भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 22

22.1

इति श्रीस्कन्दपुराणे रेवाखण्डे कुब्जामाहात्म्य एकविंशो ऽध्यायः ॥
र्क्स् अध्याय 22
युधिष्ठिर उवाच:
कथं निवर्तितो यज्ञो रन्तिदेवस्य धीमतः ।
कण्वाश्रमपदे रम्ये रेवाकुब्जासमागमे

22.2

निखिलं श्रोतुमिच्छामि कथयस्व शिवोदितम् ।
मार्कण्डेय उवाच:
शृण्वन्तु मुनयः सर्वे श्रोतुकामास् समागमम्

22.3

मया ख्यातम् इदं पुण्यम् इतिहासं पुरातनम् ।
शण्डामर्को ऽथ राजर्षिर् मानसो ब्रह्मणः सुतः

22.4

सूर्यतेजः समप्रख्यस् तेजसा प्रज्वलन्न् इव ।
ब्रह्मिष्ठः सत्यवादी च वेदवेदाङ्गपारगः

22.5

ब्रह्मचारी जितक्रोधः सर्वभूतहिते रतः ।
षडशीतिसहस्राणि मुनीनां दीप्ततेजसाम्

22.6

तपस्तत्रैव तप्यन्ते मोक्षोपायविचिन्तकाः ।
कन्दमूलफलाहारा जलाहारास् तथा परे

22.7

मासोपवासिनश् चान्ये तथा पक्षोपवासिनः ।
चरन्ति के सान्तपनं प्राजापत्यं तथैव च

22.8

चान्द्रायणपराश् चान्ये ब्रह्मकूर्चास् तथापरे ।
शण्डामर्काश्रिताः सर्वे सर्वेषां गुरुर् एव च

22.9

वेदध्वनितनिर्घोषैर् दिवं भूमिं व्यनादयन् ।
निर्धूमो ज्वलनस् तत्र हूयमानो हुताशनः

22.10

कामक्रोधविनिर्मुक्तैर् ब्रह्मचारिजितेन्द्रियैः ।
शण्डामर्काश्रमं दिव्यं युक्तं ब्रह्मसमद्विजैः

22.11

तथाकामफलैर् वृक्षैः पुष्पितैस् त्वतिशोभितम् ।
सर्वाश्रमगुरुश् चासीद् रन्तिदेवो महीपतिः

22.12

शासिता धरणी तेन सशैलवनकानना ।
न नराः शोकमात्सर्यरोगदारिद्र्यदुःखिताः

22.13

चिरायुषः प्रजाः सर्वा धनधान्यसमाकुलाः ।
स्वयं कामदुघा गावः पृथिवी सस्यशालिनी

22.14

कौशेयं पट्टसूत्रं च सर्वेषां विमलं चितम् ।
पर्जन्यः कामवर्षी च काले काले ऋतावृतौ

22.15

नाना पुराणि रम्याणि हेमरत्नान्वितानि च ।
नाना चामरमाला च हेमरत्नावगण्ठिता

22.16

किङ्किणीजालसंछन्ना मणिमालाविलम्बिता ।
बुद्बुदैर् अर्धचन्द्रैश् च पारिजातकदम्बकैः

22.17

गोपुरैश् च महादिव्यैर् नानानकनिनादिता ।
नाट्यहर्म्यैश् च सङ्गीतैर् विचित्रकुसुमावृतैः

22.18

भूमिर् हेममयी चैव चार्चिता यत्र संचितैः ।
प्रासादश् च महारत्नैर् देवदेवस्य शूलिनः

22.19

मेरुमन्दरकैलासे यादृशश् च विराजते ।
नानारत्नशिलाभिश् च अनेकशिखरोत्करैः

22.20

चन्द्रशालागवाक्षैश् च रत्नमालाविभूषितैः ।
शतार्धसाप्तभौमैश् च तथैवायुतभूमिकैः

22.21

चन्द्राननपताकाभिर् यज्ञैश् चापि विराजिता ।
एवं विधा नृपश्रेष्ठ सर्वशोभा समन्विता

22.22

रन्तिदेवस्य राजर्षेर् अयोध्यानगरी शुभा ।
इत्थं शशास धरणीं यथा शक्रस्त्रिविष्टपम्

22.23

नृपो यागसहस्रैश् च भूमिपृष्ठं ददाह सः ।
पुरोधसं वशिष्ठं च पप्रच्छ मुनिसत्तमम्

22.24

कस्मिंस् तीर्थे तु निर्विघ्ना यज्ञसिद्धिर् महामुने ।
इति तस्य वचः श्रुत्वा राजर्षेर् मुनिसत्तमः

22.25

उवाच रन्तिदेवं च वशिष्ठो ब्रह्मवित्तमः ।
दुर्वासाः कश्यपो गर्गो नारदः पर्वतः क्रतुः

22.26

अग्निश् च शौनकश् चैव बृहस्पतिर् अथाङ्गिराः ।
भृगुर् अत्रिस् तथा वत्स्यः पुलस्त्यः पुलहस्तथा

22.27

काश्यपो गालवश् चैव ऋष्यशृङ्गो विभाण्डकः ।
अहं च मुनयश् चैते मुनयो ब्रह्मवर्चसः

22.28

सर्वेषां मतमेवं वै मम चैव नराधिप ।
अन्यतीर्थात् परं तीर्थं पुराणे परिकीर्तितम्

22.29

कोटिकोटिगुणं पुण्यं कल्पगा यत्र वर्तते ।
एवम् एवेति तं ब्रूयात् सत्यम् एतत् त्वयोदितम्

22.30

ततश्चाज्ञापयाम् आस भृत्यामात्यपुरोधसः ।
यज्ञोपस्करसम्भारः शीघ्रम् एव विधीयताम्

22.31

आदिदेश ततो दूतान् नानादेशेषु सत्वरान् ।
घोषणा क्रियतां राष्ट्रे समागच्छन्तु भूमिपाः

22.32

आगतास् ते ततः सर्वे रन्तिदेवस्य शासनात् ।
यथा विभवशोभाढ्याः शक्रतुल्या महीभृतः

22.33

गावश् च दशलक्षाणि सवत्साश् च पयस्विनीः ।
हेमभारैर्भूषिताश् च कामधेनुपयस्विनीः

22.34

लक्षमेकं हयानां तु अयुतं दन्तिनां तथा ।
मणिमाणिक्यरत्नानां तत्र संख्या न विद्यते

22.35

अनेकानि सहस्राणि करभानां च भारत ।
दिव्ययानं समारुह्य सान्तःपुरपरिच्छदः

22.36

नानातूर्यैर् गीतवाद्यैर् मेकलातीरम् आगतः ।
तत्र मण्डपकुण्डानि यज्ञयूपा हिरण्मयाः

22.37

नानाभक्षाणि भोज्यानि पक्वानि विविधानि च ।
नानाभरणरत्नैश् च ब्राह्मणाः समलंकृताः

22.38

यज्ञदीक्षां च जग्राह पत्न्या सह नराधिपः ।
ततः प्रवर्तितो यज्ञो रेवातीरे सुशोभने

22.39

तत्र ज्वलति निर्धूमः प्रत्यक्षो हव्यवाहनः ।
ब्रह्मशक्रादयो देवा लोकपाला मरुद्गणाः

22.40

विश्वेदेवाश् च साध्याश् च वसवश्चन्द्रभास्करौ ।
सरितः सागराः शैलाः सर्वतीर्थानि चापगा

22.41

मातरः सिद्धगन्धर्वाः सयक्षोरगराक्षसाः ।
उमया सहितो रुद्रो विष्णुश् चैव सुरेश्वरः

22.42

सर्वेषा यज्ञभागांश् च पृथक् पृथग् अकल्पयत् ।
एतस्मिन्न् अन्तरे राजन् वेदध्वनि निवेदितम्

22.43

विस्मिता ह्यभवन् सर्वे श्रुत्वा स्मृतिभयानकम् ।
दानवा बलवन्तो ऽद्य ते क्रौञ्चपुरवासिनः

22.44

महाबाहुः सुबाहुश् च दैत्यकोटिसमावृताः ।
आगता नर्मदा तीरे सभृत्यबलवाहनाः

22.45

दक्षिणां दिशमाश्रित्य यज्ञविघ्नं विचक्रिरे ।
ब्रह्माद्या मुनयः सर्वे भयत्रस्ताश् च कम्पिरे

22.46

उवाच वचनं ब्रह्मा देवतुल्यं पुरोधसम् ।
मया विधिर् विस्मृतश् च मन्त्रादीनां महाभयात्

22.47

उवाच रन्तिदेवं च यज्ञध्वंसं निवारय ।
ब्रह्मिष्ठस् तद् वचः श्रुत्वा रन्तिदेवो महीपतिः

22.48

यदि मे विद्यते सत्यं शिवभक्तिपरा मतिः ।
दैत्यराक्षसदुष्टाश् च ये चान्ये विघ्नकारकाः

22.49

सर्वे ते विलयं यान्ति तमः सूर्योदये यथा ।
पश्यन्तु मम सामर्थ्यं देवा विगतकल्मषाः

22.50

एवमुक्त्वा ततो राजन् कुशाग्रेण तु नार्मदः ।
प्रवाहो दुष्टरक्षार्थं दक्षिणस्यां प्रकल्पितः

22.51

विष्णुश् चैव स्मृतस् तत्र शङ्खचक्रगदाधरः ।
उत्तरे देवयानस्य प्रवाहः परिकल्पितः

22.52

एवं कृत्वा तु घोरेण देवमन्त्रेण सुव्रतः ।
जुहावाहवनीये तु कुण्डे बिल्वाम्रवेतसम्

22.53

तस्मात् समुत्थितं लिङ्गं ज्वलत् कालानलप्रभम् ।
नान्तो नादिर् न मध्यं च तस्य लिङ्गस्य भारत

22.54

ततः सुरासुराः सर्वे चक्रुः स्तोत्रम् इदं पुरः ।
ओं नमो भुवनेशाय आदिदेव नमो ऽस्तु ते

22.55

चराचरख्यापकाय सृष्टिसंहारकारिणे ।
स्तोत्रं श्रुत्वा महादेवः शान्तरूपो जगत् पतिः

22.56

बभूव परमप्रीतश् चराचरगुरुस् तदा ।
तद् दृष्ट्वा तादृशं कर्म रन्तिदेवस्य धीमतः

22.57

आगत्य दानवाधीशो रन्तिदेवमपूजयत् ।
आदेशो दीयतां मह्यं किं करोमीति चाब्रवीत्

22.58

उवाच वचनं राजा प्रहसन्न् इव भारत ।
आतिथ्यकाले सम्प्राप्ते यज्ञभागं वदामि ते

22.59

देवानां यज्ञभांगं च दानवानां च सर्वशः ।
परिकल्प्य यथान्यायं मुदा परमया युतः

22.60

स्वं स्वं यानं समारुह्य दानवास् ते च सर्वशः ।
लिङ्गं बिल्वाम्रकं नाम जुष्टं दैवैर् जगत् पतेः

22.61

नमस्कृत्य महादेवं रन्तिदेवं प्रतुष्टुवुः ।
ततः प्रमुदिता देवा रन्तिदेवम् अपूजयन्

22.62

उमया सह देवेशं गणकोटिसमन्वितम् ।
ब्रह्मा विष्णुश् च देवाश् च वरं दत्त्वा दिवं ययुः

22.63

गतेषु तेषु देवेषु रन्तिदेवः पुरं ययौ ।
कदाचिद् वृत्रहा तत्र ब्रह्महत्यासमावृतः

22.64

रेवाकुब्जासमायोगे सर्वं स्नानादिकं व्यधात् ।
तत्क्षणाद् दिव्यदेहस् तु सूर्यसंकाशतेजसः

22.65

शरीरात् तस्य निर्गत्य ब्रह्महत्याह वासवम् ।
अस्य तीर्थस्य माहात्म्याद् एकहत्या तवैव का

22.66

ब्रह्महत्यासहस्रं हि तमः सूर्योदये यथा ।
तीर्थे ऽस्मिन् विनशेद् यावद् योजनानि चतुर्दश

22.67

एतस्मिन्न् अन्तरे शक्रं प्रत्यक्षं प्राह कल्पगा ।
शान्तिस् ते ऽस्तु महाभाग यथेष्टं गच्छ साम्प्रतम्

22.68

इति तस्या वचः श्रुत्वा तां नमस्कृत्य कल्पगाम् ।
दिव्ययानं समारुह्य मुदा परमया युतः

22.69

अप्सरोगणसंयुक्तं दिव्यगन्धर्वनादितम् ।
तत्रारूढः सुरपतिर् यथा पूर्वं तथैव सः

22.70

धृतदिव्यातपत्रस् तु वीज्यमानो ऽप्सरोगणैः ।
स्तूयमानः सुरगणैः प्रविवेशामरावतीम्

22.71

शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च ।
मया च कथितं राजंस् तव ब्रह्मर्षिपूर्वकम्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc