाः

24.16

तैश् चापि कामिताः सर्वा गन्धर्व्यो मुदिताननाः ।
नानाविधैस् तथा कार्यैश् चिक्रीडुर्मन्मथाद् दिवि

24.17

अतीते वत्सरे तास् तु गन्धर्वपुरमागताः ।
गौरीं द्रष्टुं समाजग्मुर् उमा माहेश्वरं पुरम्

24.18

नमस्कृत्य ततो देवीम् इदं वचनम् अब्रुवन् ।
रक्षस्वास्माकमीशानि च्युतानां नियमात् स्वकात्

24.19

ततश् चुकोप देवी तान् पापकर्मरतान् प्रति ।
व्रतादिकं हता ये ये परदाराविदूषकाः

24.20

अपत्रपा दुराचाराः सर्वलोकबहिष्कृताः ।
तद् अधर्मस्य पापस्यानिष्कृतिर् धरणीतले

24.21

कुमारीं कामयेद् यस् तु कामलोभेन मोहितः ।
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः

24.22

एतस्मिन्न् अन्तरे राजंस् ततश्चैत्राङ्गदः स्तुवन् ।
प्रणम्य शिरसा देवीम् इदं वचनम् अब्रवीत्

24.23

शापस्य स भयाद् भूरि विललाप नराधिप ।
अकार्यं कृतम् अस्माभिर् गन्धर्वतनयान्वितैः

24.24

प्रायश्चित्तं किम् अस्याद्य पापस्य गद निष्कृतिम् ।
उवाच वचनं देवी गन्धर्वं काममोहितम्

24.25

धर्मक्रियाविलुप्तस्य स्वर्गलोकच्युतस्य च ।
कुमारीदूषणे पापं महतां लोमहर्षणम्

24.26

कुमारीदूषणे पापे निष्कृतिर् न विधीयते ।
मम गन्धर्वकन्याश् च मधुपानैर् विडम्बिताः

24.27

यूयं त्व् अनेन पापेन गन्धर्वाः काममोहिताः ।
कुब्जावामनहीनाङ्गा भविष्यथ सहस्रशः

24.28

दिव्यवर्षसहस्रं तु मर्त्यलोके चरिष्यथ ।
कन्याविकृतदोषेण कुब्जामर्कटकाननाः

24.29

स्वकर्मकृतदोषेण पापं भुञ्जन्तु भूतले ।
एव शप्तास् तु ते देव्या सर्वे मर्त्य समागमन्

24.30

शोचन्तः स्वानि कर्माणि पूर्वजन्मकृतानि च ।
बभ्रमुः सर्वतीर्थानि लोके चैव चराचरे

24.31

विषण्णवदनास् सर्वे पापेना ऽनेन कार्षिताः ।
शापस्या ऽन्तं न विन्दन्ति सर्वतीर्थान् भ्रमन्त्यपि

24.32

एकविंशतिलक्षाणि गन्धर्वाणि तथा ऽनघ ।
न देवा न च तीर्थानि पापस्या ऽस्य विशुद्धये

24.33

नान्यद् वा युज्यते कर्म मुक्त्वा चैव हुताशनम् ।
कर्मणां दोषदाहेन मुञ्चामः पापकर्मणः

24.34

दत्तो ऽस्माकं महाशापो पापमार्गनिवर्तकः ।
एतस्मिन्न् अन्तरे प्राप्तः सकुबेरः पुराधिपः

24.35

सम्प्राप्तो नैमिषारण्ये यत्र चित्राङ्गदादयः ।
तान् दृष्ट्वा सो ऽब्रवीद् देवः क्षणमात्रं प्रतीक्षत

24.36

उमामाहेश्वरे यावद् वच्मि गत्वा यथोदितम् ।
एवम् उक्त्वा ययौ देवः कैलासं पर्वतोत्तमम्

24.37

साष्टाङ्गं च नमस्कृत्य उमया सहितं हरम् ।
जय देवि सुरेशानि संसारार्णवतारिणि

24.38

त्वया सृष्टम् इदं सर्वं त्रैलोक्यं सचराचरम् ।
व्यापिनी शक्तिरूपेण सर्वेषां प्राणिनाम् अपि

24.39

इत्येवम् आदिभिर् वाक्यैर् देवीं तुष्टाव वासवः ।
स्तोत्रैः स्तुता महादेवी शक्रं वचनम् अब्रवीत्

24.40

आर्तिः का ते समुत्पन्ना यथार्थं कथयस्व मे ।
उवाच वचनं शक्रः पार्वतीं प्रति भारत

24.41

वरदा यदि मे देवि वरं दातुं त्वम् इच्छसि ।
चित्राङ्गदादिपापस्य मोक्षणं क्रियतां शुभे

24.42

देव्युवाच:
शिवाज्ञा वर्तते लोके पापस्यास्य विशुद्धये ।
तस्मात् पापविशुद्ध्यर्थं त्रिषु लोकेषु विश्रुतम्

24.43

देवदेवं महादेवं याचस्व परमेश्वरम् ।
एवं देव्या वचः श्रुत्वा शक्रः प्रोवाच शङ्करम्

24.44

निष्कृतिस् त्व् अस्य पापस्य क्रियतां वचनात् मम ।
शङ्कर उवाच:
यज्ञपाकाश्रमं गत्वा मेकलातीरम् आश्रितम्

24.45

यज्ञपर्वतमासाद्य विन्ध्यस्यैव सुतोत्तमम् ।
तत्र यज्ञेश्वरं देवं लिङ्गं परमसिद्धिदम्

24.46

बिल्वाम्रकं तथा चान्यत् कल्पगा तीरम् आश्रितम् ।
पुण्यस्थाने तु तत्रास्य शापस्यान्तो भविष्यति

24.47

एकविंशतिलक्षाणि तत्र मुक्तानि सङ्गमे ।
गन्धर्वाणां महाराज कुब्जभावम् उपेयुषाम्

24.48

महानदी नृपश्रेष्ठ कुब्जा तेन प्रकीर्तिता ।
दिव्ययानसमारूढाः स्तूयमाना मरुद्गणैः

24.49

मुदा परमया युक्ता गान्धर्वं लोकम् आप्नुयुः ।
बिल्वाम्रकं पूजयित्वा गन्धर्वा गतकिल्बिषाः

24.50

यथा पूर्वं तथेदानी तीर्थस्या ऽस्य प्रभावतः ।
हर्षेण महता युक्तः शक्रो ऽपि त्रिदिवालयम्

24.51

जगाम त्रिदशैः सार्धं परिपूर्णमनोरथः ।
षडस्य चोत्तरे भागे षडस्य दक्षिणे तथा

24.52

एवं ते कथितो राजन् रेवाकुब्जासमागमः ।
अनेके यस्य माहात्म्यात् संसिद्धिं परमां गताः

24.53

श्रवणात् कीर्तनाद् वा ऽपि मुच्यते भवबन्धनात्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc