भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 19

19.1

इति श्रीस्कन्दपुराणे रेवाखण्डे जनकयज्ञो नामाष्टादशो ऽध्यायः ॥
र्क्स् अध्याय 19
युधिष्ठिर उवाच:
सप्तसारस्वतं तीर्थ शंस मे ऽत्र महामुने ।
उत्पत्तिं चास्य तीर्थस्य कथयस्व यथार्थतः

19.2

मार्कण्डेय उवाच:
सप्तसारस्वतो नाम गन्धर्वः शिवगायनः ।
वीणावेणुप्रेक्षणीय यन्त्रगीतविशारदः

19.3

मणिभद्रा सुभद्रा च हेमगर्भा तथा परा ।
आभिर्वराप्सरोभिश् च चिक्रीडे प्रतिवासरम्

19.4

मदिरा नष्टचैतन्यः कामार्तः काममोहितः ।
विहाय शाङ्करीं पूजां भक्ष्यभोज्यरतो ऽभवत्

19.5

कियत्यपि गते काले ययौ द्रष्टुम् उमापतिम् ।
गीतनृत्यैश् च तुष्टाव कैलासे तं नगोत्तमे

19.6

गन्धर्वं तं समालोक्य चिरकाले समागतम् ।
शशाप नन्दी कोपेन शिवभक्तिपराङ्मुखम्

19.7

चाण्डालयोनिं गच्छ त्वं पापस्यास्य प्रभावतः ।
क्षुत्क्षामस्त्वं निराहारो मर्त्यलोके चरिष्यसि

19.8

प्रसाद्य नन्दिनं सो ऽथ गन्धर्वो वाक्यम् अब्रवीत् ।
शापस्यान्तं महाभाग दातुं मे त्वमिहार्हसि

19.9

नन्द्युवाच:
नर्मदायां व्यतीपाते स्नात्वा ऽभ्यर्च्य महेश्वरम् ।
अन्तं शापस्य संप्राप्य पुनस्त्वं चागमिष्यसि

19.10

एवं तद् वचनं श्रुत्वा चाण्डालीं योनिम् आश्रितः ।
जातिस्मरत्वं संप्राप्य सशैलवनकाननाम्

19.11

बभ्राम धरणीं सर्वां तीर्थयात्राप्रसङ्गतः ।
अथ चक्राङ्गयोगेन नर्मदा तीरमागतः

19.12

शङ्करस्थण्डिले यागं तत्र गत्वा चकार सः ।
पुष्पोपहारैर् विविधैर् वीणावाद्यैर् मनोहरैः

19.13

गन्धर्वभक्तिं विज्ञाय प्रत्यक्षो ऽभूत् महेश्वरः ।
स्थण्डिलादुत्थितं लिङ्गं महापावनमम्भसि

19.14

उवाच तं महादेवो गीतवादित्रतोषितः ।
वरं वृणु महाभाग यत्ते मनसि वर्तते

19.15

कल्पगातोयसंस्पर्शात् प्राप्नोषि परमां गतिम् ।
गन्धर्व उवाच:
यदि तुष्टो महेशान वरं दातुमिहेच्छसि

19.16

सप्तसारस्वतं तीर्थं लिङ्गं सारस्वतं तथा ।
ख्यातिं यातु महादेव त्वत्प्रसादात् महीतले

19.17

तिर्यग् योनिगताः पापाश् चाण्डालाश् च नराधमाः ।
सर्वे ते त्रिदिवं यान्तु तीर्थस्यास्य प्रभावतः

19.18

एवम् अस्त्विति तं चोक्त्वा महेशो ऽन्तरधीयत ।
दिव्ययान समारूढः सर्वालङ्कारभूषितः

19.19

शिवलोकम् अवाप्यैवं यथापूर्वं तथैव सः ।
सप्तसारस्वते स्नात्वा अर्चयित्वा वृषध्वजम्

19.20

कुलैकविंशम् उद्धृत्य स्वर्गलोके महीयते ।
तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः

19.21

शिवाज्ञा वर्तते राजंस् तत्र यस्त्रिदिवं जयेत् ।
युधिष्ठिर उवाच:
कः स्रष्टा चास्य जगतो हर्ता धर्ता च भो मुने

19.22

यथार्थम् एतद् आचक्ष्व विस्तरेण तपोधन ।
त्वत्तो ऽहं श्रोतुमिच्छामि सर्वम् एतन् मुदायुतः

19.23

मार्कण्डेय उवाच:
यथा श्रुतं मया पूर्वं पुराणं स्कन्दकीर्तितम् ।
तथा ते कथयिष्यामि शृणु राजन् यथार्थतः

19.24

स्कन्देन तु पुरा पृष्टो हरः कल्पान्तकारकः ।
चराचरम् इदं सर्वं कथं गच्छति संलयम्

19.25

कुत्र गच्छन्त्यमी देवाः कथं चैषां स्थितिर् भवेत् ।
क्वच गच्छति वै ब्रह्मा कुत्र गच्छति केशवः

19.26

वेदास् तु कुत्र गच्छन्ति सषडङ्गपदक्रमाः ।
अग्नयः पर्वताः सर्वे समुद्रद्वीपसंयुताः

19.27

सिद्धाः सर्वे सनक्षत्राः सूर्याद्याश् च तथा ग्रहाः ।
पातालभुवनादीनि देवलोकाश् च शाश्वताः

19.28

कल्पान्ते च सुरश्रेष्ठ क्व लीयन्ते च देवताः ।
हर उवाच:
कथयामि परं गुह्यं सृष्टिसंहारकारकम्

19.29

प्रलये सर्वभूतानि स्थावराणि चराणि च ।
शिवलिङ्गे विलीयन्ते नष्टे जगति शाश्वते

19.30

शून्यं चैतज् जगत् सर्वं त्रैलोक्यं सचराचरम् ।
आतिष्ठति यदा वह्णिर् विस्फुरन् सर्वतोमुखः

19.31

ततो बृहस्पतिर् गायन् वेदत्रयसमन्वितम् ।
तदैवातिबलो देवः कूर्मरूपो महाद्युतिः

19.32

नरकांश्चादहत् सर्वास् ततः प्रज्वलितो महान् ।
सर्वं दग्धं तु पातालं नागानां भुवनानि च

19.33

कालरूपेण दग्धानि भुवनानि चतुर्दश ।
ज्वालामालाकुलीभूते वाङ्मये सचराचरे

19.34

नष्टे त्रिविष्टपे सर्वे सशैलवनकानने ।
मायामये तु सर्वे ऽस्मिंस् त्रैगुण्ये प्रलयं गते

19.35

विनश्यति ततो ब्रह्मा सहितः सर्वदैवतैः ।
नाशयित्वा च भूतानि ब्रह्माण्डैः सह दैवतैः

19.36

स्थिता तु नर्मदा चैका सुतीर्था सुरपूजिता ।
नर्मदाया ऽवतारो ऽयं मर्त्यलोके व्यवस्थितः

19.37

गतमिन्द्रसहस्रं तु यावद् वै दशपञ्च च ।
अतीतं ब्रह्मणः षट्कं सप्तमो ऽयं प्रजापतिः

19.38

तद् एवम् अग्निमध्यस्थं तेन सर्वम् अचेतनम् ।
अव्यक्ते सर्वभूतानाम् ईशे जागर्ति जाग्रति

19.39

यदा स्वपिति शान्तात्मा तदा सर्वं निमीलितम् ।
स विष्णुः सृष्टिकर्ता च हर्ता च जगतः प्रभुः

19.40

एकीभूतेषु भूतेषु व्यपास्यन् सर्वतेजसाम् ।
पुनः सृष्टिं प्रकुरुते देवदेवः सदाशिवः

19.41

ब्रह्मा भूत्वा ऽसृजल्लोकं विष्णुर् भूत्वा ह्यपालयत् ।
रुद्रः कालाग्निरूपेण हरत्यन्ते स एव हि

19.42

तन्मया कथितं सर्वं किम् अन्यत् परिपृच्छसि ।
इडा नाम कला ह्येषा शम्भोर् वै सप्तकल्पगा

19.43

अक्षया तेन लोके ।#
अष्टौ युगसहस्राणि अहोरात्रं प्रजापतेः

19.44

अनेनैव तु मानेन शतं ब्रह्मा स जीवति ।
पितामहशतेनैव विष्णोर् मानं विधीयते

19.45

निमेषार्द्धं च शम्भोस् तु सहस्राणि चतुर्दश ।
एतावति विनश्यन्ति ह्य् असंख्याताः पितामहाः

19.46

तत्र द्वादशसाहस्रं दैवतं युगम् उच्यते ।
तद् एकसप्ततियुगं मन्वन्तरम् इहोच्यते

19.47

एतच् चतुर्दशगुणं कल्पम् आहुर् मनीषिणः ।
हरार्कचन्द्रमनवः शक्रस्यायुः प्रकीर्तितम्

19.48

लोकपालादयो देवाः साध्याश् चैव मरुद्गणाः ।
अष्टाविंशतिपर्यन्त युगानां सन्ति ते ऽपि च

19.49

एतत् ते कल्पगा कालमानं निगदितं मया ।
ये मृताः कल्पगातीरे दानयज्ञतपः स्थिताः

19.50

दुर्गमं यमलोकं च न पश्यन्ति कदाचन ।
तपसा ध्यानयोगेन ब्रह्मार्चनपरायणाः

19.51

नर्मदातीरमासाद्य ये ऽत्र प्रासादकारकाः ।
दारुणं नरकं घोरं नाश्रयन्ते यमालयम्

19.52

नर्मदां तु निषेवन्ते वार्द्धक्ये तु सुबुद्धयः ।
एतद् एव परं ध्यानं शेषम् अन्यन् निरर्थकम्

19.53

नर्मदादक्षिणे तीरे अशोकवनिकासु च ।
अशोकजननं नाम तीर्थ तत्र व्यवस्थितम्

19.54

अशोकेश्वरलिङ्गं तु सर्वपापप्रणाशनम् ।
तत्र गोलक्षदानेन यत्फलं तत्र गच्छतः

19.55

सप्तसारस्वतं लिङ्गं तथा लिङ्गं सुरार्चितम् ।
साप्तर्षं नाम लिङ्गं च लिङ्गं योगेश्वरं तथा

19.56

चन्द्रकान्तं तथा लिङ्गं वरुणेश्वरम् एव च ।
अभ्यर्च्य परया भक्त्या यमलोकं न पश्यति

19.57

तिलोदकप्रदानेन पिण्डपातेन भारत ।
पितॄन् समुद्धरत्याशुघोरात् पूर्वं परं शतम्

19.58

तत्र दत्तं हुतं यच् च तस्य संख्या न विद्यते ।
पुरा देवगणाः सर्वे तीर्थस्यास्य प्रभावतः

19.59

संसिद्धिं परमां प्राप्य दिवि देवत्वम् आययुः ।
संसारसागरे राजन् सञ्चरन्ति न दारुणे

19.60

युधिष्ठिर उवाच:
लिङ्गानि कीर्तितानीह तथा तीर्थानि यानि च ।
नानाख्यानसमेतानि प्रसादात् कथयस्व मे

19.61

मार्कण्डेय उवाच:
शृणु राजन् महाभाग इतिहासं पुरातनम् ।
नागेश्वरं सिद्धलिङ्गं स्थितं नागह्रदे शुभे

19.62

सिद्धिदं सर्वलोकानां नागकन्याभिरर्चितम् ।
ब्रह्मतेजोवपुः श्रीमान् नाम्ना चैवाघमर्षणः

19.63

द्वादशादित्यसंकाशो दीप्यमान इवानलः ।
आपस्तम्बो ऽथ मैत्रेयः संवर्तश्चात्रिर् एव च

19.64

एते चान्ये ऽपि बहव ऋषयः संशितव्रताः ।
अयुतानि मुनीन्द्राणाम् अष्टौ तत्राश्रमे नृप

19.65

कन्दमूलफलाहाराः शाकाहारास् तथा ऽपरे ।
जलाहारास् तथैवा ऽन्ये केचिद् गोमयभक्षिणः

19.66

चान्द्रायणपराश्चा ऽन्ये श्रुतिस्मृतिविशारदाः ।
मोक्षोपायं विचिन्वन्ति ब्रह्मिष्ठा ब्रह्मवित्तमा

19.67

अघमर्षा ऽश्रमपदं ब्रह्मलोकसमंनृप ।
धर्मस् तु वैश्यरूपेण जिज्ञासार्थं समागमत् ।
सप्तसारस्वते तीर्थे सो ऽर्चित्वा वृषभध्वजम्

19.68

गन्धपुष्पैस् तथा दीपैर् उपहारैर् मनोरमैः ।
वर्तेरन् ऋषयस् तत्र शतमष्टोत्तरं तथा

19.69

भिक्षा च भिक्षवे दत्ता कौपीनं मृगचर्म च ।
साष्टाङ्गं च नमस्कृत्य तान् देवर्षिगणान् मुनीन्

19.70

मासोपवासनिरतो नाशिकारण्यम् आगमत् ।
पुत्रदारस्नुषास् तस्य नित्यं तद् गातगमानसाः

19.71

मासे मासे त्वतिक्रान्ते रविसंक्रमणे नृप ।
ऋतवः षडतिक्रान्ता निराहारं तपस्यत

19.72

न भोगो न च कार्पण्यं न मानो न च मत्सरः ।
न कामक्रोधलोभाश् च निर्जितास् तेन भारत

19.73

वेदार्थे ब्राह्मणार्थे च मम वित्तस्य चार्जनम् ।
विष्णुधर्मपरो नित्यं विष्ण्वाराथन तत् परः

19.74

उत्तरे चायने मासे सप्तसारस्वते तथा ।
स्नात्वा देवं समभ्यर्च्य लिङ्गरूपं जनार्दनम्

19.75

यथा विभवयोगेन भिक्षां दत्त्वा यथा पुरा ।
हर उवाच:
वरं ब्रूहि महाभाग सिद्धस्त्वं धर्मतो यतः

19.76

महाराज महाभाग यत् ते मनसि वर्तते ।
इदं विमानम् आरुह्य दिव्यभोगसुखं कुरु

19.77

पुत्रदारस्नुषोपेतो विष्णुलोकमितो व्रज ।
शार्ङ्ग उवाच:
यदि तुष्टो ऽसि मे देव वरं दातुं यथेप्सितम्

19.78

वरं दशसहस्राणि लोकं यान्तु द्विजोत्तमाः ।
इदं वरमहं मन्ये हरेर् नान्यं कदाचन

19.79

ऋषय ऊचुः:
वैश्यः पापो दुराचारो महतां लाघवं यतः ।
सर्वेषाम् एव वर्णानां ब्राह्मणो गुरुर् उच्यते

19.80

त्रीन् वर्णान् याजयित्वा च त्वं यदा दिवमानयेः ।
न दृष्टं न श्रुतं चासीद् एवं श्रुतिपुराणयोः

19.81

ब्राह्मणस्यापमानेन धर्मो वै जायते क्वचित् ।
तपसा ध्यानधर्माभ्यां न यास्यसि दिवमुने

19.82

अपि वर्षसहस्रेण दुर्गमस्ते सुरालयः ।
व्रज त्वं वैश्यधर्मेण स्वगृहं प्रति साम्प्रतम्

19.83

स एवम् उक्तो विप्रैस्तान् साष्टाङ्गं प्रणिपत्य च ।
उवाच वचनं वैश्यो विमुक्तं मुनिपुङ्गवम्

19.84

अज्ञानाञ्ज्ञानतो वा ऽपि कोपं कर्तुं न युज्यते ।
अज्ञातं त्वां न गृह्णीयाच् छ्रद्धाहीनं च देवता

19.85

सक्रोधेन तपस् तप्तं सर्वं भवति निष्फलम् ।
दैवतैर् अपि दुर्ज्ञेया गहना कर्मणो गतिः

19.86

सत्येन ध्रियते धर्मस् ततः स्वर्गः प्रजायते ।
स्वकर्मनिरतं चैवम् उद्धरन्तं तथा द्विजम्

19.87

वैश्यं ब्राह्मणम् इत्याहुर् ब्राह्मणं वैश्यमेव च ।
निष्ठुरं निर्घृणं क्रूरं कृतघ्नं दीर्घकोपिनम्

19.88

द्विजं वाचालरूपं तु दूरतः परिवर्जयेत् ।
ब्राह्मणा ऊचुः:
को भवान् वैश्यरूपेण ब्रह्मा शक्रो जनार्दनः

19.89

साङ्गोपाङ्गास् तथा वेदास् त्वयि धर्मः प्रतिष्ठितः ।
शार्ङ्ग उवाच:
धर्मो ऽहं वैश्यरूपेण जिज्ञासा ऽर्थम् इहागतः

19.90

इदं विमानमारुह्य गम्यतां वैष्णवं पदम् ।
एते विमानम् आरुह्य सम्प्राप्तास् त्रिदशालयम्

19.91

सप्तसारस्वतं नत्वा तीर्थं देवं हरं हरिम् ।
वैश्यः पुत्रादिभिर् युक्तो प्राप लोकं तु वैष्णवम्

19.92

एतत् ते कथितं राजन् नर्मदातीर्थमुत्तमम्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc