स्कन्दपुराण: रेवाखण्ड (संशोधित पाठ) · अध्याय 15
इति श्रीस्कन्दपुराणे रेवाखण्डे शिवमहिमवर्णनो नाम चतुर्दशो ऽध्यायः ॥
र्क्स् अध्याय 15
युधिष्ठिर उवाच:
भूयश् चेच्छाम्यहं श्रोतुं नर्मदाकीर्तनं शुभम् ।
आख्यानसहितं देव विदितं वद साम्प्रतम्
मार्कण्डेय उवाच:
शृणु राजेन्द्र तीर्थं वै शिवेन कथितं पुरा ।
कामदं मोक्षदं चैव यज्ञदानप्रभावतः
रेवाया उत्तरे कूले कपिलासंगमात् परम् ।
वैदूर्यात् पश्चिमे भागे विख्यातं नर्मदापुरम्
अर्धकोटिस् तु तीर्थानां महादेवेन भारत ।
शतमष्टोत्तर तत्र लिङ्गानां परिकीर्तितम्
यत्र वै वसुरुद्रैश्च ब्रह्माद् यैश् च सुरासुरैः ।
सिद्धगन्धर्वयक्षैश् च विद्याधरमहोरगैः
वेदध्वनि निनादेन व्याप्तमस्ति चराचरम् ।
यत्राग्निर् हुत होमेन त्रिदिवं पर्यपूरयत्
देवर्षयो महाराज तथा ब्रह्मर्षयः परे ।
आसन् राजर्षयस् तत्र तापसा व्यवसायिनः
ब्राह्मणाश् च वसन्ति स्म मनसा ब्रह्मचिन्तनाः ।
आश्रमं जमदग्नेश् च ऋषिकोटिसमावृतम्
कश्यपो गालवो गर्गो बादरायणशाकटौ ।
अत्रिश् चैव वशिष्ठश्च पुलस्त्य पुलहः क्रतुः
भृगुश् चैव मरीचिश् च भारद्वाजो महातपाः ।
शाकल्य ऋष्यशृङ्गश् च मनुर् विष्णुर् यमो ऽङ्गिराः
वाशिष्ठदक्षौ संवर्तः शातातपपराशरौ ।
आपस्तम्बः शुको व्यासाः कात्यायनबृहस्पती
हारीतः शङ्खलिखितौ याज्ञवल्क्यो ऽथ गौतमः ।
अगस्त्यः पावकाख्यश् च दुर्वासा उग्रतापसः
शतानन्दस् तथा जह्नुर् वैशम्पायनजैमिनी ।
लोमशश् च विहङ्गश् च शौनको हरिर् एव च
एते चान्ये ऽपि मुनयो बहवः संशितव्रताः ।
ज्वलन्तस् तपसा तत्र सूर्यतेजः समप्रभाः
चतुर्विद्यावेदविदः श्रुतिस्मृतिविशारदाः ।
संवत्सरकृताहारा अपाहारकरास् तथा
मासोपवासिनश् चान्ये तथा पक्षोपवासिनः ।
शाकाहारानिराहाराः तथा ऽन्ये मारुताशनाः
कन्दमूलफलाहारा महात्मानस् तथा परे ।
इतिहासपुराणादि नानाशास्त्रविचिन्तकाः
मोक्षोपायधृतात्मानो मौनिकाश् च न मौनिकाः ।
एकपादार्द्धपादाश् च भूमौ कारणभोजिनः
आख्यानं कथयिष्यामि नर्मदापुरवासिनाम् ।
जमदग्निस् तु निवसन् मुनिः शिवपरायणः
नर्मदासङ्गमे स्नात्वा तत्राभ्यर्च्यमहेश्वरम् ।
विविधैर् गन्धपुष्पैश्च तथा ऽगुरुमनोहरैः
दक्षिणामूर्तिम् आश्रित्य जपन्नासीत् तथा मुनेः ।
मासं च जपतस् तस्य देवदेवो महेश्वरः
सिद्धेश्वरं नाम लिङ्गं सिद्धा यत्र सुरासुराः ।
उवाच वचनं देवो ब्राह्मणं प्रति भारत
तुष्टो ऽहं तव भक्त्या तु रुद्रजाप्येन तोषितः ।
जमदग्निरुवाच:
यदि तुष्टो महादेव वरं दातुं ममेच्छसि
होमार्थं चैव धेनुं मे ददस्व परमेश्वर ।
धर्मकर्मशुभार्थेषु शिवपूजासु तर्पणे
पितृकार्ये देवकार्ये गावः पुण्यतमाः स्मृताः ।
एतस्मात् कारणाद् ईश होमधेनुं प्रयच्छ मे
दत्ता चैव महाभाग सर्वकामसमृद्धये ।
एवम् उक्त्वा ददौ राजंस् तत्रैवान्तरधीयत
यान् यान् प्रार्थयते कामांस् तांस् तान् प्राप्नोत्य् असौ ततः ।
ऋषीणां च सहस्राणि कामैर् भोजयते द्विजः
हिरण्मयैः स्वर्णपात्रैर् नानाभक्ष्यैर् यथेच्छया ।
कीर्तिर् ब्रह्मर्षिभिर् मान्यैः सर्वैः सुरगणैस् तथा
जमदग्नेर् मुनीन्द्रस्य आश्रमे चोपवृंहिता ।
एतावति गते काले कार्तवीर्यो नृपोत्तमः
माहिष्मतीं परित्यज्य स्वर्गसोपानम् उत्तमम् ।
एकस्मिन् दिवसे राजा मृगयां च समाश्रितः
विन्ध्यं गिरिमनुप्राप्तो रेवातीरं समाश्रितः ।
हत्वा पशुसहस्राणि जमदग्न्याश्रमं गतः
देह्येतां मां निजायोग्यां गां जगाद मुनिं प्रति ।
कार्तवीर्यवचः श्रुत्वा जमदग्निर् भयाकुलः ।
चिन्तयामास सुचिरं किमेतद् इति विस्मितः
धर्मो ह्य् अधर्मरूपेण कर्मभिः पुण्यसंचितैः ।
अधर्मो धर्मफलदो गहना कर्मणो गतिः
इति चिन्तयतस् तस्ये न किंचिद् ब्रुवतो मुनेः ।
अपहृत्य बलाद् धेनुं घातयित्वा च तं मुनिम्
स्थानान् निरगमत् तस्मात् कार्तवीर्यो नृपाधमः ।
कशादिभिस् ताडिता तु होमधेनुर् मुहुर्मुहुः
शापं दत्त्वा ततस् तस्य पुनर् धेनुर् दिवङ्गता ।
करिष्यते कुलान्तं च रैणुकेयो नृपाधम
हाहाकारो महानासीलोकानां च युधिष्ठिर ।
दुराचारस् ततः को ऽयं ब्राह्मणानां च कोपकृत्
अथ श्रुत्वा महादेवो भार्गवः पितृसूतकम् ।
सहसैवागतः कोपात् समिधो ऽग्निरिव ज्वलन्
निहतं पितरं दृष्ट्वा कोपाद् द्विगुणविक्रमः ।
जगाम सहसोत्थाय पुरीं माहिष्मतीं प्रति
कार्तवीर्यार्जुनं दृष्ट्वा क्रुद्धः प्रोवाच भार्गवः ।
तिष्ठ तिष्ठ क्व गन्तासि निहत्य पितरं मम
इत्युक्त्वा ऽदाय परशुं चिच्छेद च भुजावनम् ।
शिरसैव समं कोपात् क्षत्रियान्तकरो मुनिः
हते तस्मिन् महावीर्ये कार्तवीर्ये दुरात्मनि ।
देवदुन्दुभयोनेदुः पुष्पवृष्टिः पपात च
तत् कोपाद् अकरोत् सर्वां निःक्षत्रां पृथिवीं तदा ।
प्रतिज्ञां सफलीकृत्य स जगाम तम् आश्रमम्
मातरं च नमस्कृत्य ततश् चान्यान् मुनीश्वरान् ।
देवं परशुरामेशं संस्थाप्य विधिपूर्वकम्
विशोकैरण्डिका चैव तृतीया पावनी तथा ।
पितुश्चकार तत्रैव सहसैवोत्तरां क्रियाम्
देवद्रोणीति विख्याता तत्रास्ते कपिला शिला ।
तत्र पिण्डप्रदानेन दिवं गच्छन्ति पूर्वजाः
एतत् ते कथितं राजन् नर्मदापुरम् उत्तमम् ।
श्रवणात् कीर्तनात् तस्य दिवि देवत्वम् आप्यते
मूल पाठ: Skandapurāṇa: Revākhaṇḍa (RKS) · Edition: Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa). Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0