भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 17

17.1

इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये ह्रदाख्यानं नाम षोडशो ऽध्यायः ॥
र्क्स् अध्याय 17
मार्कण्डेय उवाच:
अथान्यत् परमं तीर्थं कथ्यमानं निबोध मे ।
सहस्रयज्ञं विख्यातं त्रिषु लोकेषु विश्रुतम्

17.2

तत्र स्नात्वा च जप्त्वा च पूजयित्वा महेश्वरम् ।
न तस्य पुनरावृत्तिर् घोरे संसारसागरे

17.3

कथयामि तवाख्यानम् इतिहासं पुरातनम् ।
ताराबलिर्नाम नागः कम्बलाश्वतरौ तथा

17.4

श्वेतोरगास् तथा चान्ये भुजङ्गाश् च तथा ऽपरे ।
नागेश्वरं ते ऽर्चयन्ति नानापुष्पविलेपनैः

17.5

नागपूगाः समासाद्य पूजयन्ति महेश्वरम् ।
गर्गो ऽघमर्षणश् चैव च्यवनः शौनको ऽङ्गिराः

17.6

एते चान्ये ऽपि बहवो ब्रह्मविद्याङ्गपारगाः ।
नागानां चाश्रमं हर्तुं तत्र सर्वे ह्य् उपस्थिताः

17.7

ततस्तैः कुपितैर् नागैर् दष्टाश् चैव द्विजोत्तमाः ।
विषाघ्रातान् मुनीन् दृष्ट्वा कुपितश् चाघमर्षणः

17.8

वाहनं वासुदेवस्य पक्षिराजं समाह्वयत् ।
तत्क्षणाद् आगतः पक्षी गरुडः क्रोधमूर्छितः

17.9

कृताञ्जलिपुटो भूत्वा ब्राह्मणं चेदमब्रवीत् ।
भुजङ्गान् भक्षयिष्यामि ब्राह्मणा निर्विषास् ततः

17.10

ब्रह्मशापभयार्तेन गरुडेन विषोल्बणाः ।
भक्षिताः पन्नगाः सर्वे मोचिता मुनयो विषात्

17.11

पक्षीन्द्रे च गते स्थाने भक्षयित्वा भुजङ्गमान् ।
अवशिष्टास् तु ये नागा विविशुस्ते रसातलम्

17.12

आप्लवे च सुसंप्राप्ते प्रवाहो नार्मदः क्षणात् ।
अस्थीनि स्रावयामास ततो नागा दिवं ययुः

17.13

सर्पयोनिं परित्यज्य लोके क्रीडन्ति शाम्भवे ।
नागेश्वरस्य रेवायाः सम्पर्कात् पापमोक्षणम्

17.14

तत्र नागह्रदश् चास्ते त्रिषु लोकेषु विश्रुतः ।
तत्र स्नातो दिवं याति यो नागेश्वरमर्चयेत्

17.15

अयं ते कथितो राजन्नितिहासः पुरातनः ।
श्रवणात् कीर्तनाद् वा ऽपि मुच्यते भवबन्धनात्

मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc