भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 1

1.1

स्कन्दपुराण: रेवाखण्ड (र्क्स्)
र्क्स् अध्याय 1
मज्जनमातङ्गगण्डच्युतमदमदिरामोदमत्तालिजालम् ।
स्नानैः सिद्धाङ्गनानां कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम्

1.2

सायं प्रातर्मुनीनां कुशकुसुमचयाच्छन्नतीरस्थनीरम् ।
पायाद्वो नर्मदाम्भः करिकरभकराक्रान्तरहस्तरङ्गम्

1.3

मार्कण्डेय उवाच:
हिमवच्छिखरे रम्ये सिद्धगन्धर्वसेविते ।
यक्षविद्याधराकीर्णे नानागणसमन्विते

1.4

ब्रह्मविष्णुसुराः सर्वे स्कन्दनन्दिगणेश्वराः ।
चन्द्रादित्यौ ग्रहैः सार्धं नक्षत्रध्रुवमण्डलम्

1.5

वायुश्च वरुणश्चैव कुबेरो ऽथ यमस्तथा ।
इन्द्राद्या देवतास् सर्वे गन्धर्वगण एव च

1.6

ब्राह्म्याद्या मातरश्च ऋषयश्च तपोधनाः ।
मूर्तिमन्तश्च तीर्थानि चण्डभृङ्गिमहाबलाः

1.7

दानवासुरदैत्याश्च पिशाचा भूतराक्षसाः ।
सूर्यकोटिसमप्रख्यं मणिमाणिक्यशोभितम्

1.8

रत्नवैदूर्यसोपानवापीकूपसहस्रकम् ।
पद्मनीलोत्पलोपेतं नानावृक्षसमन्वितम्

1.9

काम्यकामफलैर् वृक्षैः पुष्पितैः फलितैर् युतम् ।
हंसकारण्डवाकीर्णं चक्रवाकोपकूजितम्

1.10

कोककोकिलसंघुष्टं नानापक्षिसमाकुलम् ।
स्थानं सर्वे हरस्यापुः सिद्धैश्च परिसेवितम्

1.11

तत्रासीनं महादेवं शङ्करं लोकशङ्करम् ।
स्तुवन्तः के ऽपि देवेशं केचिन् नृत्यन्ति चाग्रतः

1.12

दिव्यसिंहासनासीनम् उमया सहितं हरम् ।
तेषां मध्ये समुत्थाय स्कन्दो वचनम् अब्रवीत्

1.13

कृताञ्जलिपुटो भूत्वा साष्टाङ्गं प्रणिपत्य च ।
सृष्टिसंहारकर्त्तारं सुरासुरनमस्कृतम्

1.14

ब्रह्मविष्ण्विन्द्रवरदं भक्तानां भक्तवत्सलम् ।
त्र्यम्बकसितकण्ठाय ज्ञाताज्ञातस्वरूपिणे

1.15

ईश्वरायाविनाशाय गजचर्मावगुण्ठिने ।
कपालमालाभरणद्वीपिचर्मधराय च

1.16

भस्मोद्धूलितदेहाय नमस्ते ऽस्तु पिनाकिने ।
अनन्तानन्तरूपाय कालाय परमेष्ठिने

1.17

सद्यो वामस् तथा घोरस् तत्पुरुषाय ते नमः ।
ईशानाय परेशाय सदाशिव नमो ऽस्तु ते

1.18

ऋग्यजुः सामरूपाय अथर्वाय नमो ऽस्तु ते ।
नमः कालाग्निरूपाय सर्वलोकनिवासिने

1.19

नमः कान्तार्द्धदेहाय वर्षिष्ठाय च ते नमः ।
ओं नमः शिवाय रूपाय भीमाय भवरूपिणे

1.20

शिवाय भवरूपाय भीमरूपकपर्दिने ।
त्वया व्याप्तं जगत् सर्वं त्रैलोक्यं सचराचरम्

1.21

जिह्वाचापल्यभावेन खेदितो ऽसि मया प्रभो ।
क्षमस्व मम ईशान अज्ञानाञ्ज्ञानतो ऽपि वा

1.22

ईश्वर उवाच:
वरं वृणीष्व भद्रं ते स्तवेनानेन सुव्रत ।
ददामि ते न सन्देहो वरं मनसि काङ्क्षितम्

1.23

स्कन्द उवाच:
यदि तुष्टो ऽसि मे देव वरं दातुममेच्छसि ।
उत्तरे तु दिशाभागे हर्म्या हेममयाः शुभाः

1.24

सप्तभौमास्तु विस्तीर्णहेमप्राकारतोरणाः ।
नानामणिसमुक्ताद्या वज्रवैदूर्यमण्डिताः

1.25

तत्रैव मधुरा वाणी वेणुवीणाः सहस्रशः ।
प्रेक्षणीयैर् नृत्यगीतैर् दिव्यकान्तिमनोहरैः

1.26

कस्यैतानि गृहाणीति मेरोरुत्तरतः शिव ।
त्वत्प्रसादात् तु पृच्छामि परं कौतूहलं हि मे

1.27

ईश्वर उवाच:
शृणु स्कन्द सुरश्रेष्ठ कथ्यमानं निबोध मे ।
भृगुस्थाने पुरे ये वै राहुसूर्व्यसमागमे

1.28

कुरुक्षेत्रे प्रभासे च मोक्षे रुद्रपदे तथा ।
केदारक्षेत्रके स्थाने रुद्रे कनखले तथा

1.29

भैरवे ललिताक्षेत्रे शिव ध्यात्वा च पुत्रक ।
ये पृताः शिवनद्यां तु शिवध्यानपरायणा

1.30

तेषां गृहाणि रम्याणि स्वयं कर्मफलार्जितैः ।
सप्तभौमैर् गृहैर् दिव्यैर् वस्त्रभोगाश् च पुष्कलाः

1.31

दत्तानि च मयैतेषां हर्म्यभोगसुखानि च ।
स्कन्द उवाच:
सहस्रशतभौमाश्च वैदूर्यमाणमण्डिताः

1.32

कूटैः कपाटकैर् नद्धसिद्धद्वाराण्यनेकशः ।
नित्योत्सवैर् नृत्यगीतैः काम्यैर् दिव्यैर् मनोहरैः

1.33

असंख्याता गृहा रम्याः सूर्यकोटिसमप्रभाः ।
कस्यैतानीह हर्म्याणि पूर्वभागे महेश्वर

1.34

दक्षिणे पश्चिमे चैव नानाभोगाः सहस्रशः ।
सुरेन्द्रभवने भोगाः कलां नार्हन्ति षोडशीम्

1.35

केन कर्म्मविपाकेन शूभेनाप्यशुभेन वा ।
कूष्माण्डवासिनश्चक्रे घोरे मज्जन्ति तामसे

1.36

पूयशोणितकूपेषु कृमिकीटपतङ्गिनः ।
तिर्यग्योनिगताः पापैः पीड्यमानास् तु मानुषाः

1.37

दारिद्र्यदुःखिता दीनाः पच्यमाना बुभुक्षिताः ।
केन कर्म्मविपाकेन शूभाशुभगति प्रभो

1.38

एतत्सर्वं यथान्यायं कथयस्व प्रसादतः ।
ईश्वर उवाच:
ये मृता नर्मदातीरे सङ्गमे तिग्मदार्शिते

1.39

तेषां गृहाणि रम्याणि पूर्वभागे च षण्मुख ।
ओंकारदक्षिणे भागे पूर्वतो ऽमरकण्टके

1.40

नर्मदाकोटितीर्थे च ये मृताः स्कन्दमानुषाः ।
हर्म्ये मनोरमे रम्ये ते वसन्ति नरोत्तमाः

1.41

भृगावग्नौ जले वापि रेवाकपिलसङ्गमे ।
दानं दत्तं तपस्तप्तं ते वसन्ति गृहैर् इमैः

1.42

गोदावर्य्यां पयस्विन्यां तपत्यां चैव सङ्गमे ।
त्र्यम्बके धौतपापे च हिमाद्रौ विन्ध्यपर्वते

1.43

महेश्वरमये सह्ये गोकर्णे च महाबले ।
हरिश्चन्द्रपुरे चन्द्रे श्रीशैले त्रिपुरान्तके

1.44

कृष्णायां ससमुद्रायाम् एकादश्यां महानदे ।
कार्तिके योनिकुण्डे च ये म्रियन्ते च पुत्रक

1.45

याम्ये हर्म्ये हेममये तेषां श्रेष्ठास् स्वयम्भुवः ।
नाना भोगांश्च भुञ्जन्ति यथा शक्रस् त्रिविष्टपे

1.46

सरस्वत्यां त्यजेत् प्राणान् प्रभासे शशिभूषणे ।
पारियात्रे महाकाले प्रयागे च महापथे

1.47

तेषां गृहाणि रम्याणि नानाभोगाश्च पुष्कलाः ।
मणिमाणिक्यदीप्ताभाः सौम्ये कोटित्रयोदश

1.48

एवं तथैकाविंशत्या भूर्वे चैवोपवेशिताः ।
दक्षिणे नवकोट्यस्तु भृता हर्म्या हिरण्मयाः

1.49

गृहा मौक्तिकसंकाशाः कोट्यः षोडश वारुणे ।
तीर्थयात्राविशेषेण दानधर्मविशेषतः

1.50

भुञ्जन्ति विविधान् भोगान् मया तुष्टेन पुत्रक ।
मेरोरुत्तरतो भागे दक्षिणे वारुणे तथा

1.51

क्रीडन्ति च मनोहारिमन्दिरे देवनिर्मिते ।
देवानां वार्द्धकिस्तत्र कर्ता विश्वस्य कर्मणः

1.52

सर्वरत्नमयं हर्म्यं भुवनोपरि पश्यसि ।
पूर्वभागे महासेन नार्मदः फलमश्नुते

1.53

एतत्ते कथितं स्कन्द परिपृष्टं त्वया च यत् ।
देवानां च हितार्थाय तुभ्यं सर्वं मयानघ

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc