स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 16
इति श्रीस्कन्दपुराणे रेवाखण्डे कार्तवीर्याख्याने पञ्चदशो ऽध्यायः ॥
र्क्स् अध्याय 16
मार्कण्डेय उवाच:
अथान्यं संप्रवक्ष्यामि सङ्गमं लोकविश्रुतम् ।
बृहत्या नर्मदायास् तु सुरासुरनिषेवितम्
नानाद्रुमलताकीर्णं विन्ध्यपर्वतसेवितम् ।
चम्पकैर् बकुलैर् युक्तमशोकैः स्तबकैर् अपि
पुन्नागैः किङ्किरातैश् च सुगन्धैर् नागकेशरैः ।
मल्लिकोत्पलजातीभिः पाटलैः पारिजातकैः
आम्रजम्बूकपित्थैश् च श्रीफलैः पनसैस् तथा ।
खर्जूरैर् बदरीभिश् च दाडिमैर् बीजपूरकैः
अरुष्करैः क्षीरवृक्षैर् नारङ्गैर् उपशोभितैः ।
भरणायात्मवर्गस्य संविधाय वनेचरः
मुखगण्डूषसलिलं शिवाय स समाहरत् ।
अज्ञानभक्तिगर्भस् तु स्नापयित्वा फलं ददौ
वासरे वासरे चैव निषादो धर्मतत्परः ।
सौम्यायने च चक्षुर् वै दत्त्वा सौम्यं तथात्मनः
एवं सम्पूजयामास त्र्यम्बकं विधिपूर्वकम् ।
एतत् ते कथितं राजन् कल्पगा नेत्रसङ्गमम्
युधिष्ठिर उवाच:
भगवन् छ्रोतुम् इच्छामि महाकौतूहलं हि मे ।
संजातो मुनिशार्दूल स कथं नेत्रसङ्गमः
मार्कण्डेय उवाच:
एकस्मिन् वासरे प्राप्ते व्यतीपाते च संक्रमे ।
स पुष्पभारमादाय प्रविवेश शिवालये
तृतीयम् ईक्षणं तत्र देवस्य च न पश्यति ।
तदा तु चिन्तयामास विस्मयाविष्ट चेतनः
केनापहृतम् एतस्य नेत्रं देवस्य पाप्मना ।
इत्य् उक्त्वा च स्वकं नेत्रं तीक्ष्णबाणेन भारत
ललाटे देवदेवस्य उत्कृत्य संन्यवेशयत् ।
न कम्पो न च कार्पण्यं ना ऽन्यथा तस्य मानसम्
ततस् तुष्टः सुरेशानो निषादं प्रति भारत ।
प्रहसन् न ब्रवीद् देवो वरं वृणु यथेप्सितम्
शिवप्रसादसम्पन्ना बुद्धिर् अन्या प्रचक्रमे ।
मार्कण्डेय उवाच:
श्रुत्वा तु वचनं शम्भोः साष्टाङ्गं प्रणिपत्य सः
यदि तुष्टो ऽसि देवेश वरं दातुं ममेच्छसि ।
निषादास्त इमे सर्वे मृगपक्षिगणैः सह
सपुत्रदारपशवो ये चान्ये पापयोनयः ।
त्वत् प्रसादान् महेशान शिवलोकं प्रयान्तु ते
एतद् वरम् अहं मन्ये भूतानां हितकाम्यया ।
एतच्छ्रुत्वा वचस् तस्य निषादाधिपतेः शिवः
उवाच सर्वकामाप्तिं मत्प्रसादात् त्वमाप्स्यसि ।
एवम् उक्त्वा शिवो राजंस् तत्रैवान्तरधीयत
दिव्ययानसमारूढो निषादो ऽनुचरैः सह ।
धृतस्वर्णातपत्रं तु वीज्यमानो ऽप्सरोगणैः
दिव्याभरणशोभाढ्यः सर्वालङ्कारभूषितः ।
दिव्यवस्त्रपरीधानो दिव्यगन्धानुलेपनः
सुरासुरैः स्तूयमानो वेणुवीणापुरस् सरः ।
प्रायाच्छिवपुरं क्षिप्रं तीर्थस्यास्य प्रभावतः
एतत् ते कथितं राजन् छिवनेत्रह्रदाश्रितम् ।
अनेकशतसंख्याताः पापयोनिरता नराः
नर्मदाशिवसंयोगे संसिद्धिं परमां गताः ।
अवश स्ववशो वा ऽपि यस् तु प्राणान् परित्यजेत्
वसेद् वर्षसहस्राणि उमामाहेश्वरे पुरे ।
श्रवणात् कीर्तनाच् चापि मुच्यते भवबन्धनात्
धन्यास् ते पुरुषा राजन् ये म्रियन्ते शिवायने ।
न तेषां गर्भभूतिश् च जन्म चैव युधिष्ठिर
पुत्रदारपरिग्रस्ता मोहजालसमावृताः ।
कल्पगां तु न पश्यन्ति पापोपहतचेतसः
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0