भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 21

21.1

इति श्रीस्कन्दपुराणे रेवाखण्डे ब्रह्महत्याछेदनो नाम विंशो ऽध्यायः ॥
र्क्स् अध्याय 21
युधिष्ठिर उवाच:
भूयश्चेच्छाम्य् अहं श्रोतुं नर्मदातीर्थकीर्तनम् ।
तृप्तिं नैवाधिगच्छामि शृण्वन्नपि महामुने

21.2

इदानीं श्रोतुम् इच्छामि रेवाकुब्जासमागमम् ।
आख्यानसहितं ब्रह्मन् कथयस्व प्रसादतः

21.3

कुब्जिका कर्मणा केन त्रिषु लोकेषु विश्रुता ।
एतन्नस्त्वं परं ब्रह्मन् संशयं छेत्तुमर्हसि

21.4

मार्कण्डेय उवाच:
शृणु राजन् कथां दिव्यां सर्वपापप्रणाशिनीम् ।
कथितामीश्वरेणैव पार्वत्याः षण्मुखस्य मे

21.5

ऋषीणां ब्रह्ममुख्यानां गणानां चानुचारिणाम् ।
नानाऋक्षाणि सूर्यस्य जगदुद्योतकारिणः

21.6

शशिसूर्योपगमने तारा भान्ति नभस्तले ।
नान्या पयस्विनी शक्ता संसारार्णवतारणे

21.7

पितृदेवमनुष्याणां मुक्त्वा चैव तु कल्पगाम् ।
तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः

21.8

चान्द्रायणसहस्रं च ब्रह्मकूर्चायुतं तथा ।
नर्मदातोयपानेन तुल्यं भवति वा न वा

21.9

तिलोदकप्रदानेन पितॄणां प्रीतिरक्षया ।
गायन्ति पितरो गाथा तथैव च पितामहाः

21.10

मातामहाद्याः सततं सर्व एव परस्परम् ।
अपि स्यात् स्वकुले ऽस्माकं पुत्रः परमधार्मिकः

21.11

हविस् तिलयुतं दद्याद् यो रेवासलिलार्चितम् ।
वर्षलक्षं तथा तेन तृप्ता यामः परां गतिम्

21.12

यज्ञक्रिया कृता तेन समग्रा भूरिदक्षिणा ।
एतत् ते कथितं राजं शिवेनोक्त यथा पुरा

21.13

स्वारोचिषे ऽन्तरे प्राप्ते आदिकल्पे कृते युगे ।
मा गयां गच्छ कौन्तेय मा गङ्गां मा सरस्वतीम्

21.14

तत्र गच्छ नृपश्रेष्ठ यत्र कुब्जा सनर्मदा ।
वाराणसीं प्रयागं च गङ्गासागरसङ्गमम्

21.15

केदारं कनखलं च प्रभासं शशिभूषणम् ।
हरिश्चन्द्रपुरं चान्द्रं श्रीशैलं त्रिपुरान्तकम्

21.16

माहेन्द्र मलयं चैव गोकर्णं च महाबलम् ।
कालञ्जरं नीलकण्ठं त्र्यम्बकं धूतकिल्बिषम्

21.17

रुद्रकोटिं हिमस्थानं भैरवं च महापथम् ।
तीर्थान्य् एतानि चान्यानि कलां नार्हन्ति षोडशीम्

21.18

नानातीर्थसहस्राणि पुराणे कीर्तितानि च ।
ब्रह्मविष्णुशिवोक्तं हि तत्प्रमाणं हि सिद्धये

21.19

सोमे प्रसिद्धा ऽमावास्या रेवाकुब्जासमागमे ।
एरण्ड्यां चण्डवेगायां रेवया सह संगमे

21.20

राजन् दर्शे यदा सोमः संविशेद् रविमण्डले ।
व्यतीपाते च संक्रान्तौ वैधृतौ विषुवे तथा

21.21

दक्षोत्तरायणे चैव षडशीतिमुखे तथा ।
दर्शे स्याद् विंशतिगुणं व्यतीपाते समां शतः

21.22

संक्रमे वैधृतौ राजं छतार्धं परिकीर्तितम् ।
अमासोमसमायोगे राहुसोमसमागमे

21.23

कुरुक्षेत्राच् छतगुणं पुण्यम् आह शिवः स्वयम् ।
बिल्वाम्रकं सिद्धलिङ्गं ब्रह्महत्याव्यपोहनम्

21.24

दर्शनात् स्पर्शनात् तस्य शिवलोके महीयते ।
कुब्जेश्वरं तथैवान्यत् न तत् पश्यन्ति मानवाः

21.25

नर्मदाकुब्जिकामध्ये नागकन्याभिर् अर्च्यते ।
स्वारोचिषे ऽन्तरे प्राप्ते आदिकल्पे कृते युगे

21.26

कालाग्निरुद्रसंकाशं भित्त्वा पातालसङ्गमम् ।
सूर्यकोटिसमप्रख्यं प्रदीप्तज्वलनप्रभम्

21.27

उत्थितं कल्पगामध्ये देवा ऽवाहनकाम्यया ।
ओंकारस्य यवैकेन हीनं लिङ्गं नृपोत्तम

21.28

पृथिव्यां यानि तीर्थानि लोके ऽस्मिन् सचराचरे ।
हीनान् यस्माद् यवार्द्धेन सत्यम् एतच् छिवोदितम्

21.29

तत्र यस् त्यजति प्राणानमासोमसमागमे ।
दिव्ययानसमारूढः स्तूयमानो ऽप्सरोगणैः

21.30

धृतदिव्यातपत्रस् तु सर्वालङ्कारभूषितः ।
त्रिंशच्छतसहस्राणि वसेच् छिवपुरे शुभे

21.31

त्यजेद्धि तत्र यः प्राणान् न वशः स्ववशो ऽपि वा ।
दशवर्षसहस्राणि राजा विद्याधरे पुरे

21.32

रन्तिदेवश् चक्रवर्ती शक्रतुल्यो महीपतिः ।
अयोध्याधिपतिः श्रीमान् सर्वधर्मभृतां वरः

21.33

कण्वाश्रमपदे रम्ये सुरासुरनिषेविते ।
आख्यानसहितं राजं छृणु वेद यथाक्रमम्

21.34

तीर्थसंख्याप्रमाणं च इतिहासं पुरातनम् ।
हरन्ति के च कार्त्तिक्यां कैलासे पर्वतोत्तमे

21.35

ब्रह्मादयो गतास् तत्र विष्णुशक्रपुरोगमाः ।
उमया सहितो रुद्रो गणकोटिसमन्वितः

21.36

नन्दिस्कन्दमहाकालसुरासुरनिषेवितः ।
सरितः सागराः शैलास् तीर्थानां कोटयस् तथा

21.37

तेषां मध्ये समुत्थाय स्कन्दो वचनम् अब्रवीत् ।
कस्यैतानि विमानानि दीव्यन्ते दिवि शङ्कर

21.38

साप्तभौमा गृहा रम्या हेमप्राकारतोरणाः ।
गीतनृत्यनिनादेन कामिनीनां मनोहराः

21.39

ईश्वर उवाच:
शृणु स्कन्द महाभाग कथ्यमानं यथोदितम् ।
तीर्थदानप्रभावेण तीर्थज्येष्ठक्रमेण तु

21.40

ये मृता नर्मदातीरे पर्वते ऽमरकण्टके ।
माहेश्वरादितीर्थेषु भृगुकच्छावसानतः

21.41

इमानि यानि तीर्थानि लिङ्गमूर्तिधराणि च ।
सरितश्चापि गङ्गाद्यास् तासु दानप्रभावतः

21.42

एतत् ते कथितं स्कन्द हर्म्यास् सन्ति समुद्धृताः ।
मार्कण्डेय उवाच:
एवं पुरा महाराज कैलासे पर्वतोत्तमे

21.43

ब्रह्मा पप्रच्छ तीर्थानां शङ्करं विधिपूर्वकम् ।
देवखातानि सर्वाणि सरितः सागरास् तथा

21.44

नद्यः सर्वाश् च भूपृष्ठे गङ्गाद्या गिरिसम्भवाः ।
उत्तमाः कतिचिद् देव कथयस्व प्रसादतः

21.45

हर उवाच:
कथयामि परं तीर्थं पवित्रं पापनाशनम् ।
कौतुकेन त्वया पृष्टा नदीनामुत्तमा नदी

21.46

सर्वासां सरितां मध्य उत्तमा सप्तकल्पगा ।
सर्वेषां जननी चेह नदी त्रैलोक्यसुन्दरी

21.47

ब्रह्मोवाच:
सुरसिन्धुं परित्यज्य नर्मदा वर्ण्यते कथम् ।
विरुद्धं सर्वलोकानां देवानां च विशेषतः

21.48

ब्रह्मणस् तु वचः श्रुत्वा अगस्त्यो वाक्यम् अब्रवीत् ।
मध्ये पदे नियुक्तश् च वक्तुम् एव न युज्यते

21.49

धर्माः सर्वे वेदमूला ब्राह्मणा वेदसम्भवाः ।
वेदहीना न सिध्यन्ति यज्ञदानविधिक्रियाः

21.50

स्वयम्भूर् भगवां छम्भुः शम्भुश् च भगवान् हरिः ।
वेदाश् च भगवां छम्भुः कल्पगा शम्भुसम्भवा

21.51

अव्यक्ताव्यक्तरूपेण जगतः कारणेच्छया ।
संहारसृष्टिरूपेण प्रलयोत्पत्तिकारिणी

21.52

भगीरथनेमिनीता हरिणा ऽत्रावतारिता ।
गङ्गा सा जह्नुना पीता मुनिना चुलुकेन च

21.53

क्रुद्धः पीत्वा मुनिस्तां तु स्थितो ध्यानपरायणः ।
दिव्यं वर्षसहस्रं तु सा तु तस्योदरे स्थिता

21.54

विस्मयो देवतानां हि समापेदे कुतूहलम् ।
ब्रह्माद्या देवताः सर्वा गत्वा तस्याश्रमं प्रति

21.55

शापशङ्काकुलात्मानो मुनिं विज्ञापयन्ति ते ।
महानदीं मुने मुञ्च पवित्रां पापनाशिनीम्

21.56

मर्त्ये वहतु सा नित्यं लोकसन्तापहारिणी ।
देवता ऋषिप्रोक्तेन मुक्ता तेन महानदी

21.57

मुक्ता तु जह्नुना तत्र तेन सा जाह्नवी स्मृता ।
सा तु किं वर्ण्यते ब्रह्मन् पीताया जह्नुना पुरा

21.58

मया चुलुकमात्रेण शोषिताः सप्तसागराः ।
हरिश् च भगवान् शम्भुश् शम्भुश् च भगवान् इति

21.59

विन्ध्यः सप्तशैलराजो नर्मदायाः प्रभावतः ।
तेनोद्धता देवमार्गा वर्तमानानि वारिताः

21.60

यज्ञपर्वतपर्यङ्कावुभौ विन्ध्यस्तौ पुरा ।
मया निवारितौ बुद्ध्या देवमार्ग प्रवृत्तये

21.61

एवं विगर्हितो ब्रह्मा संवादेन परस्परम् ।
ततस् तुष्टाः सुराः सर्वे ह्य् अगस्त्यं प्रति भारत

21.62

देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च ।
इति ते कथितो राजन्न् इतिहासः पुरातनः

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc