भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 23

23.1

इति श्रीस्कन्दपुराणे रेवाखण्डे बिल्वाम्रकोत्पत्तिवर्णनो नाम द्वाविंशो ऽध्यायः ॥
र्क्स् अध्याय 23
मार्कण्डेय उवाच:
हरिकेश इति ख्यातः शालग्रामे द्विजोत्तमः ।
शिलोञ्छवृत्तिर्धर्मात्मा सत्यव्रतपरायणः

23.2

ब्राह्मणी सुव्रता तस्य धर्मपत्नी यशस्विनी ।
पतिव्रता महाभागा पतिशुश्रूषणे रता

23.3

काले ऋतुमती सा तु ऋतुगामी च स द्विजः ।
तस्य पुत्रशतं जज्ञे कपिलापुरम् आश्रितम्

23.4

शिलोञ्छवृत्तियोगेन प्रस्थमेकमुपार्जयत् ।
क्षुत्क्षामाः ते च शिशवो रुदन्ति करुणं ततः

23.5

शिशून् बुभुक्षितान् दृष्ट्वा माता शोकार्तिविह्वला ।
गर्हयन्ती सुदुःखार्ता ब्राह्मणी पतिम् अब्रवीत्

23.6

वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः ।
भरणीयाः प्रयत्नेन एष धर्मः सनातनः

23.7

भरणं पोष्यवर्गस्य पुत्राणां च विशेषतः ।
एतच् छ्रुत्वा तु वचनं ब्राह्मण्याः शोकविह्वलः

23.8

हरिकेशो ऽब्रवीद् वाक्यं ब्राह्मणीं प्रति भारत ।
न मया संचितं धान्यं न वित्तं गृहमेधिना

23.9

ग्रामे ग्रामे भिक्षयित्वा सविभागं पृथक् पृथक् ।
ददामि परमं धान्यं नान्यां वृत्तिं तु कारये

23.10

ब्राह्मण्य् उवाच:
बालहत्यासमं पापं बाले वृद्धे क्षुधार्दिते ।
तस्मात् प्रतिग्रहं कृत्वा भर्तव्या मम पुत्रकाः

23.11

पुत्रेण लोकं जयति पुत्रेण सुखमेधते ।
पुत्रेण स्वर्गम् आप्नोति पितॄणां परमा गतिः

23.12

अम्बरीषस्य नृपतेर् अयोध्याधिपतेः किल ।
वर्तमाने महायज्ञे कुरुक्षेत्रे द्विजोत्तमाः

23.13

गताश् च ब्राह्मणास् तत्र प्रतिग्रहजिघृक्षया ।
गाः कांचनं धनं प्राप्य शालग्रामनिवासिनः

23.14

नानाभरणशोभाढ्या आगताः समलंकृताः ।
याहि यत्र द्विजाः सर्वे शालग्रामनिवासिनः

23.15

सुतार्थं हरिकेशो ऽथ रक्षिते कुरुजाङ्गले ।
अम्बरीषस्य नृपतेर् वर्तमाने महामखे

23.16

गृहीत्वा ब्राह्मणीं पुत्रान् कुरुक्षेत्रं जगाम ह ।
प्रविष्टश्चाध्वरे तस्मिन् यत्र ते सन्ति ऋत्विजः

23.17

ब्रह्मघोषस्वरेणैव स दृष्ट्वा दिवि देवताः ।
यमो ऽङ्गिरामुनिर् विष्णुर्वशिष्ठो दक्ष एव च

23.18

बृहद्विष्णुः प्रसन्नात्मा शातातपपराशरौ ।
आपस्तम्बोशनोव्यासाः कात्यायनबृहस्पती

23.19

हारीतः शङ्खलिखितौ याज्ञवल्क्यो ऽथ गौतमः ।
दुर्वासाः काश्यपो गर्गो भारद्वाजो ऽत्रिरेव च

23.20

नारदः पर्वतश् चैव पुलस्त्यः पुलहः क्रतुः ।
विभाण्डको भृगुश् चैव शाकटो बादरायणः

23.21

बालखिल्या ब्रह्मपुत्रा ब्रह्मतेजो वपुर्धराः ।
अष्टाशीतिसहस्राणि ब्रह्मदण्डं समारुहन्

23.22

अम्बरीषो महाराज दृष्ट्वा ब्राह्मणपुङ्गवम् ।
ब्रह्मर्षींस् तान् नमस्कृत्य अर्घपाद्यैर् अपूजयत्

23.23

किमर्थमागतो विप्रसभार्यः सहपुत्रकैः ।
अनुग्रहम् इमं मन्ये यन्मां वदसि सुव्रत

23.24

आतिथ्यकाले सम्प्राप्तो याचयस्व यथोचितम् ।
ब्राह्मण उवाच:
वित्तं वर्षशतं यावदेकैकाय सुताय मे

23.25

त्वं देहि जीवनायाश होमधेनुं तथोत्तमाम् ।
अयुतं तु गवां भूप हेमभारपरिष्कृतम्

23.26

कोटिमेकां हिरण्यस्य वस्त्रभूषणमुत्तमम् ।
इति तस्य वचः श्रुत्वा द्विजस्य पृथिवीपतिः

23.27

श्रद्धया परया युक्तः सर्वं दत्त्वा यथोदितम् ।
शालग्रामपदं यानैः शीघ्रं प्रावेशयत् ततः

23.28

क्रतुम् इष्ट्वा स राजर्षिर् मुमुदे देववच् चिरम् ।
नानाविधान् स भुक्त्वा ऽथ भोगान् पत्नीसुतैः सह

23.29

कालान्तरे ततः प्राप्ते ऋषिर् मृत्युवशं गतः ।
मरुदेशे निरुदके ब्रह्मरक्षस्त्वमागतः

23.30

राजप्रतिग्रहाद् दुष्टात् पुनर्जन्म न विद्यते ।
ब्राह्मण्यं यः परित्यज्य द्रव्यलोभेन मोहितः

23.31

विषयामिषलुब्धस् तु कुर्याद् राज प्रतिग्रहम् ।
नरके रौरवे घोरे तस्येह पतनं ध्रुवम्

23.32

वृक्षादावाग्निना दग्धाः प्ररोहन्ति वनागमे ।
राजप्रतिग्रहाद् दग्धा न प्ररोहन्ति कर्हिचित्

23.33

शोचन्ति पूर्व जन्मानि अन्यजन्मकृतानि च ।
भार्यापुत्रकृतेनैव गतो ऽहं नरकार्णवम्

23.34

एवम् उक्त्वा कुरुक्षेत्रं पुत्रदारादिभिः सह ।
तत्र द्वादशवर्षाणि उषित्वा सुबुभुक्षितः

23.35

उच्छिष्टं कश्मलं भुङ्क्ते राक्षसीं योनिमाश्रितः ।
वाराणसीं प्रयागं तु पुष्करं नैमिषं तथा

23.36

गङ्गासागरसम् भेदं क्षेत्रं कनखलं तथा ।
केदारं च महापुण्यं प्रभासं शशिभूषणम्

23.37

अटित्वा सर्वतीर्थानि पापयोनिरतो नृप ।
चिन्तयामास देहं मे न निवृत्तं कथंचन

23.38

तस्मात् पापविशद्ध्यर्थं प्रविशामि हुताशनम् ।
भार्या तस्य सपुत्रा वै भर्तारं सुव्रता ऽब्रवीत्

23.39

किंचिद् विज्ञापयामि त्वां यदि मां मन्यसे विभो ।
क्षणमात्रेण दुःखेन साधयामि सुखं बहु

23.40

ब्राह्मणस्य हि धर्मो ऽयं सर्वस् तद् वह्णिसाधनेन ।
तत्समाहृत्य दारूणि प्रदीप्य च हुताशनम्

23.41

अहं विशाम्यविधवा भर्तारं प्रथमं द्रुतम् ।
न पश्यामि पतन्तं वै ज्वलने दारुणे भृशम्

23.42

उक्ता सा ऽकाशवाण्या च मा ते मृत्युभयं शुभे ।
श्रूयतां मम वाक्यं हि यथा धर्मो न हीयते

23.43

कुब्जारेवासमायोगे ब्रह्मरक्षोविमोक्षणम् ।
तत्र स्नात्वा दिवं याति बिल्वाम्रकम् अर्चनात्

23.44

लभते ब्रह्मलोकं च रक्षोयोनेश् च मोक्षणम् ।
ब्रह्मराक्षस उवाच:
का ऽसि त्वं च वरारोहे कस्य चासि यशस्विनि

23.45

अनुग्रहार्थं भूतानां पूर्वजन्म कृतैः शुभैः ।
आकाशवाण्य् उवाच:
धन्या ऽहं सर्वभूतानामव्यक्ताव्यक्तरूपिणी

23.46

एवमुस्त्वा तु सा देवी तत्रैवान्तरधीयत ।
पुत्रदारान्वितो नत्वा हरिकेशः सुरेश्वरम्

23.47

सम्प्राप्त सुमुदायुक्तः कुब्जारेवासमागमम् ।
तत्र स्नात्वा यथान्यायम् अर्चयित्वा महेश्वरम्

23.48

हुताशनं प्रविविशुः स्मृत्वा देवं हारिं हरम् ।
स्वीयं गृहमिवाक्लेशाः कामक्रोधविवर्जिताः

23.49

तत्क्षणाद् दिव्यदेहास् तु ब्रह्मतेजोवपुर्धराः ।
दिव्ययानं समारुह्य ब्रह्मलोकम् अवाप्नुयुः

23.50

पुत्रदारसमायुक्तो हरिकेशो नृपोत्तम ।
तस्य तीर्थस्य माहात्म्याद् दिवि दीव्यति देववत्

23.51

शतमष्टोत्तरं तत्र लिङ्गानां पुण्यसङ्गमे ।
मार्कण्डेश्वरम् इत्येकं मधुरेश्वरम् एव च

23.52

शूलपाणिं तथैवान्यम् अगस्त्येश्वरम् एव च ।
एतान्य् अन्यानि चैवेह सिद्धलिङ्गानि सन्ति वै

23.53

एतत् सर्वं यथा न्यायं कथितं तव सुव्रत ।
कुब्जारेवासमायोगं सुरासुरनिषेवितम्

23.54

प्रातर्यः कीर्तयेद् भक्त्या नर्मदां सप्तकल्पगाम् ।
सर्वपापविनिर्मुक्तः स शैवं लभते पुरम्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc