स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 20
इति श्रीस्कन्दपुराणे रेवाखण्डे सृष्टिसंहारसारस्वततीर्थकथनं नामैकोनविंशो ऽध्यायः ॥
र्क्स् अध्याय 20
मार्कण्डेय उवाच:
शाण्डिल्याकल्पगायोगः सर्वपापहरः परः ।
शाण्डिल्येश्वरलिङ्गं च सर्वपापहरं परम्
स्नातमात्रो नरस् तस्मिन्न् अर्चयित्वा महेश्वरम् ।
कर्मभूमिं न लभते हरस्य वचनं यथा
तिलोदकप्रदानेन हविषा पिण्डपातनात् ।
तृप्यन्ति पितरस् तस्य यावद् इन्द्राश् चतुर्दश
राहुसोमसमायोगे कुरुक्षेत्रे महाफलम् ।
तत्रैव जन्म राजर्षेः कार्तवीर्यनृपस्य च
स्नात्वाभ्यर्च्य महादेवं गन्धपुष्पाद्युपस्करैः ।
सूर्याचन्द्रमसौ यावदुमामाहेश्वरे पुरे
भुङ्क्ते स विविधान् भोगांस् तावद् वै शिवसन्निधौ ।
तत्र शाण्डिल्यकौण्डिन्यौ माण्डव्यो मुनिमत्तमः
कौशिकश् च महातेजाः कश्यपो भृगुर् एव च ।
एते चान्ये ऽपि बहवो जपध्यानपरायणाः
मुनीनां षष्टिसाहस्रं तपस्युग्रे व्यवस्थितम् ।
तस्याश्रमपदं रम्यं शाण्डिल्याकल्पगायुजि
शाण्डिल्यपुरम् इत्येव ब्रह्मर्षि विनिषेवितम् ।
द्वादशादित्यतीर्थं च नर्मदादक्षिणे तटे
देवदारु तथा तीर्थम् अन्यद् देववनं तथा ।
दशलक्षाणि तीर्थानि तत्र तिष्ठन्ति संगमे
द्वादशार्कम् इदं नाम तीर्थं पापप्रणाशनम् ।
अन्यानि यानि लिङ्गानि कथितानि तवा ऽनघ
मूषकश्च तथा तीर्थे मार्जारेणैव भक्षितः ।
निशायां मूषकः कश्चिदटमान इतस् ततः
मार्जरेण ततः सो ऽपि भक्षितश् च धृतः पुरा ।
ततो मेघागमे काले प्रवाहस् तत्र निर्गतः
अस्थिप्रवहणं तस्य निमग्नं तत्र सङ्गमे ।
तीर्थस्यास्य प्रभावेण यक्षराजो ऽभवत् नृप
बृहद्वृन्दः समाख्यातो यक्षायुतसमावृतः ।
हंसयुक्तविमानेन यक्षलोके महीयते
अथान्यत् कथयिष्यामि शाण्डिल्यानर्मदाश्रितम् ।
नाम्ना चाप्सरसं लिङ्गं मुक्ताश्चाप्सरसो यतः
ज्ञानरूपमयं देवं सिद्धलिङ्गं प्रकीर्तितम् ।
युधिष्ठिर उवाच:
कस्मादप्सरसः शप्ताः कथं याताश् च सङ्गमम्
कथं च मोक्षणं शापाद् विदितं कुरु साम्प्रतम् ।
मार्कण्डेय उवाच:
शृणु राजन् यथा न्यायं कथयामि तवा ऽनघ
मधूत्सवं शिवस्याग्रे विहायेन्द्रोत्सवं गताः ।
उर्वशी च तथा रम्भा अहल्या च तिलोत्तमा
घृताची मेनका चैव चित्ररेखा च शालिनी ।
एताश् चाप्सरसो बह्व्यः सर्वा वै देव निर्मिताः
वसन्ते ता विशन्ति स्म शक्रलोकं सुरैः सह ।
मदिरानन्दपानेन मोहिताः कामपीडिताः
समतीते वसन्ते तु उमामाहेश्वरं पुरम् ।
कैलासनिलयं देवं समाराधयितुं गताः
शापस्य भयभीतास् ता देवेदेवस्य सुव्रताः ।
साष्टाङ्गं प्रणिपत्याथ मन्त्रगीतेन तुष्टुवुः
ताश् चैवाप्सरसो गौरी ज्ञात्वा तत्र पराङ्मुखी ।
गौर्याः परमचित्तज्ञाः सर्वाभरणभूषिताः
अनङ्गकुसुमा चान्या रूपयौवनशालिनी ।
धनपाली तथा चान्या व्योमरेखा तथापरा
चामरग्राहिणी चान्या गान्धर्वी च तथा ऽपरा ।
हेमदण्डा प्रतीहारा ऊचुरप्सरसः प्रति
उमामाहेश्वरं नाम भवत्यो न समागताः ।
अपराधो ऽयम् एवाद्य भवतीनां सुदुःसहः
अनेनैवापराधेन अजा मर्त्ये भविष्यथ ।
दिव्यं वर्षशतं साग्रम् एवं भवत दुःखिताः
अप्सरस ऊचुः:
शापान्तं नो वरारोहे दातुमर्हसि पार्वति ।
इति तासां वचः श्रुत्वा देवी वचनम् अब्रवीत्
शाण्डिल्याकल्पगायोगे नर्मदादक्षिणे तटे ।
तत्र स्नात्वा दिवं यान्ति शाण्डिल्येश्वरपूजनात्
गौरीतीर्थं तु तत्रैव ज्ञातुं योग्यं हि कल्पगाम् ।
उत्तीर्णा तेन मार्गेण लग्ना स्कन्दस्य पृष्ठतः
तत्र स्नात्वा शिवं नत्वा कैलासं चा गमिष्यथ ।
शापभ्रष्टास् तु तास् सर्वाः क्ष्मां गत्वा अतिदुःखिताः
शापावसाने सम्प्राप्ते कल्पगातीरमाश्रिताः ।
तत्र स्नात्वा तु शाण्डिल्यं पूजयित्वा विधानत
अजारूपधरास् सर्वास् तस्मिन्नप्सरसः क्षणात् ।
दिव्ययानसमारूढास् सर्वालंकारभूषिताः
गौरीतीर्थं तथैवापुर् यथापूर्वं तथैव तु ।
अजातीर्थम् इति ख्यातं देवश्चाजेश्वरस् तथा
सर्वपापहरं चैव लिङ्गमाप्सरसं तथा ।
तत्र स्नात्वा व्यतीपाते नारी वा यदि वा नरः
अवशः स्ववशो वा ऽपि प्राणत्यागं करोति यः ।
दशवर्षसहस्राणि राजा विद्याधरे पुरे
कनकेश्वरमन्यत् तु कनकामोक्षदं शुभम् ।
ज्वरेश्वरं तत्र लिङ्गं ज्वरो यत्र न विद्यते
ज्वरिता ऋषयो यत्र बभूवुर् ज्वरवर्जिताः ।
पञ्चब्रह्मेश्वरं नाम लिङ्गं पापविमोचनम्
असुरो मलकेतुश् च शक्रस्यैव भयेन तु ।
पञ्चब्रह्मात्मकैर् मन्त्रैः स्थण्डिलस्थं तु शङ्करम्
नानाविधैः पुष्पधूपैः सम्पूज्य स्वपुरं ययौ ।
अपराह्णे ऽथ संस्मार स पापो लिङ्गमैशकम्
नमस्कृत्वा ऽथ निर्माल्यं यावद् उद्धर्तुम् इच्छति ।
तावत् तत् स्थाणुभूतं वै लिङ्गं दृष्ट्वा महासुरः
विषसादमहाबाहुः किम् एतद् इति विस्मितः ।
आकाशवाचाचोक्तं वै विषादं त्यजपुत्रक
पञ्चब्रह्मेश्वरं नाम लिङ्गम् एतत् महासुर ।
आकाशवचनं श्रुत्वा नमस्कृत्य दिवं ययौ
पञ्चब्रह्मेश्वरं लिङ्गं लिङ्गं पुष्पेश्वरं तथा ।
तृतीयं तु तथा विद्धि लिङ्गं वै स्थण्डिलेश्वरम्
नित्ये नैमित्तिके कार्ये ग्रहणे चन्द्रसूर्ययोः ।
श्रद्धया सङ्गमे स्नात्वा लिङ्गत्रितयपूजनात्
गच्छन्ति पितरः स्वर्गं हविर्दानादिभिर् यथा ।
मन्वन्तरशतं यावन् मोदते ब्रह्मणः पुरे
नर्मदायाप्यभागे तु गोप्यलिङ्गं व्यवस्थितम् ।
ब्रह्महत्यादिकं पापं सप्तरात्रेण नश्यति
त्वष्टा पूषेति विख्यातौ बलिनौ ब्रह्मराक्षसौ ।
वज्रेण स्वेन शक्रेण हतौ तौ सिन्धुचारिणौ
बुद्ध्वा ब्रह्मादिभिर्देवैर् ब्रह्महा त्वेष वासवः ।
इन्द्राण्या चैव संत्यक्तः सर्वैः सुरगणैस् तथा
ब्रह्महत्या समायुक्तः सम्प्राप्तो वै हिमालयम् ।
चन्द्रहीना यथा रात्रिर् अनादित्यं यथा नभः
इयमाभाति वै तद्वच् छक्रहीना ऽमरावती ।
ततो देवगणैः सर्वैः प्रेषितो हव्यवाहनः
शक्रस्यान्वेषणार्थाय कृशानो गम्यतां त्वया ।
जले दृष्ट्वा निवर्त्या ऽथ देवतास् संन्यवेदयत्
ततस् संप्रेषितो देवैः सर्वव्यापी प्रभञ्जनः ।
स तं प्रवेशयामास प्रोवाच त्रिदशेश्वरम्
देवानां शासनाद् एव समागच्छं च त्वत्कृते ।
तमानीय पुरं दिव्यं ब्रह्मविष्णुपुरस्मराः
ततो देवगणाः सर्वे शक्रेण सहिता गताः ।
ईशानो भगवान् यत्र कैलासे पर्वतोत्तमे
नमस्कृत्य महादेवं सुरासुरनमस्कृतम् ।
प्रविष्टांस् तु यथान्यायं पप्रच्छ भगवान् हरः
किमागमनकार्यं वः कुतो वो भयमागतम् ।
देवा ऊचुः:
एष त्वां प्रति संप्रष्टुं देवराजः शतक्रतुः
मोक्षणं ब्रह्महत्यायाः स्याद् यथा वै तथा कुरु ।
ईश्वर उवाच:
वाराणस्यां क्रतुं चेष्ट्वा हयमेधं यथा विधि
तीर्थयात्राक्रमेणैव ब्रह्महत्या प्रणश्यति ।
नमस्कृत्य ततो देवं सुराः काशीपुरं ययुः
यज्ञोपस्करमादाय तत्र चेष्टो मखोत्तमः ।
पौष्करं नैमिषारण्यं कुरुक्षेत्रं तथा पुनः
केदारं भैरवं तीर्थं गङ्गासागरसङ्गमम् ।
ओघतीर्थं प्रयागं च प्रभासं शशिभूषणम्
बभ्रमुः सर्वतीर्थानि पृथिव्यां यानि कानि च ।
कृष्णमस्य शरीरार्द्धमर्द्धं गौरं निरीक्ष्य च
विस्मयं परमं जग्मुः सर्वे देवगणास् तथा ।
वाराणसीं पुरीं गत्वा सुरा विज्ञापयन्ति तम्
अन्तरिक्षे पुरी ख्याता वाराणस्यसमा तथा ।
पञ्चक्रोशान्तरे तस्या ब्रह्महत्या न सर्पति
पुराणे श्रूयते देव देवराज शतक्रतो ।
यावत् तिष्ठति गङ्गायां वाराणस्यां समागमे
न तावद् ब्रह्महत्या तु निर्गमे पुनराविशेत् ।
काश्युवाच:
नाहं समर्था हरणे मुक्त्वा काचित् तु कल्पगाम्
ब्रह्महत्या यथा नश्येद् उपदेशं ददामि ते ।
शाण्डिल्या नर्मदायोगे याम्ये भागे तु नार्मदे
तत्र स्नात्वा महाराज त्रीणि लिङ्गानि चार्चयेत् ।
पञ्चब्रह्मेश्वरं देवं पुष्पेश्वरम् अथापरम्
तृतीयं तु तथा शक्रलिङ्गं चैव स्थण्डिलेश्वरम् ।
शिवेन कीर्तितं पूर्वं पार्वत्याः षण्मुखस्य च
काशीपुर्या वचः श्रुत्वा देवदेवः शतक्रतुः ।
तं देशं समनुप्राप्य सर्वं स्नानादिकं व्यधात्
तत् क्षणाद् दिव्यदेहश् च सूर्यसंक्रमणं ययौ ।
शरीरात् तस्य निर्गत्य ब्रह्महत्या ह वासवम्
अस्य तीर्थस्य माहात्म्याद् एकहत्या तवैव का ।
ब्रह्महत्यासहस्रं हि तमः सूर्योदये यथा
तीर्थे ऽस्मिन् न विशेद्धत्या योजनानि चतुर्दश ।
एतस्मिन्न् अन्तरे शक्रं प्रत्यक्षं प्राह कल्पगा
शिवम् अस्तु महाराज स्वगृहं याहि साम्प्रतम् ।
इति तस्या वचः श्रुत्वा नमस्कृत्य तु नर्मदाम्
दिव्यं यानं समारूढो मुदा परमया युतः ।
अप्सरोगणसंकीर्णं सिद्धगन्धर्वसेवितम्
तत्रारूढः सुरपतिर् यथापूर्वं तथैव च ।
धृतदिव्यातपत्रस् तु वीज्यमानो ऽप्सरोगणैः
स्तूयमानः सुरगणैः प्रविवेशामरावतीम् ।
शिवेन कथितं ह्य् एतत् पार्वत्याः षण्मुखस्य च
मया तु कथितं राजंस् तव ब्रह्मर्षिपूर्वकम्
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0