स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 18
इति श्रीस्कन्दपुराणे रेवाखण्डे नागेश्वराख्यानं नाम सप्तदशो ऽध्यायः ॥
र्क्स् अध्याय 18
मार्कण्डेय उवाच:
अथान्यत् कथयिष्यामि तीर्थं च जनकोत्तमम् ।
रेवाया उत्तरे कूले सर्वसिद्धिप्रदायकम्
अश्वमेधं तु तत्रैव शतमेधं तथापरम् ।
सहस्रमेधं विज्ञेयं सुरासुरनमस्कृतम्
लक्षमेधं तथा चान्यं शिवेन परिकीर्तितम् ।
जनको नाम राजर्षिर् यत्रेष्ट्वा त्रिदिवं ययौ
स्वारोचिषे ऽन्तरे प्राप्ते त्रेतायां च नराधिप ।
पुरोधसं याज्ञवल्क्यं ब्रह्मर्षिं ब्रह्मवित्तमम्
कश्यपस्याश्रमं पुण्यं ब्रह्मर्षिगणसेवितम् ।
सिद्धगन्धर्वगीताढ्यं वेदध्वनिनिनादितम्
युक्तं कामफलैर् वृक्षैः पुष्पितैः फलितैः शुभम् ।
धनदस्य पुरी यद्वद् अलका देवनिर्मिता
तद्वच् च शोभितं नानामुनि वृन्द निषेवितम् ।
कामधेनूस् तथा दिव्याः शतसंख्याः पयस्विनीः
याज्ञिकानृत्विजश् चैव क्रतुं कर्तुं यथाविधि ।
यज्ञोपस्करसंभारं सर्वमादाय गच्छति
आदिदेश ततो मर्त्यान् भृत्यांश् चैव सहस्रशः ।
भक्षभोज्यादि संभारसंख्यां कर्तुं न शक्यते
एवं प्रवर्तितस् तत्र लक्षमेधः क्रतूत्तमः ।
जगृहुर् यज्ञभागं च शक्राद्याः सुरसत्तमाः
निवर्तितस् ततो यज्ञो हरिर् ब्रह्मा शतक्रतुः ।
नानविधैस् तथा रत्नैर् वासोयुग्मैश् च तार्पिताः
स्वं स्वं यानं समारूढा जग्मुर्देवास्त्रिविष्टपम् ।
नर्मदावभृथं स्नात्वा पुत्रदारोपशोभितः
हरं हरिं चाऽर्चयित्वा वरदानप्रभावतः ।
दिव्यं यानं समारूढो यथा शक्रो ऽमरैः सह
धृतस्वर्णातपत्रस् तु बीज्यमानो ऽप्सरोगणैः ।
गीयमानो ऽप्सरोभिश् च नानालङ्कारभूषितः
दृष्टो जनकराजा ऽतः धर्मराजः समुत्थितः ।
यानस्या ऽग्रे पादचारी अर्घपाद्यादिसंयुतः
कृताञ्जलिपुटो भूत्वा वचनं चेदमब्रवीत् ।
तपसा ध्यानयोगेन दानदेवार्चनैर् अपि
शिवरेवाप्रसादेन जिता लोकास्त्वयाखिलाः ।
उवाच जनको राजा धर्मराजं यशस्विनम्
तथैव तव मूर्तिश् च यथा भानुः प्रभाकरः ।
ब्रह्माविष्णुस् तथा शम्भुः साक्षी सकलकर्मणाम्
एवं जनकसंवादे धर्माधर्मविचारणात् ।
एतस्मिन्न् अन्तरे प्राप्तः किङ्किणीजालमण्डितम्
वेणुवीणानिनादाढ्यम् अप्सरोगणसेवितम् ।
विमानं दिव्यम् आरूढो देवराजः शतक्रतुः
नारदः पर्वतश् चैव तथान्ये मुनिसत्तमाः ।
धर्मराजपुरं प्राप्ताः श्रुत्वा जनकमागतम्
अध्यासुस् तम् अक्रुध्यन्तम् आसनानि महान्ति च ।
प्रसमीक्ष्य यथार्हन्तु पूजिताश् च पृथक् पृथक्
तेषां मध्ये महाराज नारदो धर्मम् अब्रवीत् ।
के देशाः पर्वताः पुण्याः का नद्यश् चाश्रमाश् च के
कानि तीर्थानि लोके ऽस्मिन् यत्र दत्तं हुतं तपः ।
न क्षीयते मनुष्याणां तन्मे कथय तत्त्वतः
जानामि त्वां महाराज सूर्यपुत्रो ब्रवीहि मे ।
स्वरूपमद्य सर्वेषां यथा वदनुपूर्वशः
धर्म उवाच:
श्रूयतां मुनिशार्दूलशिवलोके यथा श्रुतम् ।
कल्माषपादो विख्यातो मथुरायां नराधिपः
नाभागो नाम राजर्षिर् अयोध्याधिपतिस् तथा ।
यानं चोपरि राजर्षेर् नाभागस्य महात्मनः
अधः कल्माषपादस्य दृश्यते सर्वदैवतैः ।
शिवलोके विवादो ऽभूत् तयोस् तत्र महात्मनोः
कल्माषपाद उवाच:
पुष्करे दशयज्ञाश् च मया चेष्टा विधानतः ।
गङ्गायां नैमिषारण्ये प्रभासे शशिभूषणे
गङ्गायमुनयोर् योगे वाराणस्यां तथैव च ।
इष्टं यज्ञशतं साग्रं मया तत्र महेश्वर
अधोभागे विमानो मे नाभागस्य ममोपरि ।
कल्पगां वर्जयित्वा तु तीर्थे तीर्थे मखोत्तमाः
कृता मया महादेव विमानं मे तथा ऽप्यधः ।
ईश्वर उवाच:
शृणु राजन् महाभाग कथ्यमानं निबोध मे
लक्षमेधं नाम तीर्थं रेवाया उत्तरे तटे ।
लक्षमेधेश्वरं नाम्ना लिङ्गं तत्र परं स्मृतम्
चकार तत्र नाभागो यज्ञमेकं यथोदितम् ।
तत्तीर्थयज्ञमाहात्म्याद् यानमस्योपरि स्थितम्
असंख्येष्व् अपि तीर्थेषु त्वयेष्टं राजसत्तम ।
विहाय कल्पगां तेन तव यानमधः स्थितम्
धर्म उवाच:
न शङ्करात् परो देवो न रेवायाः परा नदी ।
न सत्यात् परो धर्मो कारुण्यं सर्वजन्तुषु
मया श्रुतं सूर्येलोके सूर्येणापि महेश्वरात् ।
एतत् ते सर्वमाख्यातं यथादृष्टं पुरातनम्
वासीयो नर्मदातीरे शिवध्यानपरायणः ।
न तस्य वै यमः शास्ता यमलोकं न पश्यति
ब्रह्मा विष्णुः शिवः शास्ता सत्यमेव यथोदितम् ।
धर्मराज्ञा समग्रं तु नारदाद्यामहर्षयः
धर्माख्यानम् इदं श्रुत्वा मुदापरमयायुताः ।
स्वं स्वं यानं समारुह्य शक्राद्यास् त्रिदिवं ययुः
धर्माख्यानम् इदं पुण्यम् इतिहासं पुरातनम् ।
कथितं तव यत्नेन विदेहाद्या नराधिपाः
दानयज्ञप्रभावेण त्रिदिवं वरमाययुः
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0